Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 03
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
८७
पञ्चमं पर्व-प्रथमः सर्गः कपिलो मृत्वाऽनेकयोनिषु भ्रान्त्वा भूतरत्लायामटव्यामैरावत्या नद्या रोधसि तपोधनस्य जटिलकौशिकस्य पन्यां पवनवेगायां धमिलो नाम दारक उत्पेदे । स च निजपितुर्दीक्षामादाय बालतप: समाचरन् विहायसा गच्छन्तं विमानस्थं विद्याधरं दृष्ट्वा 'भवान्तरेऽमुष्य तपसः फलेनेग् भूयास'मिति निदानं कृत्वा मृतश्चमरचञ्चायां पुर्यामिन्द्राशनेविद्याधरस्याऽऽसुर्यां पत्न्यां त्वं सुत उदभूः । ततः प्राग्भवसम्बन्धात् तव सुतारायां होऽभवत् । पूर्वभवसंस्कारो हि जन्मशतान्यप्यनुयाति" । ___ततश्च सुतारा-ऽमिततेजःश्रीविजया-ऽशनिघोषाः प्राग्भवाकर्णनाद् विस्मिता: संवेगमीयुः । तथाऽमिततेजसा भव्योऽस्मि न वेत्येवं पृष्टो भगवानचलः पुनराह-"इतो नवमे भवेऽत्र भरते त्वं पञ्चमश्चक्रवर्ती भविष्यसि । तत्रैव च भवे शान्तिनाथ इति ख्यातः षोडशोऽहंश्च भविष्यसि श्रीविजयश्चाऽयं तत्र भवे तव पुत्रः प्रथमस्तव गणधरो भावी" । ततः श्रीविजया-ऽमिततेजसौ भगवन्तं प्रणम्य द्वादशविधं श्रावकव्रतं भेजतुः ।
ततोऽशनिघोष: पुनर्भगवन्तं प्रणम्य रचिताञ्जलिविज्ञपयामास"भगवन् ! त्वन्मुखात् प्राग्भवं श्रुत्वेदानीमपि मन्मन: कम्पते । अप्राप्तजिनधर्मस्य मम भूयांसोऽतिदुःखदा भवा अतीताः । अधुनाऽपि मां रक्ष रक्ष । अतः परमेकोऽपि क्षणो यतिधर्मरहितस्य मे मा गादिति मामद्यैव दीक्षां देहि" ।
ततो युक्तमेतदिति प्रोच्याऽचलेनाऽनगहीतोऽमिततेजसं सप्रश्रयमुवाच-"भाविनश्चक्रिणोऽर्हतश्च साम्प्रतं महाकुलप्रसूतस्य ते प्रणिपातं कुर्वतो मे न मनागपि लज्जा । एतेऽश्वघोषादयो मम सुता राज्यादीनि च त्वदीयं विद्धि नाऽन्यथा" । एवमुक्त्वा ज्यायांसं निजसुतमश्वघोषममिततेजसोऽङ्के क्षिप्त्वाऽचलस्वामिसन्निधौ भूयोभिर्नरेन्द्रैः सह दीक्षामग्रहीत् । श्रीविजयस्य माता स्वयम्प्रभा चाऽपि तत्राऽऽगत्याऽचलस्वामिपादान्ते दीक्षामग्रहीत् । ततो बलभद्रं नत्वा
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः ऽमिततेजःश्रीविजया-ऽश्वघोषादयः स्वं स्वं स्थानं ययुः । अर्हत्पूजनादिकविधि विदधानौ च स्वे स्वे पुरेऽवतिष्ठमानौ श्रीविजयाऽमिततेजसौ कालं व्यतीयतुः । ___ अथाऽन्यदा पौषधौकसि पौषधं गृहीत्वाऽमिततेजा विद्याधराणामार्हतं धर्ममाचख्यौ । तदानीमेव च चारणमुनी तत्र चैत्ये जिनबिम्ब विवन्दिषू तत्र समागतवन्तौ । अमिततेजसा च दृष्ट्वा हृष्टेन वन्दितौ तौ त्रिः प्रदक्षिणापूर्वं जिनेन्द्रं वन्दित्वा तमूचतुः । संसारे प्राप्तमतिदुर्लभं मानुष्यकमविवेकेन मुधा न नेयम् । जैने धर्मे मनागपि प्रमादो न विधातव्यः । तद्विना नाऽन्यदुत्तरोत्तराभीष्टदम् । एवमनुशिष्य तौ पुनरेव विहायसा जग्मतुः । श्रीविजया-अमिततेजसौ च वर्षे वर्षेऽर्हतां चैत्येषु महिमत्रयं चक्रतुः । तत्र नन्दीश्वरे देवाश्चैत्रे चाऽश्विने चाऽष्टाह्निकोत्सवी कुर्वन्ति । अन्ये तु स्वस्वचैत्येष्वेव कुर्वन्ति । श्रीविजया-ऽमिततेजसौ च चैत्रा-ऽश्विनयोः स्वस्वचैत्येषु तृतीयं तु सीमाव्यादिषु चक्रतुः । __अथैकदाऽमिततेजाः स्वहये स्थितः प्रधानपुरुषैः परिवारितो मासक्षपणकं भिक्षार्थमागतं कञ्चिन्मुनि ददर्श । ततोऽभ्युत्थाय वन्दित्वा तं शुद्धैरन्नाद्यैः प्रत्यलाभयत् । तदानीं च तत्र सत्पात्रदानप्रभावतो वसुधारादिपञ्चदिव्यानि जज्ञिरे । एवं धर्मनिरतयोः सुखमग्नयोः श्रीविजया-ऽमिततेजसोभूयांसि वर्षसहस्राणि जग्मुः ।
एकदा च नन्दनवने शाश्वतार्हतो वन्दितुं सम्भूय श्रीविजयाऽमिततेजसावीयतुः । तत्र च तान् वन्दित्वा कुतूहलाद् भ्रान्त्वा यावद् नन्दनमीक्षाञ्चक्रे, तावत् स्वर्णशिलास्थौ विपुलमति-महामतिनामानौ चारणमुनी ददृशतुः । ततः श्राद्धौ तौ प्रदक्षिणीकृत्य वन्दित्वा च धर्मदेशनां शुश्रुवतुः । 'देहिनां मृत्युः सदा समीपवर्येव, ततः क्षणिक जीवितं जानन्तोऽपि ते मोहाद् धर्मोद्यमं न कुर्वन्ति । मोहो हि महाशत्रुः, स जन्मतो मरणावधि स्वात्महितं धर्म मूलाद् निकृन्तति । तस्माद् मोहं सर्वथा हित्वा धर्मः कार्यः । मानुषं जन्म हि पुनः
७शिष.भा-३

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75