Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 03
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 51
________________ पञ्चमं पर्व-प्रथमः सर्गः कथञ्चिदेव लभ्यम्" । तदाकर्ण्य च तौ श्रीविजया-ऽमिततेजसौ स्वमायुरवशिष्टमपृच्छताम् । तौ मुनी च षड्विंशतिदिनानि शेषमायुराचख्यतुः । तद्वचः श्रुत्वा च निविण्णौ तौ नृपावूचतु:"अस्माभिररण्यपुष्पवत् सदा विफलं जीवितं क्षपितम्" । ततस्तौ चारणमुनी तौ प्रत्यबोधयतां-"विषादेनाऽलम्, अद्याऽपि युवयोः प्रव्रज्या युज्यते । अन्तेऽपि गृहीता सा शुभगतिनिबन्धनम्"। ताभ्यां चैवं प्रबोधितौ तौ नृपौ निजस्थानमुपेत्य चैत्येषु परममष्टाह्रिकोत्सवं चक्राते । दीना-ऽनाथादिभ्यश्च यथारुचि ददतुः । तथा स्वपुत्रयो राज्यं दत्त्वा तौ नृपावभिनन्दन-जगन्नन्दनयोर्मुन्योः पुरतो व्रतं जगृहतुः । पादपोपगमनं नामाऽनशनं चक्रतुः । तदानीं च श्रीविजयः स्वपितरं सस्मार । स्वपितुरद्धिमधिकां स्वां च ऋद्धि हीनां विचिन्तयंश्च "ताहगेवाऽहं भूयास"मिति निदानमकरोत् । विपद्य च तौ श्रीविजयाऽमिततेजसौ प्राणते कल्पे सुस्थितावर्ते नन्दितावर्ते च विमाने मणिचूल-दिव्यचूलनामानौ सुरौ भूत्वा सुखं तस्थतुः । तथा मनसा प्राप्तेष्टौ सुखमग्नौ विंशतिसागरोपममायुरतिवाहयतः स्म ॥१॥ इति पञ्चमे पर्वणि श्रीशान्तिजिनस्य श्रीषेणादिकभववर्णनात्मकः प्रथमः सर्गः ॥१॥ द्वितीयः सर्गः अथ जम्बूद्वीपे प्राग्विदेहेषु रमणीयाख्ये विजये सीतानद्या दक्षिणे तटे शुभायां नगर्यां स्तिमितसागरो नाम नरपतिरासीत् । तस्य च शीलवत्यौ वसुन्धरा-ऽनुद्धराख्ये द्वे पल्यावास्ताम् । तत्र नन्दितावद्दमिततेजोजीवश्च्युत्वा वसुन्धराकुक्षाववातरत् । तदानीं च सुखसुप्ता सा स्वमुखे बलभद्रजन्मसूचकान् चतुरो महास्वप्नान् प्रविशतो दृष्टवती । ततः प्रबुद्धा राज्ञी राज्ञा "बलभद्रस्तव पुत्रो भावी"ति कथितस्वप्नफला मुदिता गर्भ धारयन्ती पूर्णे समये श्रीवत्साङ्कं श्वेतवर्णं सुलक्षणं सूनुं सुषुवे । नृपश्च पुत्रजन्मनाऽत्यन्तं मुदितो द्वादशेऽह्नि तस्य सुतस्याऽपराजित इति नामाऽकरोत् । तथा श्रीविजयजीव: सुस्थितावर्ताच्च्युत्वाऽनुद्धरायाः कुक्षाववततार । तदानीं च सा निशाशेषे सुखं शयाना स्वप्ने मुखे प्रविशत: सप्त महास्वप्नान् दृष्टवती । सुप्तोत्थिता सा राज्ञे तान् निवेदितवती, राज्ञा च विष्णुस्ते पुत्रो भावीति कथितं स्वप्नफलं निशम्य सा नितान्तं मुमुदे । गर्भं दधाना सा पूर्णे समये श्यामवर्णं नयनोत्सवं पुत्रं सुषुवे । नृपश्च प्रमुदितस्तस्य समहोत्सवमनन्तवीर्य इति नाम विदधौ । तौ च श्वेत-श्यामशरीरौ क्रमाद् वर्धमानौ गुरुसन्निधौ लीलयैव सर्वशास्त्राणि जगृहतुः । शैशवं क्रमादतीत्य च कामिनीजनस्पृहणीयं यौवनं प्रपेदाते । अन्यदा च तत्रोपवने नानातिशयसम्पन्न: स्वयम्प्रभो नाम मुनिराययौ । तदानीं च नृपः स्तिमितसागरो वाहकेल्यां वाहान् वाहयितुं पुर्या निर्ययौ । वाहान् वाहयित्वा श्रान्तश्च तद्वनं गतो यावत्

Loading...

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75