Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 03
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 43
________________ ७४ ॥ अहम् ॥ ॥ श्रीनेमि-विज्ञान-कस्तूर-यशोभद्र-सूरिसद्गुरुवरेभ्यो नमः ॥ त्रिषष्टिशलाकापुरुषचरितम् गद्यात्मकसारोद्धारः श्रीशान्तिनाथचरितप्रतिबद्धं पञ्चमं पर्व प्रथमः सर्गः प्रादात् प्रजानां यः शान्ति गर्भस्थोऽपि जिनेश्वरः । अचिराकुक्षिजं विश्व-सेनसूनुं नमामि तम् ॥ १॥ अथाऽस्मिन् जम्बूद्वीपे भरतक्षेत्रे दक्षिणार्धविभूषणे रत्नपुरे पुरे धर्मा-ऽर्थ-कामाननाबाधया सेवमानः प्रार्थिजनकल्पद्रुमो रूपवान् दयावांश्च श्रीषेणनामा नृपो बभूव । तस्य च शीलगुणसमन्विते रूपतिरस्कृतदेव्यावभिनन्दिता-शिखिनन्दिते द्वे पत्न्यावभूतां, कालक्रमेण चाऽभिनन्दिता गर्भं दधौ । तदानीं च सा स्वोत्सङ्गस्थौ सूर्याचन्द्रमसौ स्वप्ने ददर्श । नृपश्च तवोत्कृष्टं पुत्रद्वयं भावीति स्वप्नफलमाख्यत् । पूर्णे च समये सा देवी पुत्रद्वयमसूत । ततः श्रीषेणः समहोत्सवं तयोरिन्दुषेणो बिन्दुषेणश्चेत्यभिधानमकरोत् । धात्रीभिाल्यमानौ च तौ क्रमाद् वर्धमानौ सर्वशस्त्र-शास्त्रनिपुणतामापन्नौ कामक्रीडावनं यौवनं प्रतिपेदाते । त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः इतश्चाऽत्र भरते मगधेषु ग्रामोत्तमेऽचलग्रामे वेदविद् धरणिजटनामा विप्राग्रणीर्बभूव । तस्य च कुलीना यशोभद्रानाम्नी पत्न्यासीत् । तस्याश्च क्रमेण नन्दिभूति-श्रीभूतिनामानौ द्वौ पुत्रौ जज्ञाते । तथा तस्य विप्रस्य कपिलाख्यायां दास्यां कपिलो नाम पुत्रो बभूव । स द्विजो नन्दिभूति-श्रीभूतिसुतौ साङ्गान् सरहस्यान् वेदानपाठयत् । अतिमेधावी कपिलोऽपि च तत्सर्वं तूष्णीकोऽवधारयन् वेदाब्धिपारगो जज्ञे । स च कपिलः प्रकटवैदुषिको यज्ञोपवीतद्वितयं कण्ठदेशे निधाय द्विजोऽस्मीति गिरा प्रकाशयन् देशान्तरेषु बभ्राम । भ्रमंश्च स क्रमेण रत्नपुरपत्तनं प्राप्याऽशेषपौरोपाध्यायस्य सत्यकिनाम्नः कलानिधेः पाठशालां दिने दिने गत्वा पृच्छतां छात्राणां संशयानच्छिदत् । ततश्च विस्मितः सत्यकिर्दुर्ज्ञानानि शास्त्ररहस्यानि तमपृच्छत् । कपिलश्च तस्मै तानि सविशेषाणि प्रत्यपादयत् । ___ ततः सत्यकिस्तं राजा युवराजमिव सर्वकर्मधुरन्धरं चक्रे । स च सर्वशिष्याणामन्वहं व्याख्यां चकार । तेन स्वेन पुत्रेणेव निश्चिन्तः सत्यकिस्तस्थौ । तथा कपिलः सत्यकेः पितुरिव सविशेषां भक्ति चकार । तेन प्रीतश्च सत्यकिः किमेतस्मै करोमीत्यचिन्तयत् । तदा सत्यकेर्जम्बुका नाम भार्या शील-रूपादिसमन्वितायाः स्वपुत्र्याः सत्यभामाख्यायाः सम्प्राप्तयौवनाया वरान्वेषणाय तं प्रेरयामास । ___ ततः सत्यकिरूचे-"रूपगुणसम्पन्नो विनीतः कपिलो विप्रः सत्यभामोचितो वरोऽस्ति" । जम्बुकया च तत्स्वीकृते शुभे लग्ने सत्यकिविधिवत् सत्यभामा-कपिलयोविवाहं व्यधात् । ततश्च कपिलः सत्यकिवत् पौरैः पूज्यमानः सर्वेष्वपि पर्वसु सत्यकेरपि पूज्योऽयमिति धन-धान्यादिभिः सक्रियमाण: सत्यभामया सह भोगान् भुजानो धनैर्गुणैश्च समृद्धो जज्ञे । एकदा च प्रावृषि स निशि नाट्यविलोकनाय सदनाद् बहिर्गतश्चिरं तत्र स्थितः । ततो निवृत्तस्य गृहं गच्छतोऽर्धमार्गेऽम्बुदो वर्षितुमारब्धवान् ।

Loading...

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75