Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 03
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 40
________________ ६८ चतुर्थ पर्व-सप्तमः सर्गः क्वाऽप्यगात् । न जाने, कि भविष्यति ?" तत आर्यपुत्रोऽप्युवाच"कातरेक्षणे ! मा भैषीः । यमलं स्मरसि, स एष कौरव्यः सनत्कुमारोऽस्मि" । तत: साऽप्येवं प्रत्यभाषिष्ट-“देव ! चिराद् मेऽद्य दृष्टिपथेऽसि, दैवेन दिष्ट्या सुस्वप्नमिव दशितोऽसि" । एवं तयोरालपतोः स वज्रवेगो नाम विद्याधरोऽशनिवेगपुत्रः क्रुद्धस्तत्राऽगात् । तथाऽऽर्यपुत्रमुत्पाट्योल्लोलयामास । "हा नाथ ! दैवेन निहताऽस्मीति भाषमाणा च सा मूर्च्छया महीपृष्ठे न्यपतत् । आर्यपुत्रोऽपि च क्रुद्धो मुष्ट्या तं दुराशयं वज्रवेगमवधीत् । तथाऽक्षताङ्ग आर्यपुत्रो नेत्रानन्दं जनयंस्तत्समीपं समाययौ । तां समाश्वास्य च नैमित्तिकैः स्त्रीरत्नमिति सूचितां तां सद्यः पर्यणैषीच्च । तत्र च क्षणेनैव वज्रवेगस्य भगिनी सन्ध्यावली समागात् । भ्रातृवधात् क्रुद्धाऽपि "भ्रातृवधकस्ते भर्ता भावी"ति ज्ञानिनां वचः स्मृत्वा च क्षणेनाऽशाम्यत् । तत: साऽपि च स्वयंवरपरायणाऽऽर्यपुत्रं नाथमिच्छन्त्युपतस्थे । सुनन्दयाऽनुज्ञातश्च त्वत्सखा रागिणीं तां गान्धर्वेण विवाहेनोपायंस्त । तदानीं च द्वौ विद्याधरावुपेत्य सनत्कुमाराय ससन्नाहं महारथमुपनीयाऽवोचताम्-"त्वया गरुडेन पन्नगमिव हतं वज्रवेगं श्रुत्वा तत्पिताऽशनिवेगः क्रुद्धो योद्धमभ्येति, चन्द्रवेगेन भानुवेगेन च पितृभ्यां प्रेरितावावां भवत: श्वसुर्यों साहाय्यार्थे समागतौ । तत्प्रेषितममुं रथमारोह, अमुं कवचं च परिधेहि । द्विषां बलं विजयस्व च । चन्द्रवेग-भानुवेगौ चाऽपि साहाय्याय वायुवेगिभिर्वाहनैरागतावेव विद्धि" तदानीमेव च तौ चन्द्रवेग-भानुवेगौ महासैन्यौ समेयतुः । तदा चाऽशनिवेगस्य समागच्छतः सैन्यसमूहैस्तुमुल उत्तस्थे । तदा च सन्ध्यावलिरार्यपुत्राय प्रज्ञप्तिकां नाम विद्यामदत्त । आर्यपुत्रोऽपि च सन्नह्य तं रथं समारुह्य च रणायोत्कण्ठितस्तस्थौ । चन्द्रवेगादयश्च विद्याधराः सनत्कुमारं परिवृत्य तस्थुः । त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः अथाऽशनिवेगस्य सैनिका 'गृह्णीत गृह्णीत हत हते'ति भाषमाणा अतिवेगेनाऽऽगमन् । ततश्चोभयोः सैन्यास्ताम्रचूडा इवोत्पत्त्योत्पत्त्याऽमर्षात् प्रहारिणोऽयुध्यन्त । चिरं च शस्त्राशस्त्रि-दण्डादण्डि-बाहूबाहवियुद्ध्वा द्वयोरपि सैन्येषु भग्नेषु रथेनाऽनिलवेगिनाऽशनिवेगः समुत्थाय परानुच्चैराक्षिपन् धनुरधिज्यं विदधे । आर्यपुत्रोऽपि च तथैव तमधिक्षिपन् साधिज्यं धनुर्व्यधात् । ततो द्वयोरपि महौजसोः शराशरि-शस्त्राशस्त्रियुद्धे प्रवृत्ते धावतोऽशनिवेगस्य भुजार्धमार्यपुत्रः खड्गेन चकत । तादृशोऽपि च सोऽशनिवेगः क्रोधाद् धावमानः प्रहर्तुं प्रायतत । तत आर्यपुत्रो विद्यार्पितेन चक्रेण तस्य शिरश्चिच्छेद । तथाऽशनिवेगस्य राज्यलक्ष्मी वशेकृत्य चन्द्रवेगादिभिः समं वैताढ्यं गिरिं जगाम । तत्र चाऽऽर्यपुत्रस्य विद्याधरेन्द्रविद्याधरमहाराज्याभिषेक्श्चक्रे। स चाऽऽर्यपुत्रः शाश्वतार्हत्प्रतिमानामष्टाह्निकोत्सवं चकार । अन्येधुश्च मम पिता चन्द्रवेग आर्यपुत्रं सप्रश्रयमवदत्-"एकदा पुरा मया कोऽपि ज्ञानरत्नाकरो मुनिर्दृष्टः पृष्टश्च मां शिष्टवान्-तव बकुलमतिप्रमुखं कन्याशतं चतुर्थश्चक्री सनत्कुमारः परिणेष्यति । ततश्च तच्चिन्ताग्रस्ते मयि सति भाग्यात् त्वमिह समागतः । तत् प्रसीद, अमू: कन्या: परिणय" । ततश्चैवं मम पित्रा प्रार्थितस्तव सुहृद् मदादिकाः शतं कन्या: पर्यणैषीत् । तत्प्रभृति च विद्याधरैः परिवृतो मदादिकाभिस्ताभिः सर्वाभिः कन्यकाभिः सुखं रममाणो यथेच्छं विषयसुखमनुभवन् तव सखा कालमनैषीत् । अधुना च क्रीडानिमित्तमेवेहाऽऽगतस्त्वया मिलितः।। __एवमुक्तवत्यां बकुलमत्यां रतिनिकेतनाद् निर्गत: सनत्कुमारो महेन्द्रसिंहेन विद्याधरैश्च परिवृतो वैताढ्याद्रिमगात् । यथासुखं कालं गमयंश्चैकदा महेन्द्रसिंहेन विज्ञापित:-"तवाऽनया महा मम मनो नितरां मोदते, किन्तु त्वद्वियोगात्तौ पितरौ त्वां स्मारं स्मारं विषीदतः । तत् प्रसीद, हस्तिनापुर नगरमभिगच्छावः" । तेन सख्या तथाऽभिहित:

Loading...

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75