Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 03
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
चतुर्थ पर्व-पञ्चमः सर्गः मेरावतिपाण्डुकम्बलायां रत्नसिंहासने देवेन्द्रैर्देवैश्च सह यथाविधि स्नात्रादिकं विधाय स्तुत्वा पुनः प्रभमादाय सव्रतादेव्याः पार्वे यथास्थिति मुक्त्वा निजं धाम जगाम । प्रातश्च भाननपः समहोत्सवं "गर्भस्थेऽस्मिन् मातुर्धर्मविधौ दोहदोऽभू"दिति प्रभोधर्म इत्याख्यामकार्षीत् । ____ अथ प्रभुर्देवकुमारैः सह क्रीडन् शैशवमतीत्य पञ्चचत्वारिंशद्धनून्नतो यौवनं प्राप्तः पित्रोरुपरोधाद् दारपरिग्रहं चक्रे । जन्मतः सार्धे वर्षलक्षद्वये ऽतीते पित्रनुरोधतो राज्यभारमुपादाय वर्षाणां पञ्चलक्षाणि यावद् वसुधां पालयित्वा दीक्षोत्सुको लोकान्तिकामरैः प्रार्थितो वार्षिकदानं प्रददौ । देवेन्द्रैः कृतदीक्षाभिषेको नागदत्ताख्यां शिबिकामारुह्य सुरादिभिरनुसृतो रम्यं वप्रकाञ्चनमुद्यानं प्रविश्य माघशुक्लत्रयोदश्यां पुष्यस्थे चन्द्रेऽपराह्ने कृतषष्ठो नृपसहस्रेण समं प्राव्राजीत् प्रभुः । द्वितीयेऽह्नि च सौमनसे पुरे धर्मसिंहनृपगृहे परमान्नेन पारणं चकार । ततः स्थानाद् महीं विहर्तुं प्रावृतत् ।
४८
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः कुक्षौ चतुर्महास्वप्नसूचितबलभद्रजन्मो पुरुषवृषभजीवः सहस्राराच्च्युत्वाऽवातरत् । पूर्णे काले च सा विजयादेवी सुखं सुतं सुषुवे। शिवनृपश्च शुभेऽह्नि समहोत्सवं तस्य जातकस्य सुदर्शनत्वात् सुदर्शन इत्याख्यामकार्षीत् । विकटजीवोऽपीशानकल्पाच्च्युत्वा सप्तमहास्वप्नाख्यातविष्णुजन्माऽम्मकोदरे समवातरत् । साऽम्मकादेव्यपि सम्पूर्णे समये कृष्णवर्णं पूर्णलक्षणं सुतमसूत । शिवनृपोऽपि तस्य "एष पुरुषेषु पौरुषेण सिंह इवे"ति तस्य पुरुषसिंह इत्याख्यामकार्षीत् । धात्रीभिाल्यमानौ च तौ ताल-गरुडाङ्कौ नील-पीताम्बरौ परस्परं क्रीडन्तौ क्रमाद् वृद्धिमीयतुः । उपाध्यायं च साक्षिणं कृत्वा सर्वाः कला जगृहतुः । एवं क्रमेण च तौ कवचहरौ जातौ ।
अथाऽन्यदा कस्यचिदविनीतस्य सीमभूपतेः साधनाय शिवो भूपो बलभद्रं सुदर्शनं प्रेषीत् । पुरुषसिंहोऽपि च स्नेहात् कतिचित् प्रयाणानि तमनुययौ । ततो बलभद्रेण प्रत्यादिष्टो यूथभ्रष्टो द्वीप इव विष्णुः पुरुषसिंहस्तत्रैव कष्टमस्थात् । तत्र च विविधैर्विनोदैः कालं गमयति विष्णौ पितृसकाशादागतेन पुरुषेणाऽपितं लेखं मूाधाय तत्र 'शीघ्रमागच्छ वत्से'त्यक्षराणि वीक्ष्य स सम्भ्रान्तं 'मम पितुरम्बयोश्च कुशलं कच्चित्, किमर्थं मम शीघ्राह्वान'मिति च तं पुरुषमपृच्छत् । ततः पुरुषेण तेन 'दाहज्वरपीडितो देवस्त्वां सत्त्वरं समाह्वयती'त्युक्तो विषण्णः शीघ्रमेव ततो विष्णुः प्रस्थितः । द्वितीयेऽह्नि च स्वां नगरी प्राप्य वैद्यादिसंकुलं पितुः सदनं प्रविश्य पितुः पादौ प्रणम्य तद्दुःखदुःखितो जातः । शिवश्च सुतकरस्पर्शाद् बाढमाश्वस्तः पाणिना सुतं स्पृशन् “त्वं कथं खिन्नोऽसी"त्यपृच्छत् ।
तदा विष्णोः पुरुष उवाच-"देव ! तव दारुणामिमां दशां श्रुत्वा विष्णुः सद्यस्त्वां द्रष्टुं प्रस्थितोऽशन-पानादिकमकुर्वन्नेव द्वाभ्यां दिनाभ्यामत्राऽऽगतोऽस्ति" । तदाकर्ण्य द्विगणं दुःखभागवाच शिवः "त्वया किमनर्थान्तरं चक्रे? सपरिवारो गत्वा भोजनं कुरु । कायो
इतश्च जम्बूद्वीपेऽपरविदेहेष्वशोकायां पुरि पुरुषवृषभो नृपः सदा संसाराद् विरक्तस्तात्त्विकः सात्त्विकश्च प्रजापालमुनेः पादमूले पर्यव्राजीत् । दुस्तपं च तपस्तप्त्वा काले विपद्याऽष्टादशसागरोपमायुः सहस्त्रारे सुरोऽभवत् । तस्य देवस्याऽऽयुषः षोडशसागरोपमेषु गतेष्विहैव पोतनपुरे विकटो नाम नृपो राजसिंहनाम्ना नृपेण रणे पराजितो लज्जित: स्वसुताय राज्यं दत्त्वाऽतिभूतिमुनिपार्वे व्रतमाददे । तीव्र तपस्तप्त्वा "भवान्तरे राजसिंहोच्छेदाय भवेय"मिति कृतनिदान: कालयोगाद् विपद्य द्विसागरोपमायुद्वितीये कल्पे सुरोऽभवत् सः । राजसिंहनृपश्चाऽपि चिरं भवं भ्रान्त्वा भरते हरिपुरे कृष्णवर्णः पञ्चचत्वारिंशद् धनुरुत्तुङ्गो दशवत्सरलक्षायुरुग्रशासनोऽपाग्भरतार्धशास्ता निशुम्भो नाम नृपोऽर्धचक्री प्रतिविष्णुरजायत ।
अत्रैव भरतेऽश्वपुरनगरे शिवैकास्पदस्य शिवनामनृपस्य कीर्तिश्रियाविव मूर्त्तिमत्यौ विजया-उम्मके पत्न्यावभूताम् । तत्र विजयायाः

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75