Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 03
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
पञ्चमं पर्व- द्वितीयः सर्गः
९७
इतश्चाऽस्मिन् जम्बूद्वीपे प्राग्विदेहेषु रमणीयाख्ये विजये वैताढ्यगिरौ शिवमन्दिरनगरे कनकपूज्यनामनृपतेर्वायुवेगाख्यायां पन्यामहं कीर्तिधरनामा तनयोऽभूवम् । मम पत्नी चाऽनिलवेगाख्या रात्रावेकदा सुप्ता श्वेतहस्तिनं गर्जन्तं मेघं कुम्भं च स्वप्ने दृष्टवती । तदैव प्रबुद्धा च मुदिता तान् स्वप्नान् मदग्रे ख्यातवती । अहं च त्रिखण्डविजयस्वामी चक्रवर्त्त्यर्धवैभवस्ते तनयो भावीति तत्फलमाख्यातवान् । पूर्णे च समये सा सर्वलक्षणसम्पन्नं सुतमसूत । गर्भस्थेऽस्मिन्मयाऽरयो विशेषतो दमिता इति तस्य दमितारिरिति नामाऽकार्षम् । स च क्रमेण वर्धमानः सर्वकलाकुशलो यौवनं प्रत्यपद्यत ।
एकदा च तत्र विहरन् श्रीशान्तिनाथो जिनः समवासार्षीत् । तं वन्दित्वोपविष्टोऽहं धर्मदेशनां श्रुत्वा सद्यो विरक्तो राज्ये दमितारिं निवेश्य तज्जिनपादमूले प्रव्रज्यां समादाय ग्रहणासेवनरूपे शिक्षे गृहीत्वाऽत्र पर्वते वार्षिकीं प्रतिमां विधायाऽद्यैवोत्पन्नकेवलो जातोऽस्मि । स दमितारिश्च महाबलो विजितत्रिखण्डविजयः प्रतिविष्णुर्जातः । तस्यैव मदिराख्यायां पल्यां श्रीदत्ताजीवस्त्वं कनक श्रीर्जाताऽसि । यच्च संशयमनालोच्याऽप्रतिक्रम्य मृता, तद्दोषात् ते बन्धुविरहः पितृवधश्च समजायत । धर्मस्य स्तोकोऽपि कलङ्कोऽत्यन्तदुःखाय जायते ।
ततः सद्यो विरक्ता कनक श्रीर्बलभद्र - विष्णू विज्ञपयामास - " यद्यल्पेनाऽपि दुष्कृतेनैवं दुःखमाप्यते, तदुष्कृतोत्पत्तिखानिभिः कामभोगैरलम् । तत् प्रसद्य प्रव्रज्याग्रहणाय मामनुमन्येथाम् । भवदुःखादत्यन्तं भीताऽस्मि । ततस्तौ गुरुपादप्रसादतस्तवेदमविघ्नमस्तु । किन्त्विदानीं शुभां नगरीं यामः, यथा तत्र ते महद्धय निष्क्रमणोत्सवं कुर्मः । तत्र च स्वयम्प्रभजिनेन्द्रपार्श्वे व्रतं गृह्णीयाः । तथेति स्वीकुर्वतीं तामादाय महर्षिं नत्वा तौ शुभां नगरीं जग्मतुः । तत्र च दमितारिणा पूर्वप्रेषितैर्भटैरनन्तसेनं स्वपुत्रं युध्यमानमपश्यताम् । तमनन्तवीर्यपुत्रं शूकरं श्वभिरिव परिवृतं प्रेक्ष्य बलभद्रः कोपात् स्वशस्त्रं हलं
त्रिषष्टिशलाकापुरुषचरितम् - गद्यात्मकसारोद्धारः भ्रमयन्नधावत । ततस्ते दमितारिभटा भीताः पलायामासुः । ततः सपरिवारो विष्णुर्नगरीं प्रविश्य शुभे दिने नृपैरर्धचक्रित्वेऽभ्यषिच्यत ।
aalsats
९८
अथ स्वयम्प्रभजिनो महीं विहरंस्तत्राऽन्यस्मिन् दिने समागत्य समवासार्षीत् । द्वारपालेन तथानिवेदितश्च तस्मै सार्धद्वादशरूप्यकोटी: प्रदाय विष्णुः साग्रजः सकनक श्रीकश्च तं वन्दितुं ययौ । तत्र च कनकश्रीः स्वयम्प्रभमुनेर्देशनां श्रुत्वाऽन्ते नत्वा प्राञ्जलिर्जगाद - "प्रभो! गृहे विष्णुमापृच्छ्य दीक्षार्थमागमिष्यामि, कृपां कुरु" । ततः प्रमादो न विधातव्य इति जिनेनोक्ते सा गृहं गत्वा विष्णुना कृतनिष्क्र मणोत्सवा तत्र प्रभोः समीपमेत्य प्राव्राजीत् । एकावल्यादिकं तपश्च विदधानायाः शुक्लध्यानस्थितायाश्च तस्या एकदा घातिकर्मक्षयात् केवलमुत्पन्नम् । क्रमेण च भवोपग्राहिकर्माणि क्षपयित्वा सा कनकश्रीरव्ययं पदमाससाद । बल-विष्णू चाऽपि विविधान् भोगान् भुञ्जानौ सुखमग्नौ कालं गमयामासतुः ।
अथ बलदेवस्य विरताख्यायां दयितायां सुमतिर्नाम कन्योत्पन्ना। बाल्यादेव सा जिनधर्मपरायणैकदोपवासान्ते पारणार्थं यावदुपविष्टा, तावत् कमपि मुनि द्वारागतं वीक्ष्य स्थालस्थापितान्नेन प्रतिलाभयति स्म । तदानीं च तत्र वसुधारादिकानि पञ्च दिव्यानि जज्ञिरे । मुनिरपि च ततः स्थानाद् विहृत्याऽन्यत्र जगाम । रत्नवृष्टिमाकर्ण्य तत्राऽऽगतौ तां दष्ट्वा विस्मितौ विस्मयजनकमेतस्याश्चारित्रमिति वादिनौ बलविष्णू कोऽमुष्या अनुरूपो वर इति चिन्तामग्नावीहाऽऽनन्देन मन्त्रिणा मन्त्रयित्वा तस्याः स्वयम्वरमहोत्सवं निश्चिक्यतुः । वासुदेवाज्ञया च तत्र स्वयम्वरार्थं सर्वे नृपाः समाजग्मुः । ततः स्वयम्वरमण्डपे समुपविष्टेषु नृपेषु विलक्षणाऽलङ्कारनेपथ्या सुमतिः समागत्य स्वयम्वरमण्डपमद्राक्षीत् ।

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75