Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 03
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 20
________________ चतुर्थ पर्व-द्वितीयः सर्गः २७ जातवैक्रियलब्धीनां दश सहस्राणि, वादलब्धिमतां सप्तचत्वारिंशच्छतानि, श्रावकाणामुभे लक्षे पञ्चदश सहस्राणि च, श्राविकाणां सषट्त्रिंशत्सहस्रिका चतुर्लक्षी च मासोनं वर्षलक्षाणां चतुःपञ्चाशतमा केवलाद् विहरतोऽभवन् । अथ मोक्षमासन्नं ज्ञात्वा प्रभुश्चम्पामागत्य षड्भिर्मुनिशतैः सममनशनं प्रपद्य मासान्ते अषाढशुक्लचतुर्दश्यामुत्तरभद्रपदास्थे चन्द्रे सशिष्यः शिवमगात् । तदेवं प्रभोः कौमारेऽष्टादशाब्दलक्षाणि, व्रते चतुष्पञ्चाशदब्दलक्षाणीति मिलित्वा द्वासप्तत्यब्दलक्षमायुः । श्रेयांसप्रभुनिर्वाणाच्च सागरेषु चतुष्पञ्चाशत्यतीतेषु वासुपूज्यप्रभोनिर्वृतिरभूत् । द्विपृष्ठो वासुदेवोऽपि च महारम्भपरिग्रहो यथेच्छं भोगान् भुञ्जानो विपद्य षष्ठी नरकावनिं जगाम । द्विपृष्ठस्य कौमारे पादोनवर्जितमब्दलक्षं, माण्डलिकत्वेऽपि तावदेव, दिग्विजयेऽब्दशतं, राज्ये सप्तत्यब्दलक्षी नवशताधिकवत्सरैकोनपञ्चाशत्सहस्री चाऽऽयुः । विजयो बलभद्रोऽपि च पादोनकोटिवर्षायुः स्वभ्रातृस्नेहमोहितः कथञ्चिदेकाकी स्थितो भवविरक्तो विजयसूरिपादान्ते गृहीतदीक्ष: काले विपद्य शिवं जगाम ॥ २ ॥ इति चतुर्थे पर्वणि श्रीवासुपूज्य-द्विपृष्ठ-विजय-तारकवर्णनात्मको द्वितीयः सर्गः ॥२॥ तृतीयः सर्गः श्रीविमलनाथचरितम् कृतवर्मसुतः श्रीमान् श्यामायाः कुक्षिजो जिनः । विमलो विमलज्ञान-महिमा श्रेयसेऽस्तु वः ॥१॥ अथ धातकीखण्डे प्राग्विदेहेषु भरताख्ये विजये महपुयाँ नगर्यां पद्मसेनो नाम नृपो बभूव । स च जैनशासनपरायणो भवनिविण्णः सर्वगुप्तसूरिमुपेत्य दीक्षां गृहीत्वा सम्यग् व्रतं परिपालयन् कतिपयैः स्थानकैस्तीर्थकृन्नामकर्मोपाय॑ चिरं तीव्र तपस्तप्त्वा विपद्य सहस्रारे महर्द्धिकोऽमरोऽभवत् । इतच जम्बूद्वीपे भरतक्षेत्रे चैत्यादिमण्डिते काम्पील्यपुरे कृतवर्मा नाम भूपतिरासीत् । तस्य च सर्वश्रीमत्याः पतिव्रतायाः श्यामानाम्न्याः पत्न्याः कुक्षौ स्वोत्कृष्टमायुः पूरयित्वा सहस्त्रारत: पद्मसेनजीवश्च्युत्वा वैशाखशुक्लद्वादश्यामुत्तरभाद्रपदास्थे चन्द्रेऽवातरत् । तदानीं च श्यामादेवी तीर्थकृज्जन्मसूचकांश्चतुर्दश महास्वप्नान् दृष्टवती । पूर्णे काले च माघशुक्लतृतीयायामुत्तरभाद्रपदास्थे चन्द्रे शूकरचिह्न स्वर्णवर्णं सुतं सुखं सुषुवे । ततश्च षट्पञ्चाशद् दिक्कुमार्यः समुपेत्य यथाविधि सूतिकर्म चक्रुः । शक्रय स्वामिनं यथाविधि मेलं नीत्वा तत्र सर्वैरिन्द्रादिभिः सह यथोपचारं स्नात्रादि विधाय स्तुत्वा यथागतं गत्वा श्यामादेवीपार्वे मुक्त्वा स्वं धाम जगाम । प्रातश्च कृतवर्माऽपि समहोत्सवं 'गर्भस्थे तस्मिन् जननी विमला जाते'ति तस्य प्रभोविमल इत्याख्यामकरोत् ।

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75