Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 03
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
चतुर्थं पर्व चतुर्थः सर्गः
४१
पान्थ इवाऽस्मिन् संसारकान्तारे बम्भ्रमीति । तानि च तत्त्वानि जीवाजीवा - ऽऽ श्रव-संवर- निर्जरा-बन्ध-मोक्षाश्चेति सप्त ।
तत्र मुक्त संसारिभेदतो जीवो द्विधा । ते च सर्वे ज्ञान-दर्शनलक्षणा अनादिनिधनाः । तत्र मुक्ता अनन्तदर्शन-ज्ञान-वीर्याऽऽनन्दमया जन्मादिक्लेशवर्जिता एकस्वभावाः । संसारिणो जीवाश्च स्थावर त्रसभेदतो द्विधा । द्वावपि च तौ पर्याप्ताऽपर्याप्तभेदतो द्विविधौ । पर्याप्तयश्चाऽऽहार - शरीरेन्द्रिय-प्राण- भाषा मनांसीति षट् । तत्रैकेन्द्रियाणां चतस्रः, विकलेन्द्रियाणां पञ्च पञ्चेन्द्रियाणां च षट् पर्याप्तयो यथाक्रमं भवन्ति । एकेन्द्रियाश्च भूम्यप्तेजो-वायु-वनस्पतयः स्थावराः। तत्र भूम्यप्तेजो- वायुकायाश्चत्वारः सूक्ष्मा बादराश्च भवन्ति । वनस्पतयश्च प्रत्येकाः साधारणाश्चेति द्विप्रकाराः । तत्र प्रत्येका बादराः, साधारणाः सूक्ष्मा बादराश्च । त्रसा द्वि-त्रि- चतुःपञ्चेन्द्रियभेदैश्चतुर्विधाः । तत्र पञ्चेन्द्रियाः संज्ञिनोऽसंज्ञिनश्चेति द्विप्रकाराः । तत्र सम्प्रवृत्तमनः प्राणाः शिक्षोपदेशालापज्ञाः संज्ञिनोऽन्येऽसंज्ञिनः । स्पर्शन- रसन-प्राण-चक्षुःश्रोत्राणि पञ्चेन्द्रियाणि यथाक्रमं स्पर्श-रस- गन्ध-रूप- शब्दगोचराणि ।
कृमयो द्वीन्द्रियाः, ते च शङ्ख- गण्डूपद - जलौक:- कपर्दकशुक्तिकाद्या विविधाः । यूका मत्कुण मत्कोट- लिक्षाद्यास्त्रीन्द्रियाः । पतङ्ग-मक्षिका-भृङ्ग-दंशाद्याश्चतुरिन्द्रियाः । तिर्यग्योनिभवाः शेषा जलस्थल- खचारिणो, नारका, मानवा देवाश्च सर्वे पञ्चेन्द्रियाः । मनोभाषा - काय - बलत्रयमिन्द्रियपञ्चकमायुरुच्छ्वासनिःश्वासमिति दश प्राणाः । तत्र सर्वजीवेषु देहायुरुच्छासेन्द्रियाणि द्वीन्द्रियाणां देहायुरुच्छ्वासाः स्पर्शन - रसनेन्द्रियं भाषा चेति षट्, त्रिन्द्रिय- चतुरिन्द्रियाऽसंज्ञिपञ्चेन्द्रियाणां च क्रमात् स्वस्वेन्द्रियवृद्ध्या सप्ताऽष्टौ नव च प्राणाः। संज्ञिनां तु मन:सहिता दशाऽपि प्राणाः ।
देव-नारका उपपातभवाः, गर्भजा जरायु-पोता - ऽण्डभवाः । शेषाः सम्मूर्च्छनोद्भवाः । नारकाः सम्मूच्छिनश्च जीवाः पापा नपुंसकाश्च ।
४२
त्रिषष्टिशलाकापुरुषचरितम् - गद्यात्मकसारोद्धारः देवा: स्त्री-पुंसवेदाः । परे वेदत्रयजुषः । सर्वे जीवा व्यवहारिणोऽव्यवहारिणश्चेति द्विविधाः । तत्र सूक्ष्मनिगोदा अव्यवहारिणोऽन्ये व्यवहारिणः । सचित्तोऽचित्तः सचित्ताचित्तः संवृतो विवृतः संवृतविवृतः, शीत उष्णः शीतोष्णश्चेति नवधा योनिरङ्गिनाम् । पृथिव्यप्तेजोवायुकायेषु प्रत्येकं सप्तलक्षा योनयः । प्रत्येकवनस्पतिकायेषु दशलक्षा:, अनन्तकायेषु साधारणवनस्पतिकायेषु चतुर्दशलक्षा योनयः । विकलेन्द्रियेषु षट्, मनुष्येषु चतुर्दश, नारक- तिर्यग्- देवेषु प्रत्येकं चतस्त्रश्च लक्षा योनयः । सङ्कलनया योनीनां चतुरुत्तराशीतिर्लक्षाणि ।
एकेन्द्रिया बादराः सूक्ष्माश्च, पञ्चेन्द्रियाः संज्ञिनोऽसंज्ञिनश्च, द्वि-त्रि- चतुरिन्द्रियाश्च सप्त पर्याप्ता सप्ताऽपर्याप्ताश्चेति चतुर्दशजीवस्थानानि । गतीन्द्रिय-काय - योग- वेद- ज्ञानानि, क्रोधादयः कषायाः, संयमा-ऽऽहार-दृग्-लेश्या-भव्य- सम्यक्त्व - संज्ञिनश्चतुर्दश मार्गणाः । मिथ्यादृष्टिः, सास्वादन - सम्यङ्मिथ्यादृशावविरतसम्यग्दृष्टिविरताविरतः, प्रमत्तोऽप्रमत्तो, निवृत्तिबादरोऽनिवृत्तिबादरः, सूक्ष्मसंपरायक, उपशान्तमोहः, क्षीणमोहः, सयोग्ययोगी चेति चतुर्दश गुणस्थानानि । मिथ्यादर्शनस्योदये मिथ्यादृष्टिः, एतस्य गुणस्थानकत्वं भद्रकत्वाद्यपेक्षया । मिथ्यात्वस्याऽनुदयेऽनन्तानुबन्ध्युदये सति सास्वादनसम्यग्दृष्टिरुत्कर्षात् षडावली: । सम्यक्त्व - मिथ्यात्वयोगाद् मुहूर्तं मिश्रदर्शनः । अप्रत्याख्यान कोदयेऽविरतसम्यग्दृष्टिः प्रत्याख्यानकोदये विरताविरतः । प्राप्तसंयमो यः प्रमाद्यति स प्रमत्तसंयतः । यः संयमी न प्रमाद्यति सोऽप्रमत्तसंयतः । उभावपि तौ परावृत्त्याऽऽन्तमौहूर्तिकौ स्याताम् । कर्मणामपूर्वस्थितिघातादिकरणादपूर्वकरणः स एव क्षपकः शमकश्च । यत्र मिथः परिणामा न निवर्तन्ते सोऽनिवृत्तिबादरः क्षपकः शमका । लोभाभिधसंपरायस्य सूक्ष्मकिट्टीकरणात् सूक्ष्मसंपरायः क्षपकः शमकश्च । मोहोपशमे उपशान्तमोहः । मोहस्य क्षये क्षीणमोहः ।

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75