Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 03
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 52
________________ ११ पञ्चमं पर्व-द्वितीयः सर्गः क्षणं विश्राम्यति, तावदशोकतरुमूले प्रतिमाधरं ध्यानस्थं तं मुनिमपश्यत् । ततस्तं प्रदक्षिणीकृत्य वन्दित्वा पारितध्यानाद् मुनेर्धर्मलाभाशिषमाप्तवान्। तन्मुनेर्धर्मदेशनां च श्रुत्वा क्षणात् प्रतिबुद्धो निजं धाम गत्वाऽनन्तवीर्य निजराज्ये निवेश्य पुत्राभ्यां कृतनिष्क्रमणोत्सवः स्वयम्प्रभमुनिपार्श्वे पर्यव्राजीत् राजा । दुःसहानपि परीषहान् सहमानश्च मूलोत्तरगुणाश्चिरं सम्यक् पालयित्वाऽन्तकाले मनसा विराद्धचारित्रो विपद्य चमरेन्द्रो जज्ञे। अथाऽनन्तवीर्योऽपि सापराजितो मेदिनीमन्वशात् । एकदा च तयोः केनचिद् विद्याधरेण मैत्री जाता । ताभ्यां च स विद्याधरो विद्या प्रदाय साधयेथामिति चोपदिश्य वैताढ्यमगात् । तयोश्च बर्बरीकिरातीनाम्यौ गीत-नृत्यादिकुशले द्वे चेटिके आस्ताम् । अन्यदा च तौ बल-विष्णू ताभ्यामुत्तमं नाटकं कारयितुं प्रावर्त्तताम् । तदानीमेव च तत्र सभायां नारदः समाययौ । तस्य च बल-विष्णू नाटकाक्षिप्तमनसौ न सत्कारमकुरुताम् । तेन च कुपितो नारदश्चिन्तयामास-"मदादिमौ मां न सदकार्टाम् । तदेतस्या अवज्ञायाः फलं द्रुतं दर्शयिष्यामि" । एवं चिन्तयित्वा स नारदः सहसा वैताढ्ये दमितारिनृपान्तिकं जगाम । स चाऽभ्युत्थाय सप्रश्रयं नारदाय सिंहासनमदापयत् । सिंहासनं त्यक्त्वा स्ववृष्यामेवोपविष्टो नारदो व्याजहार-"राजन् ! महौजसे तुभ्यं स्वस्ति, तव राज्यादिषु सर्वत्र कुशलम् ?" ततो 'भवदनुग्रहात् सर्वत्र कुशलं, किन्तु भवन्तं पृच्छमि-'भवता क्वचिददृष्टपूर्वमाश्चर्य दृष्ट'मिति नृपेणोक्तो हर्षोत्फुल्लवदनो नारदोऽब्रवीत्-"अद्यैव शुभाख्यायां महापुर्यामनन्तवीर्यमहासभायां बर्बरी-किरातीभ्यामभिनीयमानं नाटकमद्राक्षम् । तादृशमद्भुतं नाटकं न मया क्वचिद् दृष्टम् । त्वं च सर्वाश्चर्यभूतवस्तूनां भाजनमसि । यद्यत्र तन्नाटकं नाऽऽनयसि, तहि ते राज्यादिनाऽल"मित्युदित्वा नारदस्ततो रभसा नभोमार्गेण प्रययौ । ९२ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः ___ दमितारिश्च त्रिखण्डविजयैश्वर्यगवितोऽनन्तवीर्यसविधे दूतं प्राहिणोत् । स दूतश्च तत्र गत्वा नत्वा चाऽनन्तवीर्यं सहाग्रजमभाषिष्ट"अत्र विजयार्धे यदद्भुतं वस्तु तत् सर्वं दमितारेः, तत्तस्मै तव प्रसिद्ध बर्बरी-किरात्यौ नाटककारिण्यौ चेटिके प्रेष्येताम्" । तच्छृत्वाऽनन्तवीर्यो जगाद-"इतस्त्वं सम्प्रति गच्छ। किञ्चिद् विचार्य शीघ्रं चेटिके प्रेषयिष्यामि" । ततो मुदितो दूतोऽभ्येत्य सिद्धं प्रयोजन दमितारये शशंस । इतश्च गूढामर्षों तौ बल-विष्णू “स विद्यासिद्धयादिबलेनाऽस्मानेवमाज्ञापयतीति पुरा मित्रेण विद्याधरेण दत्ता विद्या: साधयावः । ततश्च स क आवयोरग्रे ?" इति विचिन्तयतो यावत्, तावत् प्रज्ञप्त्याद्या विद्यास्तत्र समेत्य प्राञ्जलि जजल्पु:-"याः युवां सिसाधयिषू, ता एता विद्या वयं स्मः । पूर्वजन्मनि सिद्धा इदानीमप्युपस्थिताः । युवां समादिशतं, वयं युष्मद्वपुषि सङ्क्रमिष्यामः" । एवमस्त्विति तयोर्वाचा ता विद्या नद्योऽब्ब्योरिव तदङ्गयोस्तदात्मत्वं प्रतिपेदिरे । ततस्तौ स्वभावतो बलिनौ विद्यासिद्ध्या चाऽसाधारणौ तासां विद्यानां गन्धमाल्यादिभि: पूजां चक्रतुः । अत्राऽन्तरे च दमितारिणा निर्दिष्टो दूत: पुनरुपेत्य साक्षेपमभाषिष्ट"चेटिके प्रेषयिष्याव इत्युक्त्वा किमित्यद्याऽपि न प्रेषिते ?" ततो गूढकोपो विष्णुः साम्नोवाच-"यदि दमितारिश्चेटीभ्यामेव तुष्यति, तदपरेऽह्नि ते गृहीत्वा गच्छ" । ततो दूतो विष्णुप्रदत्तावासे कृतकृत्यमिवाऽऽत्मानं मन्यमानो ययौ । ततस्तौ च बल-विष्णू सुमन्त्रिषु राज्यभारमारोप्य विद्यया स्वस्य चेटीद्वयरूपं विधायोपेत्या-"पराजिता-ऽनन्तवीर्याभ्यां दमितारये प्रहिते स्व" इति दूतमूचतुः । दूतश्च ताभ्यां चेटिकाभ्यां समं गत्वा दमितार व्यजिज्ञपत्-"अत्र विजयार्धे कोऽपि भवत: शासनं न लङ्घयति । अपराजिता-ऽनन्तवीर्याभ्यां सविनयमिमे चेटिके प्राभृते प्रेषिते स्तः"।

Loading...

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75