Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 03
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
चतुर्थं पर्व पञ्चमः सर्गः
४९
भोजनादेव कार्यसाधको भवति" । एवं पित्रा समादिष्टो भुक्त्वा भूयः पितुः सदनं प्रविशन् द्वारस्थितयैक्या जनन्याऽग्रे भूत्वा सकरुणं व्यज्ञपि"कुमार ! परित्रायस्व, परित्रायस्व । जीवत्यपि महाराजे देवीदं दुर्व्यवस्यति । तदाकर्ण्य सम्भ्रान्तो मातुरालयं गत्वा "सर्वं कोशसर्वस्वं सप्तक्षेत्र्यामर्प्यताम् । महापथप्रस्थितानां हीदं प्रथमं पाथेयम् । पत्युर्विपत्तौ नाऽहं मनागपि वैधव्यदुःखसहा, अहं तदग्र एव यास्यामि, अनलो द्रुतं सज्यताम् " एवं ब्रुवाणां मातरं दृष्ट्वा समुपेत्य नत्वोवाच - "मातस्त्वमपि मां मन्दभाग्यं किं त्यजसि ? मम दैवमेव विरुद्धं यद्देव्यैवं प्रचक्रमे ।
तदाऽम्मादेव्युवाच - "विष्णो ! तज्ज्ञैः सम्यक् परीक्षितः । अयं रोगस्त्वत्तातस्य प्राणहर उपस्थितः । अहं विधवेत्यक्षराणि क्षणमपि श्रोतुं न क्षमा । ततस्त्वत्पितुरग्रतः कौसुम्भधारिणी यास्यामि । मम जन्म पत्या, पञ्चमेनाऽर्धचक्रिणा त्वया पुत्रेण च कृतार्थमभवत् । पत्युर्विपत्तौ मत्प्राणाः स्वयमेव यास्यन्ति । तानग्नौ प्रविश्य त्यक्ष्यामि । यथा मे हीनसत्त्वता मा भूत् । त्वं कुलाचारमाचरन्त्या मे अन्तरायो मा भूः । त्वं सुदर्शनेन समं नन्द" । एवमुक्त्वा साऽनलं प्रवेष्टुमचलत् । पुरुषसिंह्श्च दुःखानुबन्धिभिर्दुःखैः श्लथाङ्गः पितुः पार्श्वं गत्वा स्वां मातरं स्मरन् पितरं चाऽऽतुरं पश्यन् प्रतीकारासहो भुवि पपात ।
दाहज्वरार्तोऽपि राजा धैर्यमाश्रयन् बभाषे - "स्वकुलानुचितं कार्यं तव कुतः ? धैर्यं धेहि" । एवं पुरुषसिंहमाश्वास्य शिवाशयः शिवो नृपः सायं कालधर्मं ययौ । तच्छ्रुत्वा च मूच्छितः पृथिव्यां पतितः शीतोपचारैर्लब्धसंज्ञो विलपन् कथञ्चिद् धैर्यमाधाय पितुर्वह्निसंस्कारं विधाय निवापादि विधाय च स्वपर्षदि निषद्य पितुर्मृत्युसूचकं पत्रं सुदर्शनाय प्राहिणोत् । बलभद्रोऽपि तं प्रान्तभूपतिं साधयित्वा लेखेन दुःखार्त्तस्त्वरमाण: समागत्य भ्रात्रा सह मिलितवान् । ततो द्वावपि च चिरं विलपन्तौ गोत्रवृद्धैः प्रबोधितौ धैर्यमापतुः ।
त्रिषष्टिशलाकापुरुषचरितम् - गद्यात्मकसारोद्धारः अथ तदानीमेव प्रत्यर्धचक्रिणो निशुम्भस्य दूतः समागत्य तौ नत्वा विज्ञपयामास - "लोकमुखाच्छिवराजं धर्मराजपथप्रस्थितं श्रुत्वा तद्भक्ति स्मरन् सशोको निशुम्भो मां वाचिकमुपदिश्य युष्मत्पार्श्वे प्राहिणोत् । अद्याऽपि युवां बालौ द्विड्भिर्मा परिभूतामितीह मामुपेत्य निरुपद्रवं तिष्ठतम् । युष्मत्पितृकृतभक्तिपरवशत्वाद् मया युवां लघीयांसौ गरीयांसौ विधातव्यौ" ।
५०
तच्छ्रुत्वा चोत्पन्नेन क्रोधेन बाधितशोको भ्रुकुटिं कुर्वन् पुरुषसिंह उवाच-यदि स इत्थं वाचकं न दद्यात् तर्हि तस्य शोको यथार्थः स्यात् । बालकस्याऽपि सिंहस्य को देशं प्रयच्छति ? कः प्रवर्धयति तम् ? कुतो वा तस्य पराभवः ? वयं न तत्सापेक्षा:, दोष्मतां दोष्णोरपेक्षैव" । एवमुक्तस्तेन स दूतः ससंरम्भमुत्थाय रभसेन गत्वा निशुम्भाय सर्वं यथातथमाख्यत् ।
तदाकर्ण्य क्रुद्धो निशुम्भः ससैन्योऽश्वपुरं प्रति प्रतस्थे । तं च प्रस्थितं श्रुत्वा पुरुषसिंहोऽपि ससुदर्शनः सद्य एव सैन्यैः सह प्रतस्थे । अर्धमार्ग एव च तौ निशुम्भ-पुरुषसिंहौ मिथः प्रमथनोद्यौ समगंसताम् । मिथः सैन्ययोर्द्वयोर्युद्धे प्रवृत्ते च रथस्थितेन विष्णुना पूरितपाञ्चजन्यध्वनिना परसैन्यानि सर्वतश्चक्षुभुः । तेन च क्रुद्धो निशुम्भो योद्धुं विष्णुमुपतस्थे ।
तौ च विष्णु-प्रतिविष्णू धनुरास्फालयन्तो सिंहनादैर्विद्याधरीस्त्रासयन्तौ बाणैरवर्षताम् । एवं नानाऽऽयुधैर्युध्यमानयोस्तयोः प्रतिविष्णुर्वज्री वज्रमिव चक्रं सस्मार । स्मृतिमात्रोपस्थितं च चक्रं भ्रमयित्वा सर्वौजसा विष्णुं प्रत्यमुचत् । तच्चक्रतुम्बाग्रेण वक्षसि ताडितश्च पुरुषसिंहो मूच्छितो भुवि पतितः सुदर्शनेन गोशीर्षचन्दनैः सिक्तो लब्धसंज्ञः सहसोत्थाय तदेव चक्रं पाणिनाऽऽदाय भ्रमयित्वा तेन निशुम्भस्य प्रतिविष्णोः शिरश्चकर्त । तदानीं च विष्णोस्तस्य मूर्ध्नि दिवः पुष्पवृष्टिः पपात । तथैव यात्रया च भरतार्धं साधयित्वा

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75