Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 03
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
५३
चतुर्थं पर्व-पञ्चमः सर्गः सर्वपुरुषार्थचौरः कोप एव कोपपात्र"मित्यादिप्रकारया भावनया क्रोध जयेत् । ____ मानश्च विनय-श्रुत-शीलानां त्रिवर्गस्य च घातको विवेकलोचनं लुम्पन् नृणामन्धङ्करणः । किं च जाति-लाभ-कुलैश्वर्य-बल-रूपतप:-श्रुतैर्मदं कुर्वन् जनस्तानि हीनानि लभते । अनेकविधान् जातिभेदान् दृष्ट्वा कः सुधीर्जातिमदं कुर्वीत ? कर्मत एवोत्तमां हीनां वा जातिमाप्नोति । तदेवमनित्यां जातिमासाद्य न मदनीयम् । लाभश्चाऽन्तरायक्षयादेव जायते । तस्माल्लाभमदो न कर्तव्यः । नृपादिप्रसादादि भवे लाभे च को नाम मदः? तस्याऽन्याऽधीनत्वात् । अकुलीनानपि प्रज्ञाश्रीशीलशालिनश्च प्रेक्ष्य कुलमदो न कर्त्तव्यः । कुशीलस्य सुशीलस्य वा कुलेन किम् ? एवं विदंश्च सुधीः कुलमदं न विदध्यात्। तथा देवेन्द्रस्य त्रिभुवनैश्वर्यसम्पदं श्रुत्वा पुरादीनामैश्वर्ये कीदृशो मदः ? ऐश्वर्यं हि कुशीलस्त्रीव गुणवन्तमपि त्यजति, दोषवन्तमपि श्रयतीति न तद्विवेकिनां मदाय ।
महाबलोऽपि रोगादिभि: क्षणादेवाऽबलः क्रियत इत्यनित्यतया बलमदोऽपि पुंसां न युक्तम् । बलवन्तोऽपि वृद्धत्वे मृत्यौ कर्मफलभोगे चाऽबला एवेति बलमदो मुधैव । रूपमपि जरा-रुजादिना चयाऽपचयावाप्नोतीति रूपमदोऽपि न कार्यः । सनत्कुमारस्याऽपि रूपक्षयं भावि श्रुत्वा को विवेकी स्वप्नेऽपि रूपमदं कुर्यात् ? ऋषभप्रभोर्वीरजिनस्य च तपोनिष्ठां श्रुत्वा स्वकीये स्वल्पतपसि को मदमाश्रयेत् ? येन तपसा कर्माणि तरसा त्रट्यन्ति, तेनैव मदलिप्तेन तानि वर्धन्ते । तथाऽन्यैराचार्लीलया रचितानि शास्त्राणि किञ्चिद् ज्ञात्वा सर्वज्ञोऽस्मीति मदवान् स्वकीयाङ्गान्येव खादति । तथा गणधरादीनां निर्माणधारणे श्रुत्वा कः सकर्णः श्रुतमदं श्रयेत ?
दोषप्रसारको गुणनाशकश्च मानो मार्दवैर्दूरीकरणीयः । औद्धत्यनिषेधरूपा मृदुता मार्दवम् । मानश्चौद्धत्यमेव । तस्माद् मार्दवेन मानं
५४
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः जयेत् । मानाद् बद्धो हि बाहुबलिर्दिवाद् क्षणाद् मुक्त्वा सद्यः केवलं प्राप । तत: सर्वत्र मार्दवं कुर्यात्, पूज्येषु तु विशेषतः कुर्यात् । येन पूज्यपूजाव्यतिक्रमपापाद् विमुच्यते । चक्रवर्त्यपि विरतो मानच्छेदाय मार्दवमाश्रित्य वैरिणामपि गृहे भिक्षार्थं याति, रङ्कसाधवेऽपि नमस्यति, चिरं वरिवस्यति च । एवं मानदोषमशेषतो ज्ञात्वा तन्निरासाय धीमान् मार्दवमाश्रयेत् ।
माया चाऽसत्यमाता, शीलवृक्षस्य परशुरविद्याया जन्मभूमिर्दुर्गतिकारणं च । कुटिला बकवृत्तयः पापा मायिनो भुवनं वञ्चयमानाः स्वमेव वञ्चयन्ते । राजानो हि कूटेन षाड्गुण्यस्य सन्धिविग्रहादेः प्रयोगेणाऽर्थलोभाच्छलाद् विश्वस्तघातनादखिलं जगद् वञ्चयन्ते । तथा द्विजास्तिलकैर्मुद्रया मन्त्रैर्दीनताप्रदर्शनेन चाऽन्तःशून्या बहिःसारा जनं वञ्चयन्ति । पाखण्डाश्व जटादिधारणैः कृत्वा मुग्धं श्राद्धं वञ्चयन्ते । अननुरक्ताभिर्वेश्याभिश्च भाव-हावादिभिः कृत्वा जगद् वञ्च्यते । द्यूतकारैश्व कूटशपथादिभिर्धनवन्तः प्रतार्यन्ते । पितृ-पुत्रादयोऽपि माययाऽन्योन्यवञ्चका भवन्ति ।
लोभिनो निर्दया बन्धाद्याश्च प्रमादिनमहर्निशं छलयन्ति । शिल्पिनश्चाऽलीकशपथैः साधुवञ्चनं कुर्वते । व्यन्तरादयोऽपि प्रमादिनं बहविधैच्छलैर्बाधन्ते । मत्स्यादयोऽपि धीवरैर्जालहस्तैर्मायया बध्यन्ते । व्याधैश्च मृगादयो मायया बध्यन्ते विनाश्यन्ते च । पक्षिणोऽपि मायया बध्यन्ते। तदेवं परवञ्चकतातत्परा: स्वस्वधर्मं सद्गतिं च नाशयति । माया हि तिर्यग्योने/जं मोक्षान्तरायो विश्वासनाशिनी विवेकिभिहेयैव । मल्लिनाथोऽपि पूर्वभवे स्वल्पां मायां कृत्वा स्त्रीभावमुपयास्यति । तस्माज्जगद्द्रोहकरी मायामार्जवेन जयेत् । आर्जवं हि मुक्तिपुर्याः सरलः पन्थाः । आर्जविनो हि लोके प्रीतिकारणं भवन्ति । आर्जववतां भविनामपि मुक्तिसुखं स्वसम्वेद्यमेवाऽस्ति । विद्यायामधिगतायामप्याजवं धन्यानामेव जायते । ऋज्वालोचनया ह्यशेषमपि कर्म नश्यति ।

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75