Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 03
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
चतुर्थं पर्व-षष्ठः सर्गः
तस्य कौमारे पञ्चविंशत्यब्दसहस्राणि, मण्डलित्वेऽपि तावत्येव, दिग्जये दश, चक्रित्वे त्र्यब्दलक्षी नवतिः सहस्रा च, व्रते च पञ्चाशदब्दसहस्राणीति जन्मत: पञ्चाब्दलक्षीमतिवाह्य पञ्चपरमेष्ठिन: स्मरन् पञ्चत्वमाप्य सनत्कुमारेऽमरवरी जातः ॥ ६ ॥ इति चतुर्थे पर्वणि श्रीमघवचक्रिचरितवर्णनात्मकः
षष्ठः सर्गः ॥ ६ ॥
सप्तमः सर्गः
श्रीसनत्कुमारचक्रिचरितम् अथेह भारते काञ्चनपुरे नगरे विक्रमयशा नाम प्रवरविक्रमो नृप आसीत् । तस्य चाऽन्तःपुरस्त्रीणां पञ्चशतान्यासन् । तदानीं तस्मिन्नेव पुरे सम्पदां निधानमिव महद्धिको नागदत्तो नाम सार्थवाह आसीत् । तस्य च रूप-सौभाग्य-लावण्यवती विष्णुश्रीनाम्नी भार्याऽऽसीत् । सा चैकदा काकतालीयन्यायेन कथमपि विक्रमयशोनृपदृष्टिगोचरा जाता । तां प्रेक्ष्य च कामवशो लुप्तविवेकः स नृपोऽचिन्तयत्"अदृष्टपूर्वमस्याः सर्वाङ्गसौन्दर्यम् । एतामपहत्य निजान्तःपुरं नेष्यामि"। एवं विचिन्त्य स नृपस्तां गृहीत्वाऽन्तःपुरमुपनीय सदा स्मरलीलाभी रमयामास ।
सार्थवाहो नागदत्तश्च तद्वियोगेन विधुरो दुःखेन कालं गमयामास । विष्णुश्रिया च रममाणे तस्मिन् नृपतौ क्रुद्धाः शुद्धान्तयोषित ईर्ष्णया कार्मणं चक्रुः । तेन च क्षणे क्षणे क्षीयमाणा सा गतजीविता जाता । नृपोऽपि तस्या मृत्युना जीवन्मृत इव स्थितो नागदत्त इव प्रलापी विलापी चाऽभवत् । स मृतामपि विष्णुश्रियं 'प्रिया ममैषा प्रणयतूष्णीके ति सन्ततं वदन्ननले क्षेप्तुं नाऽदत्त । ततो मन्त्रिणो मन्वयित्वा नृपं कथमपि वञ्चयित्वा विष्णुश्रियं नीत्वाऽरण्ये चिक्षिपुः ।
इतश्च नृपः तस्या वियोगेनोन्मत्त इव प्रलपन् तेषु तेषु स्थानेषु बभ्राम । त्यक्तान्न-पानवृत्ते राज्ञश्च त्र्यहे गतवति सचिवा नृपमरणाशङ्किनस्तस्या वपुरदर्शयन् । गलितमदर्शनीयं पूतिगन्धि च तस्या

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75