Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 03
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 47
________________ ८१ ८२ पञ्चमं पर्व-प्रथमः सर्गः तदभ्युपगते नृपः स्वपुरगृहेषु वारार्थं मानुषाणां नामगोलांश्चक्रे । स गोलः कृष्यमाणो यस्य करे यदा चटेत्, स रक्षसे भक्ष्यभूतः पुररक्षायै प्रयाति । एकदा च तस्य ब्राह्मणपुत्रस्य गोलको निर्ययौ । तदन्तश्च तन्नाम वाचितम् । तच्छ्रुत्वा च तन्माता करुणस्वरं रुरोद । तद्गृहासन्नं चैकं महद् भूतगृहमासीत् । तद्भूतैश्च तस्याः कर्णदुःश्रवं क्रन्दितं शुश्रुवे । जातदयैश्च तैर्ब्राह्मण्यूचे - मा रोदीः, सुस्था भव, त्वत्पुत्रो रक्षसे यातु । राक्षसस्याऽग्रतोऽप्येनं त्वत्पुत्रमानेष्यामि । एष व्यवस्थां नाऽतिक्रमिष्यति, ततो मरिष्यत्यपि न । ततो यावत् सा ता देवता: स्तौति, तावत्त्वरमाणा आरक्षास्तत्सुतमाकृष्य रक्षः समीपं निन्युः । राक्षसश्च यावद् द्विजपुत्रमादत्ते, तावद् भूतास्तमपहृत्य तन्मातुरन्तिकमानयन् । भीता ब्राह्मणी च भयानि पश्यन्ती रक्षाकृते तं पुत्रं तत्क्षणं गिरिगुहान्ताश्चिक्षेप स च द्विजपुत्रस्तत्रस्थेनाऽजगरेण तत्क्षणं जनसे । तद्वदन्यदपि भावि क्वचिदप्यन्यथा न भवति । तस्मादेष उपायो यत् सर्वैस्तप आचर्यताम् । यतो निकाचितानामपि कर्मणां तपसा क्षयो भवति । ततश्चतुर्थो मन्त्र्युवाच-अनेन पोतनप्रभोरुपरि विद्युत्पात: कथितो न श्रीविजयस्य । तत्सप्ताहं यावत् पुरेऽस्मिन् कोऽप्यन्यः पतिः क्रियतां, ततश्च तत्राऽशनिः पतिष्यति । सर्वेषां च दुरितमनेन प्रकारेण गच्छतु । तच्छ्वा हृष्टो नैमित्तिकस्तं मन्त्रिणं प्राशंसत् । मन्निमित्तज्ञानतोऽपि तव मतिज्ञानमधिकम् । तदनर्थपरिहारायाऽमुमुपायमाशु कुरुध्वम् । राजाऽपि जिनपूजारतश्चैत्यस्थितस्तिष्ठतु । ततो मयाऽवोचि-को नरो राज्येऽभिषिच्यते ? कथं निरागसः प्राणिनः प्राणनाशं चिन्तयामि ? सर्वस्य हि प्राणाः प्रिया दुस्त्यजाः । कथं च पश्यतो मे कोऽपि वराको विपत्स्यते ? ततो मन्त्रिणोऽब्रुवन्"देव ! इदं कार्यद्वयं नोऽस्ति, यथा तवाऽनों यास्यति प्राणी च न विपत्स्यते, तथाहि-राज्ये कुबेरस्य प्रतिमाऽभिषिच्यताम् । तां च त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः त्वामिव सर्वो जन सप्ताह सेविष्यते । दिव्यशक्त्योपसर्गश्चेद् न स्यात् तदपि सुन्दरं, स्याच्चेत् तदाऽपि प्राणिवधपापं न भविष्यति", ततो युक्तमेतदिति प्रोच्य जिनमन्दिरं गतोऽहं दर्भासने कृतपौषधोऽस्थाम् । सप्तमे च दिने प्राप्ते प्रलयाम्बुददारुणे मेघे उन्नतेऽशनिस्तस्मिन् राज्येऽभिषिक्ते यक्षबिम्बे पपात । यथा च तत्राऽशनिपातस्तथाऽन्तःपुरादिभिः कृता रत्नवस्त्रादिवृष्टिनैमित्तिकेऽप्यभवत् । ततो मया पद्मिनीखण्डपत्तनं दत्त्वा स नैमित्तिकवरो व्यसृज्यत । कुबेरस्याऽपि च नवां दिव्यरत्नमयीं मूर्ति सद्योऽकारयम् । तन्मद्विघ्नशान्त्याऽमी पौरादयो महोत्सवं विदधते । तच्छ्रुत्वा हृष्टोऽमिततेजा निजां भगिनीं सुतारां वस्त्रा-ऽलङ्कारदानेन पूजयामास । किञ्चित्कालं च तत्र तयोः पार्श्वेऽतिवाह्याऽमिततेजाः स्वनगरं ययौ । अथैकदा श्रीविजयः सुतारया सह क्रीडाकुतूहलाज्ज्योतिर्वनं नाम वनं ययौ । तदैव च तत्र कपिलजीवोऽशनिघोषो विप्रतारणिका विद्यां प्रसाध्य विहायसा समागतः पूर्वजन्मभायाँ सुतारां ददर्श । प्राग्जन्मसंस्काराच्च तस्यामुत्कण्ठितो विद्याबलात् तयोः पुरः प्लवमानं हैमं हरिणं विचक्रे । तं दृष्ट्वा च सताराऽसौ मे क्रीडनकं स्यादिति स्वामिन् ! मृग आनीयता"मिति पतिमब्रवीत् । तया चेत्थमुक्तः श्रीविजयस्तं मृगमन्वधावन् तेन मृगेण विचित्रगत्या दूरमनीयत । ततोऽशनिघोषः शनैः सुतारामभिसृत्याऽपाहरत् । तथा तेन प्रयुक्ता प्रतारणीविद्या च सुतारारूपमासाद्य सर्पदष्टाऽहमित्युच्चैः पूच्चक्रे । तच्छ्रुत्वा हरिणं मुक्त्वा वलितः श्रीविजयस्तां भूमौ लुठितां दृष्ट्वा मणि-मन्त्रौषधादिभिरुपाचारीत्, किन्तु सा शिथिलभूतसर्वाङ्गा नृपतेः पश्यत एवाऽऽशु कालधर्ममियाय ।। ततश्च दुःखेन मूच्छितो नृपः पृथिव्यां पपात । लब्धसंज्ञश्च प्रियाविरहदुःखमसहमानः प्राणान् जिहासुः सद्यो विरचितां चितां तया सहाऽऽरोहयामास । यावच्च वह्निर्चलितुमारेभे, तावत् तत्र द्वौ

Loading...

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75