Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 03
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 28
________________ चतुर्थ पर्व-चतुर्थः सर्गः घातिकर्मक्षयादुत्पन्नकेवल: सयोगिकेवली । योगानां च क्षयेऽयोगिकेवली, इति जीवतत्त्वम् । अजीवाः पुनर्धर्मा-ऽधर्मा-ऽऽकाश-काल-पुद्गलाः । जीवा अजीवाश्च द्रव्याणि । तत्र कालं विना सर्वे प्रदेशप्रचयात्मका: । जीवं विना च सर्वेऽचिद्रूपा अकर्त्तारश्च । तथा कालं विना सर्वेऽस्तिकायाः, पुद्गलं विना च सर्वेऽमूर्त्ताः । सर्वाणि च द्रव्याणि स्थित्युत्पादविगमात्मकानि । स्पर्श-रस-गन्ध-वर्णवन्तः पुद्गला अणव: स्कन्धाश्चेति द्विविधाः । तत्राऽबद्धा अणवः । बद्धाः स्कन्धा गन्ध-शब्द-स्थौल्यसौम्या-ऽऽकृतिमन्तोऽन्धकारा-ऽऽतपो-द्योत-भेदच्छायात्मकाश्च कर्मकाय-मनो-भाषाचेष्टितोच्छ्वासदायिनः सुख-दुःख-जीवितमृत्यूपग्रहकारिणश्च । धर्मा-ऽधर्मी नभश्च प्रत्येकमेकद्रव्याणि निष्क्रियाण्यमूर्त्तानि सर्वदा स्थिराणि च । तथा धर्मा-ऽधर्मावेकजीवपरिमाणसङ्ग्यातीतप्रदेशको लोकाकाशमभिव्याप्य व्यवस्थितौ । तत्र धर्मः स्वयं गन्तुं प्रवृत्तेषु जीवा-ऽजीवेषु यादसां पानीयमिव सर्वत: सहकारी। अधर्मश्चाऽध्वगानां छायेव स्वयं स्थिति प्रपन्नानां जीवानां पुद्गलानां च सहकारी । आकाशमवकाशदं सर्वगं स्वप्रतिष्ठं लोकाऽलोको व्याप्य स्थितमनन्तप्रदेशभाक् च । लोकाकाशप्रदेशस्था भिन्ना ये कालाणवस्ते भावानां परिवर्तकारकत्वाद् मुख्यकाल: । ज्योतिःशास्त्रे यस्य समयादिकं मानमुच्यते, स व्यावहारिकः कालः । भुवने पदार्थानां नवजीर्णादिरूपेण परिवृत्तिः कालचेष्टितम् । कालादेव च पदार्था वर्तमाना अतीतत्वं भाविनो वर्तमानतां च प्रतिपद्यन्ते इत्यजीवतत्त्वम् । मनो-वचन-कायानां कर्म आश्रवः । शुभस्य हेतुः शुभोऽशुभस्य हेतुरशुभश्च इत्याश्रवतत्त्वम् । सर्वेषामाश्रवाणां रोधहेतुः संवरः । भवहेतूनां कर्मणां जरणाद् निर्जरा, इति संवर-निजरे तत्त्वे । ४४ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः सकषायतया जीवानां कर्मयोग्यपुद्गलादानं बन्धो जीवास्वातन्त्र्यकारणम् । अस्य बन्धस्य च प्रकृति-स्थित्य-नुभाव-प्रदेशाश्चत्वारः प्रकाराः। प्रकृतिस्तु स्वभावः, सा ज्ञानावरणाद्यष्टधा, ज्ञानदृष्ट्यावरणे वेद्यं मोहनीयाऽऽयुषी नाम-गोत्रा-ऽन्तरायाश्चेति मूलप्रकृतयः । जघन्यत उत्कर्षतश्च कर्मणां कालनियमः स्थितिः । अनुभवो विपाकः कर्मणाम् । कर्मणामंशप्रकल्पनं प्रदेशः । मिथ्यादृष्टिरविरतिः प्रमादः क्रुधादयो योगेन सह पञ्च बन्धहेतवः, इति बन्धतत्त्वम् । बन्धहेतूनां कर्मणामभावे घातिकर्मक्षये केवलोत्पत्तिः, ततः सर्वकर्मक्षये मोक्षः । मोक्षसुखस्य च सुरादिसुखमनन्तभागोऽपि न, इति मोक्षतत्त्वम् । एवं तत्त्वानि जानानो जनो जगति जातुचिद् न निमज्जति" । प्रभोरनन्तजित एवं देशनया प्रबुद्धा बहवो जनाः प्राव्रजन् । पुरुषोत्तमः सम्यक्त्वं सुप्रभश्च श्रावकत्वं भेजे । तत: प्रथमपौरुष्यां व्यतीतायां प्रभौ देशनाविरते द्वितीयस्यां च पौरुष्यां व्यतीतायां यशसि गणधरे च देशनाविरते सति शक्रादयः प्रभुं नत्वा स्वं स्वं धाम ययुः । प्रभुरपि च सपरिवारो भव्यजन्तून् प्रबोधयन् महीं विजहार । तदानीं च प्रभोः परीवारे श्रमणानां षट्षष्टिसहस्राणि, साध्वीनां द्वाषष्टिसहस्राणि, चतुर्दशपूर्वभृतां नवशतानि, अवधिज्ञानिनां चतु:सहस्त्री त्रिशती च, मन:पर्यायिणां पञ्चचत्वारिंशच्छतानि, केवलज्ञानिनां पञ्च सहस्राणि, जातवैक्रियलब्धीनामष्टौ सहस्राणि, वादलब्धिमतां त्रिसहस्री द्वे शते च, श्रावकाणां लक्षद्वयं षष्टिशतानि च, श्राविकाणां चतुर्लक्षी चतुर्दशसहस्री चाऽभवन् । प्रभुश्च केवलात् त्र्यब्दोनानि सार्धानि सप्ताब्दलक्षाणि महीं विजहार । ततः स्वमोक्षकालं ज्ञात्वा सम्मेताद्रिमागत्य प्रभुः साधुसप्तसहस्रया सहाऽनशनं प्रपद्य मासान्ते चैत्रशुक्लपञ्चम्यां रेवतीस्थे चन्द्रे तैर्मुनिभिः समं मोक्षं प्रपेदे । शक्रादयश्चैत्य तदानीं सशिष्यस्य प्रभोनिर्वाणमहोत्सवं चक्रिरे ।


Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75