Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 03
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
पञ्चमं पर्व-प्रथमः सर्गः
७५
ततः स तदानीं विजनत्वाद् नग्नीभूय स्ववाससी कक्षान्तः प्रक्षिप्य वेश्मद्वारं प्राप्तः पुनस्तत् पर्यधात् । सत्यभामा च वृष्ट्या मद्भर्तुर्वस्त्राणि स्तीमितानि स्युरिति बुद्ध्याऽन्यवस्त्राणि गृहीत्वा समुपस्थिता । "विद्याप्रभावेण मे वस्त्रे न स्तीमिते, तदन्यैर्वासोभिरल"मित्युक्तवतः कपिलस्य वासांस्यनार्द्राणि शरीरं चाऽऽर्द्रं विलोकमाना सा दध्यौ - "यदि विद्याशक्त्या स्ववासांस्यसावरक्षत् तदा स्वाङ्गं कथं नाऽरक्षत् । नूनं नग्नोऽयमागतोऽस्ति । अतोऽयं मत्पतिरकुलीनो मेधाबलादेव कर्णश्रुत्या श्रुतीरध्यगीष्ट" । एवं मन्यमाना च तत्प्रभृति तस्मिन् कपिले सा मन्दानुरागा जाता ।
दैवाच्च क्षीणधनस्तदैव धरणिजट आढ्यं कपिलं श्रुत्वा धनेच्छया समाययौ, कपिलश्च स्वयं पाद्यखानादिना तं सच्चक्रे । भोजनावसरे प्राप्ते च प्रियां प्रोवाच - "प्रिये ! शरीरबाधा ममाऽस्ति ततः पितृहेतवे भोजनं विभिन्नं सम्पादय" । ततः पितुः पुत्रस्य चाऽऽचरणमन्यथा दृष्ट्वा सत्यभामा कुलीनाऽधिकमाशशङ्के । चरितैश्च श्वशुरं कुलीनं ज्ञात्वा जनकवदाराधयित्वा ब्रह्महत्याशपथं दत्त्वा रहसि "अयं तव सूनुः शुद्धपक्षद्वयोद्भवोऽन्यथा वे" ति पप्रच्छ । ततो धरणिजटः सर्वं यथातथं समाचख्यौ ।
अथ कपिलेन विसृष्टो धरणिजट: पुनरेव निजं ग्रामं जगाम । सत्यभामाऽपि च गत्वा श्रीषेणं व्यजिज्ञपत्- "ममाऽयं दैववशादकुलीनो भर्ताऽभवत् । ततो मामस्माद् मोचय । अनेन मुक्ता सती च सुकृतमाचरिष्ये" । ततः श्रीषेणोऽपि कपिलमाहूय "धर्माचरणार्थं सत्यभामेयं त्वया मुच्यताम् । विरक्तायामस्यां तव वैषयिकं सुखं कीदृग्भवेत् ?" इति बोधयामास ।
कपिलश्च "क्षणमप्यनया विना प्राणान् धर्तुं नाऽलमस्मि तत इमां पाणिगृहीतीं कथञ्चनाऽपि न त्यजामि त्यजनं त्याजनं वा गणिकास्वेव युज्यते" इत्युवाच । ततः क्रुद्धा सत्यभामोचे-“यदि
७६
त्रिषष्टिशलाकापुरुषचरितम् - गद्यात्मकसारोद्धारः मामेष न त्यजति तदा जले ज्वलने वा प्रवेक्ष्यामि । ततो राजोवाचअसौ प्राणान् मा त्याक्षीदिति मम गृह एव ते प्रिया कतिचिद् दिनानि तिष्ठतु" । एवमस्त्विति कपिलेनोक्ते च राज्ञा राज्यै समर्पिता सत्यभामा विविधं तपः समाचरन्ती समवस्थिता ।
तस्मिन्नेव च समये कौशाम्ब्यां नगर्यां बलो नाम महाबलो नृपः श्रीमतीदेवीप्रसूतां स्वसुतां श्रीकान्तां प्राप्तयौवनां रूपशीलादिसमन्वितामिन्दुषेणस्य स्वयम्वरे प्रभूतयद्धर्ध्या प्रैषीत् । तया सहाऽऽगतामनन्तमतिकां वेश्यां रूपोत्कृष्टामिन्दुषेण- बिन्दुषेणावपश्यताम् । एषा मम ममेति प्रजल्पन्तौ सामर्षौ तौ देवरमणाभिधानोद्यानमीयतुः । तत्र च द्वावपि सन्नद्धौ तदर्थं वृषभाविव युयुधाते । नृपश्च तयोर्युद्धं निषेधितुं नाऽशक्नोत् ।
ततो विषण्णः श्रीषेणोऽभिनन्दिता-शिखिनन्दिताभ्यां विचार्य प्राप्तकालमिदमिति ब्रुवाणस्तालपुटाख्यविषव्याप्तं कमलमाघ्राय क्षणाद् विपेदे । ते देव्यावपि तदेव कमलमाघ्राय तन्मार्गमन्वीयतुः । सत्यभामाऽपि च कपिलादनर्थं सम्भावयन्ती तदेव पद्ममाघ्राय तत्पथं गता । तथा ते चत्वारोऽपि जम्बूद्वीपोत्तरकुरुक्षेत्रे श्रीषेणा-ऽभिनन्दिते शिखिनन्दिता-सत्यभामे चेत्येवं युगलधर्मिणोऽभवन्, ते च तत्र पल्यत्रयायुष्का गव्यूतत्रितयोच्छ्रिता अनुभूतानुपमसुखाः सुखं कालं गमयामासुः ।
इतश्च तयोरिन्दुषेण- बिन्दुषेणयोर्युद्ध्यमानयोः सतोरेकः कोऽपि विद्याधरो विमानस्थः समेत्य तयोरन्तरे स्थित्वोवाच - "एतां भगिनीमज्ञात्वा भवन्तौ द्वौ तदर्थं किं युध्येते ? विस्तरेण मम वचनं श्रूयताम् । अस्य जम्बूद्वीपस्य महाविदेहेषु सीतानद्युत्तरतटे पुष्कलावत्यां विज विद्याधरावासे वैताढ्यपर्वते उत्तर श्रेण्यामादित्याख्ये नगरे सुकुण्डलीनामा राजाऽस्ति । तस्य पत्नी चाऽजितसेना नाम कुलीनाऽस्ति । अहं तयोः पुत्रो मणिकुण्डलीनामा ।

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75