Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 03
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
चतुर्थं पर्व-द्वितीयः सर्गः जगाम । शुभेऽहनि च वसुपूज्योऽपि समहोत्सवं प्रभोर्वासुपूज्य इति नाम चक्रे।
प्रभुः स्वाङ्गुष्ठसुधां पिबन् वर्धमानो देवकुमारैः सह क्रीडन् शैशवमतीत्य यौवनं प्रपन्नः सर्वलक्षणलक्षित: सप्ततिधनुरुत्तुङ्गो जातः । "नृपकन्या: परिणीय राज्यं च गृहीत्वाऽस्मन्मनोरथान् पूरय, अहं व्रतग्रहणेच्छुरस्मी"ति पित्रा प्रार्थितः उवाच-"भवतामेतत्पुत्रप्रेमोचितं वच उचितमेव । परं संसारकान्तारे भ्रामं भ्रामं खिन्नोऽस्मि । तच्च छेत्तुमिच्छामि, कन्योद्वाहैरल"मिति । ततः खिन्नो वसुपूज्यः पुनर्जगौ"महास्वप्नैरेव 'भवसागरस्तीर्णस्त्वये'ति ज्ञातम् । तव दीक्षाग्रहणादिमहोत्सवाश्च भाविन एव । किन्तु भवानपि वृषभध्वजादिवद् विवाहादि कर्तुमर्हति" | ___ततो वासुपूज्य: प्रभुः पुनरुवाच-न कस्याऽपि केनाऽपि कर्म सदृशं, भोगफलानि हि कर्माणि भोगेनैव जीर्यन्ति । मम च भोगफलं कर्म नाऽवशिष्यते । भविष्यत्कालेऽपि च मल्लि-नेमि-पास्त्रियो जिना अकृतोद्वाहादिका एव मुक्तये प्रव्रजिष्यन्ति । श्रीवीरश्चरमाहँश्चेषद्भोग्येन कर्मणा कृतोद्वाहोऽकृतराज्य: प्रव्रजिष्यति सेत्स्यति च । अतो विवाहार्थं नाऽहमुपरोध्यः" । एवं पितरौ प्रबोध्य जन्मतोऽष्टादशसु वर्षलक्षेषु गतेषु दीक्षोद्यतो लोकान्तिकामरैः प्रार्थितो वार्षिकदानं प्रादत्त । शरैः कृतदीक्षाभिषेकः प्रभुः पृथिवीनाम्नी शिबिकामारुह्य वनोत्तमं प्राप्य कृतचतुर्थः पञ्चमुष्टिकेशोत्पाटनपूर्वकं फाल्गुनामावास्यायां शतभिषङ्नक्षत्रे राज्ञां षड्भिः शतैः सह प्राव्राजीत् । द्वितीयेऽह्नि च महापुरे सुनन्दनृपगृहे परमान्नेन पारणं विधाय पुर-ग्रामादिषु विहाराय प्रावर्त्तिष्ट ।
२२
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः ____ इतश्च पृथ्वीपुरे पुरि पवनवेगो नाम नृपः श्रवणसिंहसूरेतमादाय दुस्तपं तपस्तप्त्वा विपद्याऽनुत्तरं विमानं जगाम । तथा जम्बूद्वीपे दक्षिणभरतार्धे विन्ध्यपुरे विन्ध्यशक्तिर्नाम महापराक्रमी नृपो बभूव । एकदा च सभायामुपविष्टं सचिवादिभिः परिवृतं तं वेत्रिणा प्रवेशित: कश्चिच्चरो नमस्कृत्याऽग्रे समुपविश्य शनैर्व्यजिज्ञपत्-"देव ! दक्षिणभरतार्धे साकेतं नाम महापुरमस्ति । तत्र च पर्वतनाम्नो नृपस्य सर्वसामुद्रिकलक्षणलक्षिता गुणमञ्जरीनाम्नी वेश्याऽस्ति । सा च तवैव युज्यते । युवयोः स्वर्णमण्योरिवोचितो योगोऽस्तु । अचन्द्रया रजन्येव तां विना तव राज्येनाऽलम्" । तच्छ्रुत्वा च नृपो मन्त्रिणमुपपर्वतकं गुणमञ्जरी याचितुं प्रेषयामास । स च मन्त्री रंहसा साकेतपुरं प्राप्य पर्वतं नृपमुवाच-"विन्ध्यशक्तये गुणमञ्जरी देहि । यत: स तव बन्धुभूतो याचते" ।
तेन च कुपितः पर्वतोऽब्रवीत्-"गुणमञ्जरी कस्मा अपि न दातुमुत्सहे । सा हि मम प्राणेभ्योऽपि प्रिया । किं बहुना, दासीमपि तस्मै न दास्यामि । तेन स मित्रममित्रं वाऽस्तु । उत्तिष्ठ, गच्छ, यथातथं तस्मै वद । दूता हि यथावस्थितवादिनो भवन्ति" । ततः स मन्त्री समागत्य विन्ध्यशक्तये सर्वं पर्वतवृत्तान्तं कथयामास । तच्छ्रुत्वा चाऽतिक्रुद्धो विन्ध्यशक्तिश्चिरभवां मैत्री छित्त्वा पर्वतं प्रति चचाल । पर्वतोऽपि च तज्ज्ञात्वाऽभिमुखं ससैन्य आजगाम ।
ततो द्वयोरप्यग्रसैन्यानां दारुणे युद्धे प्रवृत्ते रथारूढः पर्वतो धनुरास्फालयन् समरायोत्थितो युगपदेव बाणवर्षेण परसैन्यं तिरोदधे । ततश्च स्वसैन्ये भग्ने कालरात्रिरिव परान् संहर्तुमुत्थितः पर्वतसैन्यैरसह्यो विन्ध्यशक्तिः पर्वतमपि निरस्त्रं निर्वीर्यं च चक्रे । ततश्च तेनाऽभिभूतः पर्वतः पश्चादनवलोकयन् पलायिष्ट ।
विन्ध्यशक्तिश्च तस्य सर्वस्वं गुणमञ्जरी च गृहीत्वा निवृत्तो विन्ध्यपुरं ययौ । रणभग्नः पर्वतश्च तदादि कष्टं स्थितः संभवाचार्य
१. अन्यत्र वासुपूज्य-पाश्वौं परिणीतौ इति वणितम् ।

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75