Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 03
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 39
________________ चतुर्थं पर्व-सप्तमः सर्गः दश्वादार्यपुत्रोऽप्यवतीर्याऽश्वात् पर्याणादिकमुत्तार्य पिपासया पयोऽन्वेषयन्नस्यामटव्यामितस्तत: परिभ्रमन्नप्यपश्यन् सुकुमाराङ्गोऽध्वश्रान्तो दवदाहाद् व्याकुलो दूतं सप्तपर्णतरुमूलं गत्वोपाविशत् क्षोण्यां पपात च । तदा च पुण्यवशात् तद्वनदेवता यक्षोऽमुं सर्वाङ्गं शीतलै लैः सिषेच। लब्धसंज्ञ उत्थाय चाऽसौ तद्दत्तं जलं पीत्वा कस्त्वं कुतो वेदं जलमित्यपृच्छत् । स यक्षराट-"यक्षोऽहं, त्वत्कृते मानसात् पयः समानीत"मित्याचख्यौ । तत आर्यपुत्रोऽवोचत्-"महान् सन्तापोऽङ्गे, स मानससरोमज्जनाद् विना नाऽपयास्यति" । "एष तवेच्छां पूरयामी". त्युक्त्वा च स यक्षोऽमुं कदलीसम्पटे क्षिप्त्वा मानससरोऽनयत् । तत्र च यथाविधि स्नानेनाऽऽर्यपुत्रस्य श्रमो दूरीभूतः । तत्र च तव सुहृदः प्राग्जन्मारिरसिताक्षो यक्षः कृतान्त इव हननाय समागच्छत् । एकं वृक्षं च समुन्मूल्य यष्टिलीलयाऽऽर्यपुत्राय प्राक्षिपच्च । तं च पतन्तं द्रुमं तव सखा हस्तेन निहत्याऽपातयत् । ततः स यक्षो बहलधूलीभिर्जगदन्धकारमयं चकार । तेन विकृताश्च भीषणाः पिशाचा आर्यपुत्रमधावन्त । आर्यपुत्रोऽपि च तैर्मनागप्यभीतो नागपाशैर्बद्धोऽपि तान् सर्वान् लीलया त्रोटयामास । ततो विलक्षो यक्षोऽमुं कराघातैरताडयत् । आर्यपुत्रोऽपि तं वज्रसारण मुष्टिना जघान। ततो गरीयसा मुद्गरेण तेन यक्षेणाऽऽहत आर्यपुत्रश्चन्दनद्रुममुन्मूल्य तं यक्षं जघान । स भुवि पपात च । ततः शैलं लीलयोत्क्षिप्य यक्षेणाऽऽहत आर्यपुत्र क्षणं निश्चेतनो जज्ञे । लब्धसंज्ञश्च तमद्रि विधूयाऽऽर्यपुत्रो बाहुभ्यां योद्धं प्रववृते । तं च निहत्य दोर्दण्डेनाऽऽर्यपुत्रः कणशश्चक्रे । तथाऽपि देवत्वात् स नाऽमृत । किन्तु विरसमारट्य स यक्षो वायुवेगेन पलायिष्ट । रणकौतुकावलोकिन्यो विद्याधर्यादयस्त्वन्मित्रे पुष्पाणि ववृषुः । ततो धीरमानस आर्यपुत्रोऽपराह्ने मानसादचालीत् । नन्दनादायाता रूपवती खेचरकन्यका ददर्श च । ताभिश्चाऽपि हावभावमनोहरं त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः त्वन्मित्रं ददृशे । ताश्चोपेत्य सद्भावं प्रकटयामासुः । आर्यपुत्रोऽपि ता उवाच-"यूयं कस्य महात्मनः पुत्र्यः ? इदमरण्यं च केन हेतुना युष्माभिर्भूषितम् ?" ततस्ता अप्यूचुः-"वयं विद्याधरेन्द्रस्य भानुवेगस्याऽष्टौ कन्यकाः । मम पितुश्च नगरीतोऽनतिदूर एवाऽस्ति । तां विश्रान्त्याऽलङ्कुरु" । सविनयमुक्तस्ताभिश्च ते सखा वरचिन्ताभृतः स्वपितुरन्तिकमनायि । भानुवेगश्चाऽभ्युत्थानं कृत्वा स्वागतवचनमुच्चार्योवाच-"त्वं कन्यानामुचितो वरोऽसीति मया प्रार्थ्यसे इमा अष्टावपि परिणय" । तेन चैव अभ्यर्थितस्तव सखा तदैव ता अष्टा अपि विधिपूर्वकं पर्यणैषितः । ____ताभिश्च समं रतिगृहे सुप्तोऽसौ बद्धकङ्कणो निद्रितोऽसिताक्षेणोत्क्षिप्याऽन्यत्र चिक्षिपे । निद्रान्ते च तव सखा स्वं सकङ्कणं भूमिष्ठमरण्यान्तरेकाकिनं पश्यन् किमिदमिति चिन्तयामास । पूर्ववच्चैकाक्यटव्यन्तरटन्नेकमभ्रंलिहं सप्तभूमिकं प्रासादं ददर्श । अदोऽपि कस्याऽपि मायाविनो मायाविलसितं किञ्चित् चिन्तयंस्तं प्रासादमाससाद । तत्र च कस्याश्चिद् योषितः सकरुणं रुदितं श्रुत्वा दयावीर आर्यपुत्रस्तत्र प्रासादे सप्तमी भूमि प्राप्त:-सनत्कुमार ! जन्मान्तरेऽपि त्वमेव मम भर्ता भूया इति भूयो भूयो वदन्ती रूपलावण्यपुण्याङ्गीमधोमुखीमश्रुपूर्णेक्षणां कन्यकां ददर्श । स्वनामश्रवणाच्च केयमित्याशङ्कितः पूरोभूय तामाभाषिष्ट-"भद्रे ! सनत्कुमारः कः ? काऽसि त्वम्, इह किमागता, किंवा ते व्यसनं, येन तं स्मरन्ती रोदिषि ?" तेनेत्थमुक्ता सा बालोवाच-“साकेतपुरनाथस्य सुराष्ट्रस्य महीपतेश्चन्द्रयशसो देव्याश्च सुनन्दानाम्न्यहं पुत्री । सनत्कुमारश्चाऽश्वसेननृपस्य रूपजितकामः पुत्रः । स च मनोरथमात्रेण मम भर्ता । यस्मात् पितृभ्यामुदकपूर्वकं तस्मै दत्ताऽस्मि । किन्त्वकृतविवाहामेको विद्याधरो मां स्वगृहादिहाऽनैषीत् । इमं प्रासादं विकृत्य मामत्रैव विमुच्य च स

Loading...

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75