Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 03
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 58
________________ पञ्चमं पर्व-तृतीयः सर्गः १०३ श्रेष्ठः" इति । तामश्रद्दधानश्चित्रचूलाभिधो देवो विविदिषया नास्तिको भूत्वा क्षेमङ्करपर्षदं समाययौ । तत्र च विविधेष्वालापेषु जायमानेषु स देव आस्तिक्यमाक्षिप्याऽवदत्-"पुण्यं पापो जीव: परलोकश्च नास्ति । एतेषामास्तिक्यबुद्ध्या देहिनो मुधा क्लिश्यन्ति" । ततो वज्रायुधोऽवोचत्-"प्रत्यक्षविरुद्धमेतत् त्वद्वचः । त्वमवधि प्रयुज्य सम्यक् पश्य । तवैतद्वैभवं प्राग्जन्मधर्मानुष्ठानफलमेव । त्वं पूर्वजन्मनि मोऽभवोऽधुना चाऽमर्त्यः । यदि जीवो न भवति, कथमेतद् घटते? तद् ब्रूहि । इह मर्त्यत्वमाप्तस्य तव परत्र देवत्वमिति परलोकोऽपि प्रत्यक्षसिद्ध एव" | एवं च तेन प्रबोधितः स चित्रचूल: साधु साध्वित्युवाच । त्वया कृपालुना संसारे निपतन्नेषोऽहमुद्धृतोऽस्मि । अथवा तव किमुच्यते ? यस्य पिता तीर्थकरः । चिराद् मिथ्यात्ववानस्मि, तन्मे सम्यक्त्वरत्नं देहि । ततो वज्रायुधोऽपि सर्वज्ञपुत्रस्तद्भावं ज्ञात्वा तस्मै सम्यक्त्वं दिदेश । ततश्चित्रचूल: पुनरूचे-"कुमार ! अद्य प्रभृति तवाऽहमादेशकारी, तदद्यैव किञ्चन याचस्व" । तत: कुमार उवाच"यद्येवं तर्यतः परं त्वया दृढसम्यक्त्ववता भाव्यमिति याचे" । एतत्तु मम स्वार्थमेव, अत: किञ्चिदन्यत् कार्यं ब्रूहीति देवेनोक्तो ममैवैतत् कार्यमिति कुमार उवाच । ततः स देवस्तस्मै दिव्यालङ्करणानि दत्त्वैशानेन्द्रसभां गत्वाऽवोचत्-"दृढसम्यक्त्ववानयं वज्रायुधः । अयं महात्मा भगवानहन् भावी" । तत ईशानपतिर्वज्रायुधमस्तावीत् । ___ एकदा च वसन्तसमये वसन्तपुष्पालङ्कारा सुदर्शनानाम्नी वेश्या वज्रायुधमजिज्ञपत्-"अद्य यूनां क्रीडासख: कामस्य जयसखोऽयं वसन्तो विजृम्भते । तत्स्वामिनी लक्ष्मीवती मया त्वां विज्ञापयतियत्सूरनिपाताख्यमुद्यानं गत्वा तत्र मधुश्रियं द्रष्टुं न: कौतुकम्" । यदा तदनुमन्य तदैव स कुमारः सपरिच्छदस्तदुद्यानं जगाम । लक्ष्मीवती १०४ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः प्रभृतीनि च सप्तदेवीशतानि ताराश्चन्द्रमिव तं कुमारमनुयान्ति स्म । तत्र गत्वा च विविधक्रीडाभिस्तदुद्यानं कुमारो विजहार । तेन विहारेण श्रान्तः सवधूजन: स जलक्रीडार्थं प्रियदर्शनां नाम वापी गत्वा तत्र प्रविश्य गिरिणद्यां द्विप इव प्रेयसीभिः समं क्रीडितुं प्रावतिष्ट । जलक्रीडया व्यग्रमानसे तस्मिन् कुमारे स्थिते च प्राग्जन्मशत्रुर्दमितारिजीवश्चिरं भवं भ्रान्त्वा देवत्वं प्राप्तो विद्युइंष्ट्राभिधस्तत्राऽऽजगाम । तं कुमारं दृष्ट्वा क्रुद्धः कुमारं सपरिच्छदं पेष्टुं तस्या वाप्या उपरिष्टात् पर्वतमुत्क्षिप्य चिक्षेप । नागपाशैश्च तं वज्रायुधं पदोरधो बबन्ध । ततो वज्री गिरिमिव स वज्रायुधस्तं पर्वतं मुष्ट्या पिपेष । तान् पाशांश्च बिसतन्तुवत् त्रोटयामास । ततस्तस्या वाप्या: सान्तःपुरपरीवारो निर्गतो नन्दीश्वरं गन्तुं विदेहजान् जिनान् नत्वा व्रजता शक्रेण दृष्टो वज्रायुधः । ततोऽत्र भवे चत्र्यसौ भाविन्यर्हन्निति सोपचारं शक्रेण पूजितो "धन्योऽसि त्वं षोडशस्तीर्थकर: शान्तिर्भावी''त्युक्तश्च स: यदृच्छया क्रीडन् निजं पुरं प्रविवेश । अथ क्षेमङ्करो लोकान्तिकामरैः प्रबोधितो दीक्षोत्सुको राज्ये वज्रायुधं निवेश्य वार्षिकं दानं प्रदाय प्रव्रज्यामाददे । स विविधाभिग्रहपरो दुस्तपं तपस्त्यक्त्वा घातिकर्मनाशादुत्पन्नकेवलो देवैः कृतकेवलज्ञानोत्सवः समवसरणस्थितो देशनां व्यघात् । तां च देशनां श्रुत्वा बहवो लोकाः प्राव्रजन् । वज्रायुधादयश्च स्वं स्वं स्थानं ययुः। अथाऽस्त्रागारिको वज्रायुधस्य 'अस्त्रागारे चक्ररत्नमुत्पन्न'मिति मुदाऽकथयत् । ततो वज्रायुधो महीयसी चक्रपूजां चक्रे । अन्यान्यपि च त्रयोदश महारत्नानि तस्याऽभूवन् । तथा चक्ररत्नानुगः स षट्खण्डं मङ्गलावतीविजयं सवैताढ्यमहीधरं व्यजेष्ट, सहस्रायुधकुमारं च यौवराज्ये न्यधत्त । ८शिष.भा-३


Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75