Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 03
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 37
________________ ६१ ६२ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः चिरमचिन्तयच्च । भुक्ते च तस्मिन् द्विजे तत्पृष्ठात् पायसपात्री सपङ्केष्टिकेव मांसादिसहिता समुच्चख्ने । ततो जिनधर्मो गृहं गत्वा स्वकीयं सर्वमपि लोकमाहूय क्षमयित्वा चैत्यपूजां विधाय साधो: समीपम्पेत्य यथाविधि परिव्रज्यामुपादत्त । ततो नगराद् निर्गत्य शैलशृङ्गमधिरुह्याऽनशनं प्रपद्य पूर्वस्यां दिशि पार्श्वभागं कृत्वा कायोत्सर्ग विधायाऽपरास्वपि दिक्ष्वेवं कायोत्सर्ग विधाय गृध्रादिभिश्चञ्चुभिस्त्रोट्यमानोऽपि व्यथां सहमानो नमस्कारपरायणो विपद्य सौधर्मे कल्पे देवेन्द्रः समजायत । स त्रिदण्डिकोऽपि च मृत्वा शक्रस्य वाहनमैरावणो द्विपोऽभूत् । पूर्णायुश्च ततश्च्युत्वा त्रिदण्डिजीवो भवे भ्रान्त्वाऽसिताक्षो नाम यक्षराडभूत् । चतुर्थं पर्व-सप्तमः सर्गः विष्णुश्रियो वपुरवलोक्य विरक्तो नृपो विक्रमयशाश्चिन्तयामास'अहो ! असारे संसारे किमपि न सारम् । धिक् , सारबुद्ध्या कियच्चिरमेतस्यां मोहिताः स्मः । परमार्थवित् कश्चिदपि नारीभिर्न हियते । स्त्रियो ह्यन्तर्विविधमलदूषिता बही रम्याश्चर्मप्रसेविकातुल्याः । यदि हि स्त्रियो वपुषो बहिरन्तविपर्यासः स्यात् तदा कामुको गृद्धगोमायुसमर्पणमेव कुर्यात् । कामो हि स्त्रीशस्त्रेणैव जगदेतज्जिगीषति। हहा ! मनोभुवाऽनेन सर्वं विश्वं विडम्बितम् । तत्तस्य कामस्य सङ्कल्पाख्यं मूलमेव सर्वत उत्खनामि" । एवं विचिन्त्य संसारविरक्तः स महामनाः सुव्रताचार्यपादान्ते दीक्षामुपाददे । देहनिःस्पृहश्चतुर्थ-षष्ठादितपोभिश्चाऽऽत्मानं शोषयित्वा दुस्तपं तपस्तप्त्वा कालयोगाद् विपद्य सनत्कुमारकल्पे प्रकृष्टायुः सुरोत्तमोऽभूत् । ततोऽप्यायु:क्षये च्युत्वा रत्नपुरे पुरे जिनधर्मो नाम श्रेष्ठिसुतो जातः । आबाल्यादपि द्वादशविधं श्रावकधर्मं पालयन् तीर्थकरानष्टप्रकारया पूजयाऽऽराधयन्नेषणीयादिदानेन साधूंश्च प्रतिलाभयन्न साधारणवात्सल्यात् साधर्मिकांश्च प्रीणयन् कञ्चित्कालं गमयाम्बभूव । इतश्च नागदत्तोऽपि प्रियाविरहदुःखित आर्त्तध्यानाद् मृतस्तिर्यग्योन्यादिषु चिरं भ्रान्त्वा सिंहपुरे नगरेऽग्निशर्मा नाम द्विजपुत्रोऽभवत् । कालेन च त्रिदण्डित्वं समादाय तीव्रद्विमासादितपोरतो रत्नपुरं समाययौ । तं च परिव्राजमागतं श्रुत्वा तत्पुरनृपो हरिवाहनः पारणक दिवसे न्यमन्त्रयत् । नृपगृहमागतश्च स जिनधर्मं दृष्ट्वा प्राग्जन्मवैरेण क्रुद्धो नृपं जगाद-'अस्य श्रेष्ठिनः पृष्ठे चेदुष्णपायसभाजनं न्यस्यात् तदाऽहं भुजेऽन्यथा न" । अन्यपुंसः पृष्ठे स्थालं न्यस्याऽहं त्वां भोजयामीति नृपेणोक्तश्चाऽतिक्रुद्धः पुनरब्रवीत्-"अस्यैव पृष्ठे स्थालमुष्णपायसं न्यस्याऽहं भुञ्जेऽन्यथाऽकृतार्थो यामि" । तद्वचःप्रतिपन्नेन राज्ञाऽऽदिष्टो दत्तपृष्ठो भुञ्जानस्य द्विजस्य स्थालतापं स जिनधर्मोऽधिसेहे । प्राक्तनकर्मणः फलमेतदनेन विधिना त्रुट्यत्वेवं इतश्चाऽस्मिन् जम्बूद्वीपे भरतक्षेत्रे कुरुजाङ्गलदेशे हस्तिनापुरे पुरे गुणरत्नरोहणाचलोऽश्वसेनो नाम नपो बभूव । तस्य च रूपेण देवीव सहदेवीनाम्नी भार्याऽऽसीत् । तस्याः कुक्षौ च जिनधर्मजीव: प्रथमात् कल्पाद् निजायुर्भुक्त्वा च्युत्वाऽवातरत् । तदानीं च सहदेवी मुखे प्रविशतश्चतुर्दश गजादीन् महास्वप्नान् दृष्टवती । पूर्णे समये च सर्वलक्षणलक्षितं विलक्षणरूपविभवं स्वर्णवर्णं सुतमसूत । नृपश्च सोत्सवं तस्य सनत्कुमार इति नाम चक्रे । स च सनत्कुमारो धात्रीभिलाल्यमानः क्रमेण वर्धमानो लीलया सर्वाः कलाः शिक्षयामास । शैशवमुल्लङ्घ्य च साधैंकचत्वारिंशद्धनुन्नतो यौवनं प्राप्तवान् । तस्य च कालिन्दीसूरतनयो विख्यातविक्रमो महेन्द्रसिंहनामा परमं मित्रमासीत् । एकदा वसन्ते स सनत्कुमारस्तेन मित्रेण महेन्द्रसिंहेन सह कौतुकात् क्रीडितुं मकरन्दाख्यमुद्यानं ययौ । विविधाभिः क्रीडाभिस्तत्र क्रीडति तस्मिन्नश्वपती राज्ञः प्राभृते सर्वलक्षणलक्षितान् गतिचतुरान् हयान् प्राहिणोत् । तेष्वेकं जलधिकल्लोलं नाम वाजिनं सनत्कुमारस्याऽर्पयामास । सनत्कुमारश्च क्रीडां त्यक्त्वा तमश्वमारुह्य कशामुत्क्षिप्यैकेन पाणिना वल्गामाकृष्याऽऽसनास्पृष्टपर्याण एवोरूभ्यां

Loading...

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75