Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 03
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
३६
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः ययौ । पित्रा च प्रभोः “अस्मिन् गर्भस्थेऽनन्तं परबलं जित"मिति तस्याऽनन्तजिदिति नाम चक्रे ।
प्रभुश्च निजागुष्ठसुधां पिबन् वर्धमानः शैशवं व्यतीत्य पञ्चाशद् धनुरुत्तुङ्गो यौवनं प्रपद्य पित्राज्ञया दारपरिग्रहं कृत्वा जन्मत: सार्धसप्तलक्षेषु वर्षेषु गतेषु पित्रनुरोधेन राज्यभारमुपाददे । तथा पञ्चदशवर्षलक्षान् यावद् वसुन्धरां पालयित्वा दीक्षोत्सुको लोकान्तिकामरैः प्रार्थितः शक्राज्ञप्तकुबेरप्रेरितजृम्भकसुरैः पूर्यमाणवित्तो वार्षिकदानं प्रददौ प्रभुः । सुरादिभिः कृतदीक्षाभिषेकः सागरदत्ताख्यां शिबिकामारुह्य सुरासुरादिभिरन्वीयमानः सहस्राम्रवणं प्राप्य कृतषष्ठो वैशाखकृष्णचतुर्दश्यां रेवतीस्थे चन्द्रे नृपसहस्रेण समं प्राव्राजीत् । इन्द्रादयश्च स्वामिनं नत्वा स्वं स्वं स्थानं ययुः । प्रभुश्च द्वितीयदिवसे वर्धमानपुरे विजयनृपगृहे परमान्नेन पारणं विधाय छद्मस्थः परीषहान् सहमानो विजहार ।
चतुर्थः सर्गः
श्रीअनन्तजिनचरितम् तत्त्वार्थबोधने दक्षः सुयशःसिंहसेनभूः । सिद्धानन्तचतुष्को यो जिनोऽनन्तः श्रियेऽस्तु सः ॥ १ ॥
अथ धातकीखण्डे प्राग्विदेहेष्वैरावताख्ये विजयेऽरिष्टनाम्न्यां नगयाँ द्विषन्तपः समस्तपृथिवीशासको मोक्षश्रीसाधनोत्सुको विषयविरक्तः पद्मरथो नाम नृपो नीत्या प्रजाः पालयति स्म । सः कञ्चित्कालमतिवाह्य चित्तरक्षगुरोर्दीक्षामुपादायाऽर्हद्भक्त्यादिभिः स्थानकैस्तीर्थकृन्नामकर्मोपाये मृत्वा प्राणतकल्पस्य पुष्पोत्तरे सुरोऽभवत् ।
इतश्च जम्बूद्वीपे दक्षिणभरतार्धेऽयोध्यायां पुरि सिंहपराक्रमः सिंहसेनो नाम नृप आसीत् । तस्य च धर्मा-ऽर्थ-कामानविरोधेन सेवयतो धर्मवासभूमिः शीलसम्पन्ना सर्वाङ्गरम्या सुयशा नाम्नी भार्या बभूव । तस्याश्च कुक्षौ प्रकृष्टमायुः पूरयित्वा प्राणताच्च्युत्वा पद्मोत्तरजीवः श्रावणकृष्णसप्तम्यां रेवतीस्थे चन्द्रेऽवातरत् । तदानीं च सा तीर्थकृज्जन्मसूचकान् गजादींश्चतुर्दश महास्वप्नान् सुखसुप्ता निशाशेषे दृष्टवती । पूणे समये च वैशाखकृष्णत्रयोदश्यां रेवतीस्थे चन्द्रे सुवर्णवर्णं श्येनलाञ्छनं सुतं सुखं सुषुवे । ___ ततः षट्पञ्चाशद् दिक्कुमार्यः समेत्य तस्याऽर्हतो यथाविधि सूतिकर्म चक्रिरे । शक्रश्चोपेत्य प्रभुं मेरौ नीत्वा सर्वैरिन्द्रादिभिः सह तत्र यथाविधि स्नात्रं विधाय स्तुत्वा पुनः प्रभुं नीत्वा सुयशोदेव्या: पार्वे मुक्त्वा नन्दीश्वरे शाश्वतार्हत्प्रतिमाष्टाह्निकोत्सवविधानपूर्वकं स्वस्थानं
इतश्च जम्बूद्वीपे प्राग्विदेहेषु नन्दपुर्यां महाबलो नृपः संसारवासवैराग्यं मनसि धारयन् वृषभर्षिपादमूले गत्वा पञ्चमुष्टिकेशोत्पाटनपूर्वकं चारित्रं प्रतिपद्य चिरं पालयित्वा विपद्य सहस्रारेऽमरोऽभवत् ।
तथा जम्बूद्वीपे भरतक्षेत्रे कौशाम्बीनगर्यां समुद्रदत्तनामा नृप आसीत् । तस्य च रूपगुणसम्पन्ना नन्दानाम्नी भार्याऽऽसीत् । एकदा च तस्य गहे तन्मित्रं मलयभूनाथश्चण्डशासनः समाययौ । समुद्रदत्तश्च महत्या प्रीत्या सादरं सोदरमिव तं सपरिच्छदं निजसद्मन्यभोजयत् । स च चण्डशासनस्तत्र मृगाक्षी नयनानन्दकारिणी नन्दां दृष्ट्वा कामातॊ जातः । समुद्रदत्तगृहे कृतवासश्च रोगात इव स्मरज्वरपीडितो निशास्वपि निद्रां न लेभे । मन्दमति: सोऽनुदिनं नन्दाप्राप्त्युपायांश्चिन्तयन् मित्रव्याजेन कञ्चित्कालं निनाय ।

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75