Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 03
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 19
________________ चतुर्थ पर्व-द्वितीयः सर्गः २५ इतश्च मासं छद्मस्थो विहृत्य वासुपूज्यः प्रभुर्दीक्षोद्यानमागमत् । पाटलाया अधो द्वितीयशुक्लध्यानान्ते घातिकर्मसु त्रुटितेषु माघशुक्लद्वितीयायां शतभिषग्गते चन्द्रेऽमलं केवलमाप्तः प्रभुः दिव्ये समवसरणे देशनां व्यधात् । प्रभोः सूक्ष्मादीनां गणभृतां षट्षष्टिरभवत् । तथा तत्तीर्थे समुत्पन्ने हंसवाहनः श्वेतवर्णो दक्षिणाभ्यां बाहुभ्यां मातुलिङ्ग-बाणधरो वामाभ्यां च नकुल-धनुर्धरः कुमाराख्यो यक्षः, श्यामवर्णाऽश्ववाहना दक्षिणाभ्यां भुजाभ्यां वरद-शक्तिधरा वामाभ्यां च पुष्प-गदाधरा चन्द्रा नाम्नी देवी च शासनदेवते प्रभोः सन्निहिते अभूताम् । अन्येधुश्च सपरिवारो विहरन् प्रभुरकाया उद्याने चत्वारिंशदधिकाष्टशतधनुरुच्चाशोकपादपशोभिते देवैः कृते समवसरणे प्राङ्मुखो यथाविधि रत्नसिंहासनमुपाविशत् । देवादयश्चाऽपि यथास्थानमुपविविशुः। द्विपृष्ठचाऽपि सार्धद्वादशरूप्यकोटीर्वृत्तान्तनिवेदकाय दत्त्वा विजयेनाऽन्वितः समवसरणं प्राप्य यथाविधि यथास्थानमासाञ्चक्रे । भक्त्या स्तुत्वा च तूष्णीं स्थिते शक्रे भगवान् देशनामारेभे । ___ "अमुष्मिन् संसारसागरे कथञ्चिद् मानुष्यं प्राप्य नरैर्धर्मपरैर्भवितव्यम् । स च धर्मो जिनोत्तमैराख्यातो दशधा संयमादिः । यं समालम्बमानस्तत्र न मञ्जेत् । धर्मप्रभावत एव हि कल्पद्रुमाद्या अभीप्सितं ददति । अपारे दुःखसागरेऽतिवत्सल एकबन्धुः सदा सविधवर्ती धर्मो देहिनं पाति । धर्मस्य प्रभावादेवाऽम्भोधिर्महीं नाऽऽप्लावयति, अम्बुदश्च वर्षति । किं बहुना ? सूर्याचन्द्रमसावपि धर्मस्य शासनादेव विश्वोपकारायोदयेते । असौ ह्यबन्धूनां बन्धुरमित्राणां मित्रमनाथानां नाथश्च । स हि देहिनो नरकादिपातात् पाति । निरुपम सर्वज्ञवैभवमपि यच्छति । तं दशविधं धर्मं च मिथ्यादृशो न जानन्ति । क्वाऽपि कस्याऽपि तथोक्तिरपि वाग्विलासमात्रम् । क्रियायां वचने च साम्यं जिनमतस्पृशामेव । त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः गोमेधादियज्ञकारिणां प्राणिघातिनां याज्ञिकानां कुतो धर्मः ? असद्भूतमश्रद्धेयं परस्परविरोधि च वस्तु प्रलपतां पुराणविधायिनां, परद्रव्यं जिघृक्षतां, मृदादिभिः शौचं कुर्वतां स्मार्त्तानाम्, ऋतुकालापगमे भ्रणहत्याविधायिनां, ब्रह्मचर्यापलापिनामदित्सतोऽपि यजमानात सर्वस्वं जिघृक्षतामार्थे प्राणान् त्यजतां ब्राह्मणानां, स्वल्पेऽप्यपराधे क्षणाच्छापं प्रयच्छतां लौकिकानामृषीणां च कुतः क्षमा-मार्दवादिधर्मलेश: ? अरक्त-द्विष्ट-मूढानां केवलज्ञानशालिनामर्हतामेव वचनं धर्मः । रागद्वेषदुष्टानां हि न सत्यवादिता, किन्तु वीतरागाणामर्हतामेव तत् । ____ इष्टापूर्तं कर्म कुर्वतां, पशुघातात् स्वर्गसौख्यमन्वेषयतां, ब्राह्मणभोजनैः पितृतृप्ति चिकीर्षतां, पञ्चस्वापत्सु पुनरुद्वाहकारिणां, क्षेत्रजाद्यपत्यवादिनां सदोषाणामपि स्त्रीणां रजसा शुद्धिवादिनां, श्रेयोबुद्ध्या छागमांसोपजीविनां, क्रत्वादिषु सुरापानविधायिनां, गवां स्पर्शतः शुचिमानिनां, जलादिस्नानमात्रेण पापशुद्धिवादिनां, वटादिवृक्ष पूजाविधायिनां, वह्नौ हवनेन देवप्रीणनवादिनां, जटादिधारिणाम्, अर्क-धत्तूरादिभिर्देवपूजाविधायिनां, गीत-नृत्यादिकुर्वताम्, असभ्यभाषापूर्वकं देवादीन् घ्नतां, व्रतभङ्गं विधाय दासत्वादिकमिच्छताम्, अनन्तकायकन्दाद्याशिनां, परिग्रहवतां, भक्ष्याभक्ष्यादिषु समात्मनां, कौलाचार्यान्तेवासिनामन्येषामपि च क्व धर्म: ? जैनेन्द्रस्याऽपि धर्मस्य यदत्राऽमुत्र वा फलं, तदानुषङ्गिकमेव, मुख्यं फलं तु मोक्ष एव" । एवं तां देशनां श्रुत्वा भूयांसो जनाः प्राव्रजन् । द्विपृष्ठः सम्यक्त्वं विजयश्च श्रावकत्वं प्राप । प्रथमपौरुष्यां व्यतीतायां प्रभौ देशनाविरते द्वितीयस्यां च पौरुष्यां पूर्णायां सूक्ष्माख्ये गणधरे देशनाविरते प्रभुस्ततोऽन्यत्र विजहार । शक्रादयश्च निजनिजं स्थानं जग्मुः । तदानीं च प्रभोः परिवारे श्रमणानां द्वासप्ततिसहस्राणि, साध्वीनां लक्षमेकं, पूविणां द्वे शते सहस्रं च, अवधिमतां सचतुःशता पञ्चसहस्री, मनःपर्ययिणामेकषष्टिः शतानि, केवलिनां षष्टिः शतानि,

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75