Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 03
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
चतुर्थं पर्व - सप्तमः सर्गः
६९
सोऽपि सोत्कण्ठो बलयुतैर्विद्याधराधिपशतैः परिवृतः समित्रः सकलत्रश्च सनत्कुमारो हस्तिनापुरं प्राप । तत्र च वियोगात्त पितरौ पौरांश्च निजदर्शनात् समानन्दयत् । ततोऽश्वसेननृपः स्वे राज्ये सनत्कुमारं तत्सेनाधिपत्ये च महेन्द्रसिंहं निधाय श्रीमद्धर्मतीर्थकृत्तीर्थे स्थविराणामन्तिके परिव्रज्यां समादाय स्वार्थमसाधयत् ।
**ats
इतश्च सनत्कुमारस्य राज्यं परिपालयतः सतश्चतुर्दशचक्रादीनि महारत्नान्यजायन्त । ततः स चक्रमार्गानुगः स्वयं षट्खण्डं भरतक्षेत्रं नैसर्पादीन् निधींश्च दशभिर्वर्षसहस्त्रैः साधयित्वा हस्तिनापुरं प्राविशत् । तं च नगरे प्रविशन्तमवधिज्ञानतः शक्रः सौहृदात् स्वमिव वीक्षाञ्चक्रे । ततः पूर्वजन्मन्यसौ मे बान्धव इति स्रेहवशाच्छक्रो नगरं प्रविशतः सनत्कुमारस्याऽभिषेको विधीयतामिति कुबेरं समादिशत । हारं शशिमालामातपत्रं चामरे मुकुटं कुण्डलयुगं देवदूष्यद्वयीं सिंहासनपादुके पादपीठं च शक्रः सनत्कुमारार्थं कुबेरस्य समार्पयत् । तिलोत्तमानारदादीन् तदभिषेकाय समादिशच्च ।
ततः कुबेरस्तैः सार्धं हस्तिनापुरमेत्य सनत्कुमाराय शक्रादेशं निवेद्य तदनुज्ञात एकयोजने माणिक्यपीठं विचकार । तदूर्ध्वं मण्डप - सिंहासनादि क्षणाद् विधाय देवादिभिः क्षीरोदसलिल- गन्धमाल्यादि च समानाय्य सनत्कुमारस्य सर्वैर्देवादिभिश्चक्रवर्तित्वाभिषेकं समहोत्सवं विदधे । गजरत्नमध्यारोह्य तं हस्तिनापुरे प्रावीविशत् स्वपुरमिव च हस्तिनापुरं धनाकीर्णं कृत्वा कुबेरः स्वं धाम जगाम । तथा राजभिः सामन्तादिभिश्च तस्याऽभिषेको विदधे । तस्याऽभिषेकोत्सवाच्च हस्तिनापुरं द्वादशाब्दीं यावद् दण्ड- शुक्लादिवर्जितमभूत् । स चक्री च पितेव विधिवत् सकलाः प्रजाः पालयामास ।
तदानीं च सुधर्मायां रत्नसिंहासनस्थिते सौदामनीं नाटकं नाटयति शक्रे सर्वरूपाभिभाविनाऽनवद्येन रूपेण सर्वदेवानां विस्मयं जनयन्
त्रिषष्टिशलाकापुरुषचरितम् - गद्यात्मकसारोद्धारः देहप्रभाभिस्सर्वेषां तेजांसि तिरयन्नैशानकल्पात् सङ्गमाख्योऽमरः समागत्य पुनः प्रत्यगात् । गते च तस्मिन् देवाः शक्रं पप्रच्छुः - अस्य लोकोत्तरं तेजोऽनुपमं रूपं च कथम् । ततः शक्रोऽवदत्-"प्राग्जन्मन्येतेनाऽऽचामाम्लवर्धमानं तपः कृतं, तेनाऽस्येत्थं रूपतेजसी" । ततः पुनःजगत्त्रये किं कोऽप्यन्योऽपीदृश: ?" इत्यमरैः पृष्टः शक्रोऽब्रवीत्“राज्ञः सनत्कुमारस्य यद्रूपं तदन्यत्र देवेषु मनुष्येषु च न" । ततस्तद्रूपस्यैवं प्रशंसामश्रद्दधानौ विजयो वैजयन्तश्च द्वौ सुरौ पृथिव्यामवतीर्य रूपान्वेषणार्थं विप्ररूपेण नृपतेः प्रासादद्वारि द्वाःस्थसन्निधौ तस्थतुः ।
७०
तदानीं च सनत्कुमारोऽपि मुक्तनिःशेषनेपथ्यः सर्वाङ्गाभ्यङ्गमुद्वहन् प्रारब्धमज्जन आसीद् । तदा द्वारपालेन निवेशितौ च तौ विप्रौ सनत्कुमारमालोक्य सुविस्मितौ शक्रोक्तं तथैवेति चिन्तयामासतुः । "किं निमित्तमिहाऽऽगतौ” इति तौ सनत्कुमारेण पृष्टावूचतुः - "राजन् ! भुवने भवतो रूपं लोकोत्तरचमत्कारकं गीयते । दूरतोऽपि तदाकर्ण्य कौतुकाद् विलोकयितुमायातौ । लोके यथा वर्ण्यमानं तव रूपं श्रूयते, ततोऽप्येतत्सविशेषं निरीक्ष्यते" ।
ततः सनत्कुमार ऊचे - " अभ्यक्तेऽङ्गे कियती कान्तिः ? क्षणं प्रतीक्षेथां, यावद् मज्जनं निर्वर्त्यते । पुनः कृतनेपथ्यं रूपं निरीक्षेथाम्” । तत: स्नात्वा कृतनेपथ्यः स सभामध्यास्त । ततोऽनुज्ञातौ विप्रौ पुरोभूय नृपते रूपं ददृशतुः । विषण्णौ दध्यतुश्च - "तद्रूपं, सा कान्तिस्तल्लावण्यं च क्षणात् क्वाऽगात् ? मर्त्यानां सर्वमेव क्षणिकम्" ।
तौ विषण्णौ दृष्ट्वा राज्ञा पृष्टौ विप्रावूचतुः - "आवां सौधर्मवासिनी सुरौ । शक्रकृतं तद्रूपवर्णनमश्रद्दधानौ द्रष्टुमिहाऽऽगतौ । पुरा त्वद्रूपं यथा शक्रोक्तं दृष्टं । तदिदानीमन्यादृशमेवाऽजायत । कान्तिसर्वस्वतस्करैर्व्याधिभिरधुना तव देहः समन्तादाक्रान्तः " । इति यथार्थमभिधाय शीघ्रं तिरोहितयोस्तयोर्नृपः स्वं विच्छायमपश्यत् । ततश्च सांसारिके वस्तुनि जातानित्यत्वभावनः सञ्जातवैराग्यः प्रव्रज्यां जिघृक्षुः सुतं राज्ये

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75