Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 03
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 34
________________ ५६ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः शक्रादयोऽर्हन्तं नत्वा स्वं स्वं धाम जग्मः । प्रभधर्मनाथजिनोऽपि सर्वातिशयसम्पन्नस्तत: स्थानाद् महीं विहत्तुं प्रववृत्ते । चतुर्थ पर्व-पञ्चमः सर्गः कुटिलयाऽऽलोचनया तु स्वल्पमपि कर्म विवर्धते । किं च मोक्ष ऋज्वात्मनामेव न तु कुटिलात्मनाम् । तस्माद् निर्वृतिकामनया जन एकामृजुतामेवाऽऽश्रयेत् । लोभश्च सर्वदोषाकरो गुणप्रतिपन्थी व्यसनमूलं च । दारिद्र्यात् क्रमश इन्द्रत्वेऽपि च प्राप्ते लोभो न निवर्तते । रोगाणां राजयक्ष्मेव लोभः सर्वपापानां मूलम् । द्रविणलोभेन द्वीन्द्रियादयोऽपि स्वकीयानि प्राग् निधानानि मूर्च्छयाऽधितिष्ठन्ति । भुजङ्गादयः पञ्चेन्द्रिया अपि धनलोभेन निधानस्थानभूमिषु वसन्ति । पिशाचादयोऽपि स्वकीयं परकीयं वा धनं लोभतोऽधितिष्ठन्ति । भूषणादिषु मूच्छिता देवा अपि च्युत्वा तत्रैव पृथिवीकायादियोनिषु जायन्ते। उपशान्तमोहत्वं प्राप्याऽपि यतयोऽपि लोभात् पतन्ति । सोदर्या अपि धनलोभात् परस्परं युध्यन्ते। लोभो हि यथा यथा पूर्यते तथा तथा वर्धत एव । लोभस्य त्यागेऽत्यागेऽपि वा तपोभिरप्यलम् । तस्माल्लोभस्यैकस्य हानाय मतिमान् सदा प्रयतेत । लोभश्च सन्तोषेण निवारणीयः । सन्तोषो हि सुराणामिन्द्र इव गुणानां प्रवरो गुणः । सन्तुष्टस्य यतेरसन्तुष्टस्य चक्रिणश्च सुख-दुःखे तुल्ये । चक्रिणोऽपि सन्तोषामृततृष्णया राज्यमुत्सृज्य निःसङ्गत्वं प्रतिपद्यन्ते । सन्तोषसिद्धावेव वैराग्यसिद्धिः । सन्तोषमात्रेणाऽपि हि मुक्तिश्रीर्लभ्यते । सन्तुष्टा हि जीवन्तोऽपि विमुक्ता एव । सन्तोषरहितं तीव्र तपोऽपि न कर्म नाशयितुं क्षमम् । तस्माल्लोभं निराकर्तुं सन्तोषमाश्रयेत् । एवं प्रकारेण जितकषायो जनोऽत्राऽपि शिवसौख्यभाक, परत्र चाऽवश्यमनश्वरं शिवसुखं प्राप्नोति" । प्रभोरेवं देशनां श्रुत्वा बहवो जनाः प्राव्रजन् । विष्णुः सम्यक्त्वं बलभद्रश्च श्रावकत्वं भेजे । ततः प्रथमपौरुष्यां पूर्णायां प्रभौ देशनाविरते द्वितीयस्यां च पौरुष्यां पूर्णायामरिष्टे गणधरे देशनाविरते सति ५ विष.भा-३ तदानीं च प्रभोर्वर्षद्वितयहीनं सार्धं वर्षलक्षद्वयमाकेवलाद् विहरत: परीवारे श्रमणानां चतुष्षष्टिः सहस्राणि, साध्वीनां सचतुःशताद्वाषष्टिः सहस्राः, चतुर्दशपूर्वभृतां नवशतानि, अवधिज्ञानिनां त्रिसहस्त्री षट्शती च, मन:पर्ययिणां पञ्चचत्वारिंशच्छतानि, केवलज्ञानिनामपि च तावन्ति शतानि, जातवैक्रियलब्धीनां शतसप्ततिः, वादलब्धिमतां वे सहस्र अष्टौ शतानि च, श्रावकाणां चत्वारिंशत्सहस्रयुग्लक्षद्वयी, श्राविकाणां त्रयोदशसहस्रयुक्चतुर्लक्षी चाऽभवन् । अथ मोक्षसमयं ज्ञात्वा धर्मजिन: सम्मेताद्रिमुपेत्याऽष्टोत्तरेण मुनिशतेन सममनशनं प्रपद्य मासान्ते ज्येष्ठशुक्लपञ्चम्यां रेवतीस्थे चन्द्रे तैर्मुनिभिः समं परमं पदं प्रपेदे । शक्रादयः सुराश्च तत्क्षणं प्रभोनिर्वाणमहोत्सवं चक्रे। अनन्तस्वामिनिर्वाणाच्च चतुःसागरोपमेष्वतीतेषु धर्मनाथस्वामिनिर्वृतिर्जाता । तदेवं प्रभोः कौमारे सार्धाब्दलक्षे, राज्ये पञ्चाब्दलक्षी, व्रते सार्धा व्यब्दलक्षीत्येवं दशाब्दलक्षाण्यायुः । ___पुरुषसिंहोऽपि च तैस्तैहिस्रकर्मभिः पूर्णायुर्विपद्य षष्ठी नरकमेदिनीमगच्छत् । तस्य च कौमारे त्र्यब्दशती, माण्डलित्वेऽब्दानां सार्धानि द्वादशशतानि, दिग्जये सप्तत्यब्दी, राज्ये नव लक्षाण्यष्टानवतिः सहस्राणि त्रीणि शतान्यशीतिश्चेति दशाब्दलक्षाण्यायुः । बलभद्रश्च सुदर्शन: सप्तदशाब्दलक्षायुरनुजं विना दुःखितो विरक्तः कीर्तिमुनिपार्वे व्रतमादाय पूरितायुः परमं पदं प्राप ॥ ५ ॥ इति चतुर्थे पर्वणि श्रीधर्मनाथ-पुरुषसिंह-सुदर्शन-निशुम्भचरित वर्णनात्मकः पञ्चमः सर्गः ॥५॥

Loading...

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75