Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 03
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 56
________________ पञ्चमं पर्व-द्वितीयः सर्गः तदानीमेव च तत्र मण्डपे देवतया रत्नसिंहासनस्थयाऽधिष्ठितं विमानमाविरभूत् । तद् दृष्ट्वा सा सुमतिः सर्वे नृपाश्च विस्मिता जाताः । तेषां पश्यतां च देवी विमानादवतीर्य मण्डपान्तरुपविश्य दक्षिणपाणिमुत्क्षिप्य सुमतिमूचे-"मुग्धे ! धनश्रीः ! बुध्यस्व, बुध्यस्व, प्राग्भवं स्मर । पुष्करवरद्वीपे प्राग्भरतस्य मध्ये श्रीनन्दनपुरे महेन्द्रनृप आसीत् । तस्य चाऽनन्तमतिनाम्नी पत्न्यासीत् । तया चैकदा निशाशेषे सुषुप्तया निजोत्सङ्गस्थिते पवित्रे पुष्पमाले स्वप्नो दष्टः । राज्ञा च तवाऽनवद्यं पुत्रीद्वयं भविष्यतीत्युक्ता च प्रमुदिता पूर्णे समये पुत्र्यौ जनितवती । तत्र प्रथमाऽहं कनकश्रीः, त्वं तु द्वितीया धनश्रीः। क्रमाच्च परस्परप्रीत्या वर्धमाने ते कलाकुशले यौवनं प्रापतुः । एकदा च क्रीडन्त्यौ ते गिरिपर्वताख्यं पर्वतमेत्य तत्र स्वादूनि फलानि सुरभीणि पुष्पाणि च विचिन्वन्त्यौ भ्रमन्त्यावेकत्र प्रदेशे नन्दनगिरि मुनि विलोक्य प्रमुदिते तं त्रिः प्रदक्षिणीकृत्य भक्त्या ववन्दाते । स मुनिश्च धर्मलाभाशिषं दत्त्वा तयोर्धर्मदेशनां विदधे । तां देशनां श्रुत्वाऽन्ते ते प्राञ्जली योग्यतानुसारं धर्मादेशं प्रार्थयामासतुः । मुनिश्च योग्यतां विचार्य द्वयोरपि द्वादशविधं धर्म दिदेश । ते जगृहतुश्च । ततस्ते मुनि वन्दित्वा निजगृहं समेत्य सावधानं तं धर्म पर्यपालयताम् । कदाचिच्च कुतूहलात् ते अशोकवनिकां गत्वा तत्र नदीतटे विविधक्रीडया क्रीडन्त्यौ त्रिपुराधिपो वीराङ्गो युवा विद्याधरोऽहार्षीत् । तस्य भार्या च वज्रश्यामलिका ते तस्मात् त्याजयामास । ततस्ते द्वे अपि भीमाटव्यां नदीतीरे वंशजालोपरि गगनात् क्षणात् पेततुः । तामापदं मरणान्तं ज्ञात्वा शुभभावनावत्यौ ते नमस्कारपरायणे अनशनं विदधाते । तयोरहं कनकश्रीविपद्य सौधर्मेन्द्रस्याऽग्रमहिषी नाम्ना नवमिकाऽभूवम् । त्वं धनश्रीश्च विपद्य कुबेरस्य महिषी भूत्वा ततश्च्युत्वाऽत्र बलभद्रस्य नाम्ना सुमतिः सुता जाताऽसि । तदा चाऽऽवयोः सङ्केतो जातो यत् "प्रथमं या च्यवते, सा द्वितीयया १०० त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः समुपेत्याऽर्हद्धर्म बोधनीया" । तत्त्वां बोधयितुमहमेषेहाऽऽगताऽस्मि । "संसारोदधितारणं जैन धर्म त्वं बुध्यस्व । नन्दीश्वरद्वीपे शाश्वतार्हता ता अष्टाह्निका जङ्गमार्हतां यथास्थानं जन्माधुत्सवान् पुराभवे स्वानुभूतास्ता देशनावाचश्च स्मर । अनया जन्मान्तरनिद्रया किं विस्मरसि ? सिद्धेः प्रियसखीतुल्यां परिव्रज्यामादत्स्व" । एवमुक्त्वा सा शक्रमहिषी विमानमधिरुह्य दिवं ययौ । सञ्जातजातिस्मरणा सुमतिश्च सुरीगिरा मूच्छिता भूमौ पतिता । शीतोपचारैर्लब्धसंज्ञा च समुत्थाय कृताञ्जलिरूचे-"भो भो ! पृथिवीनाथाः! जातिस्मरणवत्यहं प्रार्थये - मदर्थं यूयमाहूताः, अतो मां परिव्रज्यार्थमनुजानीत" । भूभुजोऽप्यूचुः-"अनघे ! तवैवमस्तु । अस्माभिरनुज्ञाताऽसि । तवेप्सितं निर्विघ्नमस्तु" । ततो देवराजस्य यक्षराजस्य च महिष्यस्तत्र समेत्य तां पूजयामासुः । सा च कन्यानां सप्तशत्या सह सुव्रताचार्यपादान्ते प्रव्रज्यामाददे । ततः सा द्विविधां शिक्षामादाय विविधं तपस्तप्त्वा संवेगभाविता तस्थौ । कालक्रमेण क्षपकश्रेणिमारूढवत्यसौ केवलं प्राप्ता । भव्यांश्च प्रबोध्य सर्वकर्माणि क्षपयित्वा सा सुमतिरव्ययं पदं प्राप । तावपराजिता-ऽनन्तवीयौं च सम्यक्त्वशालिनौ राज्यं पर्यपालयताम्। तत्र विष्णुरनन्तवीर्यश्चतुरशीतिपूर्वलक्षायुः पूरयित्वा निकाचितैस्तैः कर्मभिरादिमं नरकं ययौ । तत्र च द्विचत्वारिंशद्वर्षसहस्रायुर्विविधा वेदना लेभे । तत्र च विष्णोः प्राग्जन्मपिता चमरोऽपत्यस्त्रेहात् समेत्य तद्वेदनोपशमं चक्रे। तत: सोऽनन्तवीर्यजीव: संविग्न: स्वं कर्माऽवधिना स्मरन् ता वेदना अधिसेहे । बलभद्रोऽपराजितोऽपि भ्रातृशोकाद् राज्यं तनये निवेश्य जयन्धरगणधरपादान्ते षोडशसहस्रनृपैः सह व्रतमादाय सुचिरं तपस्तप्त्वा परीषहान् सहमानोऽनशनेन विपद्याऽच्युतेन्द्रोऽभवत् ।

Loading...

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75