Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 03
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 49
________________ पञ्चमं पर्व-प्रथमः सर्गः श्रीविजयो युद्धाय स्वयमढौकिष्ट । द्वावपि च तौ श्रीविजयाऽशनिघोषौ गर्जन्तौ परस्परं तर्जन्तौ शस्त्रशक्ति विद्याशक्ति च दर्शयन्ती लाघवादन्योन्यस्य प्रहारान् वञ्चयमानौ सुरासुरैर्वीक्ष्यमाणौ युयुधाते । अवसरं प्राप्य च श्रीविजयो विक्रम्य खड्गेनाऽशनिघोषं द्विधा व्यधात । तस्य च द्वावपि खण्डौ द्रावशनिघोषौ जातौ । तौ द्वावपि च लाघवाच्छ्रीविजयेन खण्डितौ चत्वारोऽशनिघोषा जाताः । यथा यथा च श्रीविजयेना-ऽशनिघोषाः खण्डितास्तथातथा ते द्विगुणा ववृधुः। एवं खण्डितैः सहस्रोऽशनिघोषैः पोतनेश्वर: परिवेष्टितः श्रान्तोऽभवत् । तावच्च सिद्धमहाज्वालाविद्योऽमिततेजाः समाययौ । आगच्छतश्च तत: सिंहान् मृगा इवाऽशनिघोषसैन्याः प्रणेशः । अमितौजाश्च द्विषो मा नश्यन्त्विति महाज्वालां विद्यां विन्ययुङ्क्त । ते च द्विषस्तया विद्यया मोहिताः शरणायाऽमिततेजसमेव समाययुः । ततोऽशनिघोषो गन्धगजं गज इवाऽमिततेजसमवलोक्य पलायिष्ट । ततो दूरादपि समानेतव्योऽयं दुरात्मेत्येवममिततेजसा समादिष्टा महाज्वालाविद्या सर्वविद्यान्तकारिणी पृष्ठतोऽशनिघोषस्याऽन्वधावत् । तस्याश्च शरणमनाप्नुवन् पलायमानोऽशनिघोषः शरणेच्छया दक्षिणभरतार्धं प्रविष्टवान् । तत्र च सीमाद्रौ श्रीऋषभप्रभोश्चैत्ये समवसरणस्थानस्थापितगजध्वजेऽचलो नाम बलदेवमुनिः शुक्लध्यान्येकरात्रिकी प्रतिमां प्रपन्नवानासीत् । घातिकर्मणां छेदाच्च तस्य महामुनेः केवलज्ञाने समुत्पन्ने तन्महिमानं विधित्सवः सुरा-ऽसुरा अभिनन्दन-जगन्नन्दनज्वलनजटिनस्त्रिजट्यर्ककीर्ति-पुष्पकेतु-विमलमत्यादयश्च समेत्य बलदेवमुनि प्रदक्षिणीकृत्य नत्वा यथास्थानमुपाविशन् । महाज्वालापातभीतोऽशनिघोषोऽपि तत्क्षणमचलं शरणं ययौ । महाज्वालाऽपि चाऽशनिघोषं मुक्त्वा न्यवर्तत । यतः शक्रकुलिशस्याऽपि केवलिपर्षदि प्रभावोऽपहीयते । ततः सा विद्याऽमिततेजसमुपेत्य तदशेष वृत्तान्तं निवेदितवती । त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः ___मयूरो मेघध्वनिमिव तं वृत्तान्तमाकर्ण्य सर्वेऽमिततेजःश्रीविजयादयो मुमुदिरे । ततश्चाऽस्याः पुर्याः सुतारां समादाय द्रुतमानयेरिति मारीचिं समादिश्याऽत्युत्कण्ठितः ससैन्योऽमिततेजः श्रीविजयप्रभृतयो व्योमयानेन द्रुतं सीमाद्रिमुपाययुः । तत्र च प्रथमऋषभनाथबिम्बं वन्दित्वा तदन्वचलमुनि वन्दित्वा च तदग्रे निषेदतुः। मारीचिरपि च चमरचञ्चापुरीं प्रविश्याऽशनिघोषमातुः पार्श्वमुपेत्य कृतोपवासां सुतारां दृष्ट्वाऽशनिघोषमातुः सर्वं निवेदितवान् । साऽशनिघोषमाता चाऽपि तां सुतारामादायऽचलस्वामिसभायामागत्य न्यासीकृतामिव श्रीविजया-ऽमिततेजसो: समर्पयामास । बलदेवं केवलिनमचलं नत्वा च मुदिता यथास्थानं निषसाद । तदा चाऽशनिघोषोऽपि सामवाक्येन श्रीविजया-ऽमिततेजसौ क्षमयामास । ततः शान्तवैरेषु तेष्वचलस्वामी शुद्धिदायिनी देशनां विदधे । अशनिघोषोऽचलमुनि वन्दित्वा कृताञ्जलिविज्ञपयामास-"मया सुतारा दुष्टेन मनसा नाऽपहृता, किन्तु पुरा चमरचञ्चानगर्यां भगवतो जयन्तस्य महामुनेरायतने गत्वा सप्तरात्रमुपोषितो भ्रामरी विद्यामसाधयम् । ततः प्रतिनिवृत्तो ज्योतिर्वने श्रीविजयान्तिके सुतारामद्राक्षम् । दृष्टमात्रायां च तस्यां मम कोऽप्यनिर्वचनीयः स्नेहः समुदपद्यत । ततस्तां विना गन्तुमसमर्थोऽहं श्रीविजयान्तिकस्थायास्तस्या अपहर्तुमशक्यत्वात् प्रतारिण्या विद्यया श्रीविजयं मोहयित्वा सुतारामपाहार्षम् । स्वजनन्याः समीपे च ताममुञ्चम् । सेयमनिन्दिता निष्कलङ्काऽस्ति । अस्यां मया किमप्यशोभनं वचोऽपि नोक्तम् । भगवन् ! तदेतस्यां मम स्नेहकारणं समाख्याहि" | भगवानचलः सत्यभामा-कपिलयो: श्रीषणस्य शिखिनन्दिताऽभिनन्दितयोर्युगलिकादिभवसहितां कथामाख्यायाऽवोचत्-"आर्तध्यानी

Loading...

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75