Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 03
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 59
________________ १०५ पञ्चमं पर्व-तृतीयः सर्गः ___ एकदा च स वज्रायुधः सामन्तादिपरिवृतः सभामण्डपमध्यास्त । तदानीं चाऽम्बरतलादेको विद्याधरयुवा शरणाय तमागात् । तत्पृष्ठे च विद्याधरी खड्ग-फलकधरा सुरेखाऽप्यागात् । सा च चक्रिणमूचे"देव ! अयं दुरात्मा विसृज्यताम् । यथाऽस्य दुर्नयफलमचिरादृर्शयामि"। तत्पृष्ठतश्च गदापाणिर्यमदूत इव भीषणः क्रुद्धः कोऽपि विद्याधरः समागात् । स उवाच-"अस्य दुर्नयः श्रूयताम् । येनाऽहमियं चाऽस्य वधेच्छया समागतौ । अस्य जम्बूद्वीपस्य विदेहक्षेत्रे सुकच्छनाम्नि विजये वैताढ्ये पुरोत्तमे शुल्कपुरपुरे शुक्लदन्तनृपस्य यशोधरायां पल्यामहं पवनवेगो नाम तनयः । क्रमात् कलाकलापं यौवनं च प्रपन्नस्तत्रैव पुरे किन्नरपुरे दीप्तचूलनृपस्य चन्द्रकीर्तिनाम्न्यां पत्न्यां जातां सुकान्तां परिणीतवान् । तस्यां जाता तव पुरःस्थितेयं मम पुत्री शान्तिमती नाम । सेयं मणिसागरे पर्वते प्रज्ञप्तिकां विद्यां साधयन्त्यनेन विद्याधरेण व्योमन्युच्चिक्षिपे । तदानीमेव चाऽस्या विद्याऽसिध्यत् । तत: पलायितोऽयं विद्याधराधमः क्वाऽपि शरणमलभमानस्त्वत्पादमूलं प्राप्तोऽस्ति । अहं प्रज्ञप्तिविद्यापूजार्थं बलिं गृहीत्वा समागतस्तत्र गिरौ निजां दुहितरमपश्यम् । तत आभोगिन्या विद्यया सर्ववृत्तं ज्ञात्वेहाऽऽगतोऽस्मि । सोऽयं दुरात्मा त्यज्यताम् । यथाऽनया गदया दलयित्वैनं यमपुरं प्रेषयामि" । ततोऽवधिज्ञानाज्ज्ञात्वा वज्रायुधश्चक्रयवोचत्-भो ! अस्य प्राग्भवसम्बन्धः श्रूयताम् । अस्यैव जम्बूद्वीपस्यैरावते क्षेत्रे विन्ध्यपुरे नगरे विन्ध्यदत्तो नाम नृपोऽभवत् । तस्य च सुलक्षणाख्यायां पत्न्यां नलिनकेतुनामा सुतोऽभवत् । तत्रैव च नगरे धर्ममित्रो नाम सार्थवाहोऽभवत् । तस्य च श्रीदत्तायां पल्यां दत्तो नाम सुतोऽभवत् । दत्तस्य च प्रभङ्करा नाम दिव्यरूपा पत्न्यासीत् । त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः एकदा स वसन्ततॊ तया दयितया समं रन्तुमुद्यानं ययौ। नलिनकेतुश्च तदैव तत्राऽऽगतः प्रभङ्करां दृष्ट्वा तद्रूपमोहितः कामार्त्तस्तामहार्षीत् । तथा तया सह क्रीडोद्यानादिषु यथेच्छं रेमे । दत्तश्च तद्विरहानलपीडित उन्मत्त इव प्रभङ्करां ध्यायंस्तत्रोद्याने बभ्राम । भ्रमता च तेन सुमना नाम मुनिर्ददृशे । तदानीमेव च तस्य मुनेः केवलमुत्पन्नम् । देवैश्च तस्य केवलज्ञानमहिमा चक्रे । दत्तोऽपि च मुनि वन्दित्वा देशनां श्रुत्वा क्षणात् तापं विहायोपशान्तो दानकर्मनिरतः शुभध्यानी प्रकृष्टं पुरुषायुषमतिवाह्य जम्बूद्वीपे प्राग्विदेहे सुकच्छे विजये वैताढ्ये स्वर्णतिलके पुरे विद्याधरनरेन्द्रस्य महेन्द्रविक्रमार्कस्य पत्न्यामनिलवेगायां पुत्ररूपेणोदपद्यत । नृपश्च तस्याऽजितसेन इति नाम दधौ । विधिवद् विविधा विद्याश्च ददौ । यौवनं प्रपन्नश्च सोऽजितसेनो विद्याधरकन्या: परिणीय ताभिगिरि-वनादिषु रेमे । विन्ध्यदत्ते विपन्ने च विन्ध्यपुरे नलिनकेतू राजाऽभवत् । स च प्रभङ्करया सार्धं सुर इव वैषयिकं सुखं बुभुजे । एकदा च प्रभङ्करया सार्धं प्रासादमधिरूढः स उन्नतान् मेघान् दृष्ट्वा मुमुदे । तेषां च प्रचण्डवातेनेतस्ततो नीयमानानां मेघानामुत्पत्ति विपत्ति च क्षणेन जातां दृष्ट्वा जातवैराग्योऽचिन्तयत्-"व्योम्नि वारिदा इव संसारे सुखमपि क्षणादस्तमेति । एकस्मिन्नेव जन्मनि जनो युवा वृद्धो, धनी रङ्को, विरुक् सरुक् च जायते । भवे सर्वं क्षणिकं धिक्" । एवं विमृश्य स्वं पुत्रं राज्ये निवेश्य क्षेमकरतीर्थकरपार्श्वे प्रव्रज्यां गृहीतवान्। तपो-ध्यानादिभिश्च घातिकर्मक्षये तस्य कालक्रमेण केवलं ज्ञानमुत्पेदे। तथा सर्वकर्माणि हत्वा स क्षणादव्ययं पदं प्राप । प्रभङ्करा चाऽपि सुव्रतागणिनीपार्श्वे चान्द्रायणं तपोऽचरत् । तस्य प्रभावाच्च सम्यक्त्वादिकं विनाऽपि विपद्य तवेयं शान्तिमती पुत्री जज्ञे । दत्तजीवोऽजितसेनश्चैष विद्याधरः पूर्वस्नेहादेनामहार्षीदिति मा कुपः ।

Loading...

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75