Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 03
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 18
________________ चतुर्थं पर्व-द्वितीयः सर्गः ... . २३ पादान्ते परिव्रज्यां गृहीत्वा दुस्तपं तपः कुर्व "न्नपरे भवे विन्ध्यशक्तेर्वधायाऽहं भूयास"मिति निदानमकरोत् । अन्ते चाऽनशनेन मृत्वा प्राणते सुरोऽभवत् । विन्ध्यशक्तिश्चाऽपि चिरं भवं भ्रान्त्वैकत्र जन्मनि जिनलिङ्गमुपादाय मृत्वा कल्पामरो भूत्वा च्युत्वा च विजयपुरे श्रीधरभूपतेः श्रीमत्यां पत्न्यां तारको नाम सप्ततिधनुरुत्तुङ्गः श्यामवर्णो द्विसप्तत्यब्दलक्षायुरधभरतस्वामी प्रतिविष्णुरभवत् । ___इतश्च सुराष्ट्रेषु द्वारकायां पुर्यां ब्रह्मनृपस्य सुभद्रोमे द्वे प्रिये अभूताम् । पवनवेगजीवश्चाऽनुत्तरतश्च्युत्वा सुभद्रायाः कुक्षाववातरत् । तदानीं च सुखसुप्ता सा बलभद्रजन्मसूचकान् महास्वप्नांश्चतुरो दृष्टवती । पूर्णे समये चोत्पन्नस्य श्वेतवर्णस्य पुत्रस्य ब्रह्मनृपो विजय इत्याख्यामकार्षीत् । स च धात्रीभिाल्यमानः स्ववपुःश्रिया सह वर्धमानः सर्वेषां मोदप्रदोऽभवत् । प्राणताच्च च्युत्वा पर्वतजीव उमादेव्याः कुक्षाववातरत् । तदानीं च सा विष्णुजन्मसूचकान् सप्त स्वप्नान् मुखे प्रविशतो दृष्टवती । पूर्णे समये च सा श्यामवर्ण सुतमसूत । ब्रह्मनृपश्चाऽऽनन्दितः समहोत्सवं तस्य द्विपृष्ठ इति नामाऽकरोत् । ततश्च यथासमयं तौ बलभद्र-वासुदेवौ कलागुरोर्गृहीतकलौ ताल-गरुडध्वजौ नील-पीताम्बरधरौ बालावपि तारकस्याऽऽज्ञां न मेनाते । अथ चरसकाशात सिद्धविद्याभ्यां शास्त्रनिपणाभ्यां ताभ्यां स्वाज्ञावमाननां श्रुत्वा कोपतरलस्तारकोऽभियानाय सेनान्यमादिशत् । तेन च स "स ब्रह्मनृपस्तव मित्रं, विना निमित्तं तं प्रति यात्रा नोचिता । अतस्तस्य कश्चिदपराध उद्भाव्यतां, दूतं प्रेष्य तस्य प्राणेभ्योऽपि प्रियाणि वस्तूनि याच्यन्ताम् । न चेत् प्रदास्यति; तहि सोऽनेनाऽपराधेन वध्यः । यदि दास्यति, तदा छलान्तरमन्वेषणीय"मित्येवं निवेदितस्तन्मन्त्रमभिनन्द्य स तारको ब्रह्मणे दूतं प्रेषयामास । त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः सोऽपि दूतः शीघ्रं गत्वा सदसि स्थितं विजय-द्विपृष्ठाभ्यामन्वितं ब्रह्मनृपमुपेत्याऽवदत्-"भरतार्धाधीश्वरस्तारकस्त्वामादिशति-यत् किञ्चिदुत्तमं गजरत्नादिकं, तद् मम कृते प्रेष्यम् । दक्षिणे भरतार्धे यत् किञ्चिदुत्तमं तत् तदीश्वरस्य ममैव, नाऽपरस्य" । ततश्च कुपितेन द्विपृष्ठेन "न स मम स्वामी, स एव तानि मह्यं प्रयच्छतु । इतोऽधुनैव गच्छ । त्वत्स्वामिनः शिरसा समं तानि गजरत्नादीनि ग्रहीतुमस्मांस्तत्र समागतानेव विद्धि" इत्येवं निर्भत्सितो दूतः कुपितस्त्वरितं गत्वा तारकाय न्यवेदयत् । तारकश्च श्रुतया तया वासुदेवगिरा क्रुद्धः सैन्यैः सहाऽभिगच्छन्नर्धमार्गमलङ्घिष्ट । तस्याऽग्रत एव द्विपष्ठोऽपि ब्रह्मविजयाभ्यां सह ससैन्यो रणायोत्सुकः समाययौ । तयोश्च महासंहारकारणे युद्धे सम्प्रवृत्ते द्विपृष्ठो रथारूढः पाञ्चजन्यं शङ्खमवादयत् । तद्ध्वनेश्च त्रस्तान् सैनिकान् दृष्ट्वा यथा कथञ्चित् तान् निवर्त्य रथमारुह्य तारको द्विपष्ठमभ्याजगाम । विजयेन हल-मसलधारिणाऽन्वीयमानो द्विपृष्ठश्चाऽपि तारकमुक्तानि बाण-गदादीन्यस्त्राणि प्रत्यस्वैश्चिच्छेद । ___ततश्च तारकोऽत्यन्तं क्रुद्धश्चक्रं नभसि भ्रमयित्वा द्विपृष्ठाय मुमोच । चक्रतुम्बाग्रघातेन च वक्षसि ताडितः क्षणं मूच्छितो रथे पतितो विजयेन वीजितः क्षणाल्लब्धसंज्ञ: समीपस्थं तच्चक्रं नीत्वा भ्रमयित्वा च द्विपष्ठः प्रतिविष्णवे तारकाय मुमोच । तच्चक्रं च तारकशिरच्छित्त्वा वासुदेवकरे पुनः समापतत् । ततश्च द्विपृष्ठो यात्रारम्भेण तेनैवाऽशेषं दक्षिणभरतार्धं साधयित्वा मागध-वरदामप्रभासाधीश्वरानपि वशगान् कृत्वा दिग्यात्राया निवृत्तः । तत्र स मागधेषु कोटिनरोत्पाट्यां महाशिलां वामेन बाहुनोत्पाट्य तां पुनर्यथास्थानं निधाय कतिपयैदिनैभरकां प्रपेदे । तत्र च ब्रह्मनृपेण विजयेनाऽखिलैर्नृपैश्च सिंहासनासीनस्य तस्याऽर्धचक्रित्वाभिषेकश्चक्रे । ३शिष.भा-३

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75