Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 03
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 38
________________ चतुर्थं पर्व - सप्तमः सर्गः ६३ तं प्रैरयत् । सोऽश्वश्च पृथिवीमस्पृशन्निव वेगेन प्रधावित: कुमारेण यथा यथा वल्गया चकृषे, तथा तथा विपरीतशिक्षोऽधिकमधावत । एवं सोऽश्वोऽश्वमूर्ती राक्षस इव सादिनां राजपुत्राणां धावता क्षणाददृश्योऽभूत् । ततोऽश्वसेनोऽश्वसेनयाऽश्वेनाऽऽकृष्टं सूनुं प्रत्यानेतुमन्वचालीत् । यावच्च जनोऽसावश्वो याति एतानि तस्य पदानि, इमास्तस्य फेनलाला' इत्येवमाख्याति, तावत्कालरात्रिरिव दृशामन्धङ्करणी प्रचण्डा वात्योदभूत् । तदानीं रेणुभिर्दिशोऽच्छाद्यन्त, सैन्यानि स्तम्भितानीव पादमप्युद्धर्तुं नाऽलम् । गच्छतस्तस्य वाजिनश्चाऽशेषाण्यपि पदफेनादिचिह्नानि पांशुभिस्तिरोहितानि । ततश्च मूढोपायाः सर्वे सैनिकाः पर्याकुल्यभवन् । ततो महेन्द्रसिंहोऽश्वसेनं नत्वा व्यजिज्ञपत्- 'देव ! पश्य, देवस्येयं दुर्घटा घटना । अन्यथा कुमारः क्व दूरदेश: स हयः क्व ? तत्राऽज्ञातशीले कुमारस्याऽधिरोहणं क्व तेन कुमाररस्याऽपहरणं क्व ? इयं वात्याच प्रचण्डा क्व ? तथाऽपि दैवं जित्वा स्वामिसन्निभं स्वमित्रमन्विष्याऽऽनेष्यामि । प्रभो ! ममाऽल्पपरिवारस्य क्वचिदेकाकिनोऽपि च कुमारस्याऽन्वेषणं सुकरं, किन्तु प्रचुरसैन्यपरिवारस्य यत्र कुत्रचिदसम्मातो देवस्य तद् न योग्यम्" । एवं भूयोभूयः सम्प्रार्थ्य तेन पादलग्नेन निवर्तितोऽश्वसेनो दुःखितो नगरं ययौ । महेन्द्रसिंह स्वल्पबलवत्परिवारसमन्वितः सहसा सनत्कुमारमन्वेष्टुमतिदुर्गां महाटवीं प्रविवेश । विकटां तामटतस्तस्य खिन्नखिन्नानि सैन्यानि मन्त्रिमित्रादीनि च त्यक्तसङ्गानि बभूवुः । एवं क्रमादेकाकी स धनुर्धरो निकुञ्ज-कन्दरादिषु भ्रमन् सनत्कुमारमन्वेषयन् वर्षा -ऽऽतप- शीतादिकं सहमान: क्रमश: षड् ऋतूनपि व्यतीयाय । एवं सनत्कुमारान्वेषणायाऽटवीमटतस्तस्यैको वत्सरो जगाम । त्रिषष्टिशलाकापुरुषचरितम् -गद्यात्मकसारोद्धारः एकदा च तस्यामेवाऽटव्यां कियद् दूरं गत्वाऽवस्थितो दिशो विलोकयामास । कारण्डवादिपक्षिशब्दैः पङ्कजगन्धिना मरुता च किञ्चित्सर इहाऽस्तीत्यनुमानतो निश्चिकाय । स तदभिमुखं प्रयातो मधुरं सङ्गीतं शृण्वन्नग्रे गच्छन् विचित्रवस्त्रनेपथ्यानां रमणीनां मध्यवर्तिनं मित्रं सनत्कुमारं ददर्श । ततश्चाऽसौ मे प्रियसुहृदेव माया वेत्यचिन्तयद् यावत्, तावद्वैतालिकेन पठ्यमानां प्रशस्ति श्रुत्वा सनतकुमारस्य दृक्पथं गतो हर्षाश्रुधारया समं तत्पादपद्मयोः पतन् सनत्कुमारेणाऽभ्युत्थायोद्धृत्य परिषष्वजे । साश्चर्यैर्विद्याधरकुमारैश्च वीक्ष्यमाणौ तौ महार्घ्यासनयोरासाञ्चक्राते । सनत्कुमारप्राप्तेश्च महेन्द्रसिंहस्य श्रमः क्वाऽपि जगाम । ६४ ततः सनत्कुमारः स्वचक्षुषोर्हर्षाश्रु प्रमृज्य महेन्द्रसिंहमुवाच" कथमत्र समागतः ? एकाकी कथमासीः ? मां कथमज्ञासी: ? कथं कालमक्षिपः ? मद्वियोगे पितृपादाः कथं प्राणानधारयन् ? पितृभ्यामिह दुर्गमे कथमेकाकी प्रेषितः" इत्थं कुमारेण पृष्टो महेन्द्रसिंहः सर्वं प्राग्वृत्तं यथातथमाचचक्षे । ततः सनत्कुमारस्तस्य महेन्द्रसिंहस्य विद्याधरीभिर्मज्जन- भोजनादि कारयामास तदनु विस्मितो महेन्द्रसिंहो विनयाद् रचिताञ्जलिः सनत्कुमारं पप्रच्छ " तदा तेन तुरङ्गेण कियतीं भुवमपहृतः तत्प्रभृति मद्वियोगे च त्वया किं प्राप्तम् ? इयमृद्धिर्वा ते कुत: ? यदि मयि न गोपनीयं तर्ह्येतद् रहस्यमाख्यातुमर्हसि " । ततः सनत्कुमारो - ऽस्मिन्नात्मकल्पे स्ववयस्ये न किमपि गोपनीयमिति विचिन्त्य स्ववामपार्श्वे निषण्णां स्वदयितामादिदेश “विद्यया वेद्यवेदिनि ! बकुलमतिके! प्रिये ! महेन्द्रसिंहाय तथ्यां मत्कथां कथय । मामधुना निद्रा बाधते" । इत्युक्त्वा सुषुप्सुः स रतिगृहं प्रविवेश । ततो बकुलमतिरवोचत्- "तत्र दिने युष्माकं पश्यतामपि वाजिना हृतस्तव सखा महाटवीमेतां प्रवेशितो द्वितीयेऽन्यपि वेगाद् गच्छन् मध्याह्ने क्षुत्पिपासार्तो जिह्वां कृष्ट्वाऽवस्थितः । ततस्तस्मात् खिन्ना


Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75