Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 03
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
चतुर्थं पर्व-चतुर्थः सर्गः
३७ अथाऽन्यदा स विश्वस्ते समुद्रदत्ते शकुनी रत्नावलिमिव नन्दामपहत्य निजनगरं जगाम । समुद्रदत्तश्च रक्षसेव बलिना छलिना च हृतां तां नन्दा प्रत्याहर्तुमसमर्थः परमं वैराग्यं प्राप्य श्रेयांसमुनिसन्निधौ दीक्षां प्रपद्याऽत्युग्रं तपः कुर्वन् 'अस्य तपसः प्रभावेण नन्दाहर्तुर्वधाय स्या'मिति कृतनिदानो विपद्य सहस्रारे सुरोऽभवत् । चण्डशासनोऽपि च कालक्रमाद् मृत्वाऽनेकयोनिषु भ्रान्त्वा भरतक्षेत्रे पृथ्वीपुरे विलासभूपतेर्गुणवती नाम्न्यां पत्न्यां मधुनामा सुतोऽभवत् । स च मधुस्तमालपुष्पच्छविस्त्रिंशद्वर्षलक्षायुः पञ्चाशद्धनुरुत्तुङ्गो महाबाहुर्महावीर्यः पूर्वेषां शस्त्राशस्त्रिकथां श्रुत्वा प्रतिमल्लमप्राप्नुवन् त्रिखण्डं भरतवर्षाधं लीलया जित्वा चतुर्थः प्रत्यर्धचक्री बभूव । तथाऽसमानपराक्रमो वैरिश्रीभोगलम्पटः कैटभो नाम तस्य सोदरश्चाऽऽसीत् ।
तस्मिन्नेव समये च द्वारकायां गुणैः सोमसूर्यसमः सोमो नाम नृपो बभूव । तस्य च गुण-शीलसम्पन्ने सुदर्शना सीता च द्वे पत्न्यावभूताम् । तत्र सुदर्शनादेव्याः कुक्षौ सहस्रारान्महाबलजीवश्च्युत्वाऽवातरत् । तदा च सा रात्रिशेषे बलभद्रजन्मसूचकांश्चतुरो महास्वप्नान् दृष्टवती । पूर्णे समये च श्वेतवर्णं सुतं सुखमसूत । सोमनृपश्च याचकेभ्यो धनं प्रयच्छन् समहोत्सवं तस्य सुप्रभ इति नामाऽकरोत् । सीतादेव्याः कुक्षौ च पूर्णायुः समुद्रदत्तजीवः सहस्राराच्च्युत्वाऽवातरत् । तदानीं च सा सुखसुप्ता रात्रिशेषे विष्णुजन्मसूचकान् सप्त महास्वप्नान् दृष्टवती । सम्पूर्णे च समये श्यामवर्ण सर्वलक्षणलक्षितं तनयं जनयामास । तस्य च चतुर्थस्य वासुदेवस्य सोमनृपः समहोत्सवं पुरुषोत्तम इति नामाऽकरोत् ।
नील-पीताम्बरौ तालगरुड-ध्वजौ महाभुजौ तौ सुप्रभपुरुषोत्तमौ प्रीत्या युगलिकाविव सहचरावभाताम् । पूर्वजन्मप्रभावतश्च तावाचार्य निमित्तीकृत्य सर्वाः कला जगृहतुः । श्रीलीलावने महापराक्रमौ
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः तौ क्रमेणाऽङ्गपावनं यौवनं प्रपेदाते । देवैश्च तयोर्बलभद्रस्य हलादीनि वासुदेवस्य च शामदीनि रत्नानि ददिरे ।
___ अथ कलहकौतुकी नारदो महाबलौ तौ सुप्रभ-पुरुषोत्तमौ दृष्ट्वोत्पत्य प्रतिविष्णोर्मधोर्धाम जगाम । तं च पूजयित्वा नमस्कृत्य स्वागतादि विधाय मधुरुवाच-"दिष्ट्याऽद्य नो दृष्टिपथेऽसि, भरतार्धभूभुजो मागधेशाद्याः सर्वेऽपि मदीयाः किङ्कराः । तद्येन वस्तुना देशेन वा तव यत् प्रयोजनं, तद् ब्रूहि, यथा निःशङ्क ते यच्छामि"। ततो नारदोऽब्रवीत्-"भरतार्धेश ! क्रीडयाऽत्राऽहमागमम् । न मे किमपि प्रयोजनमस्ति । किन्तु त्वं मुधैव विकत्थसे, बन्दिना स्तुतिन क्वचित् सर्वाऽपि यथार्था भवति । अर्थलोभादर्थिजनेन स्तूयमानेन धीमता लज्जितव्यं, न तु प्रत्येतव्यम् । वसुन्धरा हि बहुरत्ना, यतोऽत्र बलिभ्योऽपि बलितमा, महद्भयोऽपि महत्तमा दृश्यन्ते" ।
तच्छ्रुत्वाऽन्तःकुपितो मधुर्नारदं प्रत्यभाषत-"अत्र भरतार्धे गङ्गात: का महती नदी ? वैताढ्यात् को महानद्रिः ? कच मत्तो बलाधिकः? यं बलीयांसं मन्यसे, तमाख्याहि, येन क्षणात् तबलं ते दर्शयामि । कि केनाऽपि प्रमत्तेनाऽद्याऽवज्ञातोऽसि, येन तस्याऽद्य स्तुतिव्याजेन वधं विधित्ससि ?"
ततो नारद उवाच-"नाऽहं कस्याऽपि प्रमत्तस्य पार्श्व गच्छामि, तन्मे कथं तदवज्ञा स्यात् ? यदद्य निजपर्षदि भरतार्धेश्वरोऽस्मीत्यवादीस्तद् भूयो मा वादीः, यतस्तत् ते हसाय भवेत् । किं त्वया द्वारकायां सोमनृपस्य तनयौ सुप्रभ-पुरुषोत्तमौ जनश्रुत्याऽपि न श्रुतौ ? ताभ्यां महाबाहुबलाभ्यामधिष्ठितेऽत्र भरतेऽज्ञानात् कथं मदान्ध इव गर्जसि ?" तच्छ्रुत्वाऽत्यन्तं कुपितो मधुरुवाच-"यदि तव वचः सत्यं, तर्हि सोऽद्यैव रणं भवानिव द्रष्टुं निमन्त्र्यते मया । त्वं तैः शून्यं द्वारकाराज्यं पश्य" ।

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75