Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 03
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 22
________________ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः स्वयम्भूदिग्यात्राया निवृत्तो मागधेषु कोटिनरोत्पाट्यां शिलां वामेन बाहुनोत्पाट्य तथैव तां न्यस्य च कतिपयैदिनैभरकां प्राप्तवान् । तत्र च तस्य रुद्रेण भद्रेणाऽपरैश्च पार्थिवैरर्धचक्रित्वाभिषेकः समहोत्सवं चक्रे। चतुर्थ पर्व-तृतीयः सर्गः एवमपि सर्वमर्म्यतां, यथा ते दोषो न भविष्यति" । तच्छ्रुत्वा विष्णुः स्वयम्भूरूचे-"स्वामिभक्त्या भवानिदं वक्ति, तत् साधु । धीरीभूय निरीक्षध्वम् । तस्येदं कियदाच्छिन्नम् ? सर्वामेव महीमाच्छेत्स्यामः । एकं तमेव मेरकं हत्वाऽहं स्वयमर्धभारतं भोक्ष्ये । अन्यैः कुट्टितैः किम्?" स्वयम्भुवस्तदुक्त्या विस्मितो भीतश्च स सचिवो द्रुतं गत्वा मेरकाय यथातथं सर्वं समाचख्यौ । ततोऽतिक्रुद्धो मेरकः सैन्यभारैः पृथिवीं कम्पयन् प्रतस्थे । स्वयम्भूरपि च रुद्रेण भद्रेण च समन्वितः कन्दरात केसरीव द्वारकापुर्याः प्रतस्थे । राहुसौरी इव चैकत्र तौ रुद्र-मेरको समीयतुः । ततः सैन्ययोर्दारुणे युद्धे प्रवृत्ते स्वयम्भूवादितपाञ्चजन्यध्वनिना मेरकसैनिकाः सिंहबूत्कारेण वारणा इव सुः । ततो मेरकः सैन्यान् संस्थाप्य स्वयं स्वयम्भुवमभि रथमारुह्य डुढौके । 'किं मुधा सैन्यसंहारेणे'ति वदन्तौ च तौ मिथो धनुरास्फाल्य बाणवृष्ट्या बाणवृष्टि निराकुर्वाणौ भयङ्करौ ददृशाते । मेरकश्च बाणैरजय्यं स्वयम्भुवं मत्वा गदादिष्वस्त्रेषु स्वयम्भुवा प्रत्यस्त्रैर्भस्मीकृतेषु रणपारं जिगमिषुश्चक्रं सस्मार । चक्रं च तस्य पाणावपतत् । ततो मेरको जगाद-"एष ते शीर्ष छेत्स्यामि, अधुनाऽपि गच्छ गच्छ” । ततः स्वयम्भुवा "मुक्त्वाऽपि चक्रं त्वया नष्टव्यमित्यद्याऽपि नश्यताम्, अथवा चक्रं मुञ्च, तबलमपि दृश्यतामित्युक्तो मेरकश्चक्रं व्योम्नि भ्रमयित्वा मुमोच । ततस्तच्चक्रतुम्बाग्रेणोरसि ताडित: स्वयम्भूर्मूच्छितः स्यन्दनोत्सङ्गे पपात । क्षणाच्च लब्धसंज्ञस्तिष्ठ तिष्ठेत्यरं वदन्नुत्थाय तदेव पार्श्वस्थं चक्रमादाय भ्रमयित्वा च मुमोच, मेरकस्य शीर्षं च लीलया चकर्त्त । तदैव च स्वयम्भुव उपरिष्टाद् दिव: पुष्पवृष्टिः पृथिवीपृष्ठे मेरकस्य कबन्धश्चाऽपतत् । तदैव च मेरकायत्तै पैः स्वयम्भूः शिश्रिये । ततो दक्षिणपाणिस्थं चक्रं दधद् भरतार्धं दक्षिणं साधयित्वा इतश्च वर्षद्वितयं छद्मस्थो विहृत्य विमलप्रभुर्दीक्षोपवनं सहस्राम्रवणमुपेतवान् । तत्र च जम्बूतले प्रभोरपूर्वकरणक्रमात् क्षपक श्रेण्यारूढस्य घातिकर्माणि तुत्रुटुः । पौषस्य सितषष्ठ्यामुत्तरभाद्रपदानक्षत्रे च प्रभोः षष्ठेन तपसा केवलज्ञानमुदभूत् । तत: प्रभुदिव्ये समवसरणे देशनां विदधे । प्रभोश्च मन्दरादय: सप्तपञ्चाशद् गणधरा अभूवन् । तत्तीर्थे च समुत्पन्ने श्वेतवर्णो मयूरवाहनो दक्षिणैर्बाहुभिः फलचक्रेषु-खड्ग-पाशा-ऽक्षसूत्रधरो वामैश्च नकुल-चक्र-कोदण्डफलकांशुका-ऽभयधरः षण्मुखाख्यो यक्षः, हरितालवर्णा पद्मारूढा दक्षिणाभ्यां बाहुभ्यां बाण-पाशधरा वामाभ्यां च कोदण्ड-नागधरा विदिताख्या देवी च शासनदेवते प्रभोः सन्निहिते अभूताम् । ताभ्यां सहितश्च प्रभुस्तत: स्थानाद् महीं विजहार । अथ विहारेण प्रभुः पृथ्वी पुनानो द्वारवत्याः परिसरं प्राप्त: शक्राद्यैविहिते समवसरणे चैत्यप्रदक्षिणादिपूर्वकं रत्नसिंहासनमध्यतिष्ठत् । देवादयश्चाऽपि यथाद्वारं प्रविश्य यथास्थानमुपविविशुः । तदैव च द्वारकामागत्य राजपुरुषैः 'स्वामी समवसृत' इति निवेदित: स्वयम्भूरपि निवेदकेभ्यो रूप्यस्य सार्धद्वादशकोटी: पारितोषिकं प्रदाय भद्रेण सह समवसरणमेत्य प्रभुं प्रदक्षिणीकृत्य नत्वा चाऽनुशक्रं सभद्रः समुपाविशत् । ___ततः शक्रः स्तुत: प्रभुर्धर्मदेशनामारेभे-"अकामनिर्जरारूपात्पुण्यात् प्राणिनः कथञ्चन स्थावरत्वात् त्रसत्वं तिर्यक्त्वं वा प्रजायते । तत्र कर्मलाघवात् कथञ्चन मनुष्यत्वमार्यदेशः सर्वेन्द्रियपाटवमायुश्च प्राप्यते । पुण्यतः श्रद्धा-कथक-श्रवणेषु प्राप्तेष्वपि तत्त्वनिश्चयरूपं

Loading...

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75