Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 03
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
चतुर्थं पर्व चतुर्थः सर्गः
४५
तदेवं प्रभोः कौमारे सार्धानि सप्ताब्दलक्षाणि राज्ये पञ्चदशवर्षलक्षाणि व्रते सार्धसप्तवर्षलक्षाणीति त्रिंशद्वर्षलक्षाण्यायुः । विमलस्वामिनिर्वाणाच्च नवसु सागरोपमेषु व्यतीतेषु चाऽनन्तजित्स्वामिनिर्वृतिरभूत् ।
पुरुषोत्तमो वासुदेवश्च त्रिंशद्वर्षलक्षायुरत्युग्रकर्मभिस्तमः प्रभाख्यां षष्ठीं नरकावनिं जगाम । तस्य च कौमारेऽब्दसप्तशती, मण्डलित्वे त्रयोदशवर्षशतानि, दिग्जयेऽशीतिवर्षाणि, राज्ये चाऽब्दानामेकोनत्रिंशल्लक्षी सप्तनवति सहस्री नवशती विंशतिश्चाऽऽयुः ।
सुप्रभञ्च बलभद्रः पञ्चपञ्चाशद्वर्षलक्षायुः स्वभ्रातुरवसानेन दुःखितो विरक्तो मृगाङ्कुशमुनिपार्श्वे आत्तव्रतः केवलं प्राप्य सिद्धानन्तचतुष्कः परमं पदं प्राप ॥ ४ ॥
इति चतुर्थे पर्वणि श्रीअनन्तजित्स्वामि- पुरुषोत्तम सुप्रभमधुचरितवर्णनात्मकश्चतुर्थः सर्गः ॥ ४ ॥
पञ्चमः सर्गः श्रीधर्मनाथचरितम्
रत्नत्रयधरः श्रीमान् सुव्रता भानुनन्दनः । धर्मनाथः श्रियै भूयाद् धर्मचक्रप्रवर्त्तकः ॥ १ ॥
अथ धातकीखण्डद्वीपे प्राग्विदेहेषु भरतक्षेत्रे विशाले भद्रिलपुरे साम्राज्ये सत्यप्यनुत्सेकी विवेकी संसारवासेऽनास्थावान् दृढरथो नाम महीपतिरभवत् । स च भोगेषु विरक्तः शरीरेऽपि निःस्पृहः प्राज्यं राज्यं त्यक्त्वा विमलवाहनगुरोश्चारित्रमुपाददे । तथा समतां धारयन्, परीषहान् सहमानो, दुस्तपं तपस्तप्त्वा विषयदूषितमात्मानं पावयित्वाऽर्हद्भक्त्यादिभिः स्थानकैस्तीर्थकृन्नामकर्मोपार्ण्य काले समाहितो ऽनशनेन विपद्य वैजयन्ताख्ये विमाने महर्द्धिकः सुरोऽभवत् ।
इतश्च जम्बूद्वीपे भारते वर्षे सर्वतः समृद्धे रत्नपुरे पुरे तेजसा भानुमानिव गुणरत्नखानिः सार्वभौमो भानुर्नाम नृपो बभूव । तस्य च पतिभक्तिपरायणा पतिव्रताशिरोमणिः शीलादिगुणसम्पन्ना सुव्रतानाम्नी भार्याऽऽसीत् । तस्याः कुक्षौ च वैशाखशुक्लसप्तम्यां पुष्यस्थे चन्द्रे दृढरथजीवो निजमायुः पूरयित्वा वैजयन्ताच्च्युत्वाऽवातरत् । तदानीं च सा सुव्रतादेवी निशाशेषे सुखसुप्ता तीर्थकृज्जन्मसूचकान् गजादीन् महास्वप्नांश्चतुर्दश दृष्टवती । माघशुक्लतृतीयायां पुष्यस्थे चन्द्रे च स्वर्णवर्णं वज्रलाञ्छनं सुतं सुखमसूत ।
ततः षट्पञ्चाशद्दिक्कुमार्यश्च भोगङ्करादयस्तत्कालमेत्य स्वामिनः स्वामिमातुश्च सूतिकर्माणि यथाविधि चक्रुः । शक्रश्च समुपेत्य प्रभुं नीत्वा

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75