Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 03
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 15
________________ १८ चतुर्थं पर्व-प्रथमः सर्गः ... १७ ततः प्रथमपौरुष्यां पूर्णायां प्रभौ देशनाविरते द्वितीयस्यां च पूर्णायां गणधरे गोशुभे देशनाविरते सति प्रभुं प्रणम्य सर्वे सुरादयः स्वं स्वं स्थानं ययुः । प्रभुरपि तत: स्थानाद् भुवं विजहार । तदानीं च केवलात् प्रभृति द्विमासोनवर्षलक्षकविंशति महीं विहरतः प्रभोः परीवारे साधूनां चतुरशीतिसहस्राणि, साध्वीनां सहस्रत्रयसंयुतं लक्षमेकं, पूर्वभृतां त्रयोदश शतानि, अवधिमतां मनःपर्ययिणां च प्रत्येकं षट्सहस्री, केवलिनां सार्धा षट्सहस्री, जातवैक्रियलब्धीनामेकादशसहस्री, वादलब्धिमतां पञ्चसहस्री, श्रावकाणां लक्षद्वयं नवसप्ततिसहस्त्राणि च, श्राविकाणां च चत्वारि लक्षाण्यष्टचत्वारिंशत्सहस्राणि चाऽभवन् । अथ मोक्षकालं ज्ञात्वा प्रभुः सम्मेताद्रिमुपेत्य मुनिसहस्रेण सममनशनं प्रपद्य मासान्ते शैलेशीध्यानमास्थितः श्रावणकृष्णतृतीयायां घनिष्ठास्थे चन्द्रे सिद्धानन्तचतुष्कस्तैर्मुनिभिः समं परमं पदं प्राप । तदेवं प्रभोः कौमारे वर्षलक्षाणामेकविंशतिः, राज्ये वर्षाणां द्विचत्वारिंशल्लक्षाणि, व्रते वर्षलक्षाणामेकविंशतिरिति मिलित्वा चतुरशीतिवर्षलक्षाण्यायुः । श्रीशीतलनाथनिर्वाणाच्च षड्विंशतिसहस्राधिकवर्षषट्षष्टिलक्षैः सागरोपमशतेन चोनाया: सागरोपमकोटेर्व्यतिक्रमे श्रेयांसस्वामिनो निर्वाणगमनोत्सवो जज्ञे । वासवादयश्च भगवतो निर्वाणकल्याणकं यथाविधि यथोपचारं च विधाय स्वं स्वं धाम ययुः । त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः त्रिपृष्ठस्याऽन्तिके केऽपि गायना: समाययुः । ते च सुस्वरं गायन्तो वासुदेवस्य हृदयं जहुः । तेन च त्रिपृष्ठस्तान् गीतगुणेन सदा पार्श्वस्थान् चक्रे । ततोऽन्यदा रात्रौ त्रिपृष्ठे शय्यायां निषेदुषि तैर्गायनैस्तारस्वरेण गातुमारेभे । तद्गीताक्षिप्तहृदयश्च वासुदेव एकं शय्यापालम्-"अस्मासु निद्रायमाणेषु गायतोऽमून् गायनान् त्वं विसृजे"रित्यादिशत् । स शय्यापालश्च तथेति तद्वचः प्रतिपेदे । वासुदेवस्य च निद्राक्षणाल्लोचने मुद्रयामासतुः । शय्यापालश्च गीतलोभात् तान् न विसृजति स्म । ततः पश्चिमरात्रे प्रबुद्धो वासुदेवो गायनान् तथैव गायतः श्रुत्वा 'कि त्वयाऽमी गायना न विसृष्टा?' इति शय्यापालं पप्रच्छ । शय्यापालश्च 'प्रभो ! अमीषां गीतेन व्याक्षिप्तहृदय एतान् न व्यस्राक्षं, स्वामिशासनं व्यस्मार्षम्' इत्युवाच । तेन च प्रकुपितः प्रातः सभामध्यास्य रात्रिवृत्तान्तं स्मृत्वाऽऽरक्षपुरुषान् शय्यापालं प्रदर्श्य समादिशत्-"अमुष्य प्रियगीतस्य कर्णयोस्तप्तं त्रपु तामं च क्षिप्यताम् । यतः कर्णकृतोऽयं दोषः" । तेऽपि शय्यापालमेकान्ते नीत्वा तथा व्यधुः । शय्यापालश्च तया वेदनया पञ्चत्वं प्राप। वासुदेवश्च तेन दुर्विपाकं वेदनीयकर्माऽबध्नात् । तथा नित्यं विषयासक्तो, राज्यमुग्धः, स्वबाहुबलगर्वेण जगत् तृणाय गणयन्, प्राणातिपाते निःशङ्को, महारम्भपरिग्रहः, क्रूरेणाऽध्यवसायेन शीर्णसम्यक्त्वभूषणश्च नरकायुर्निबध्य चतुरशीतिवर्षलक्षाण्यायूंष्यतीत्य त्रिपृष्ठः सप्तमी नरकभूमि प्राप । स च पञ्चधन्वशतोन्नतस्तत्राऽऽवासे त्रयस्त्रिंशत्सागरोपमायुः कर्मणां फलमपश्यत् । तथा त्रिपृष्ठस्य कौमारे पञ्चविंशतिवर्षसहस्राणि, माण्डलिकत्वे च तावन्ति, दिग्विजये च वर्षसहस्रं, राज्ये चैकोनपञ्चाशत्सहस्रयुक् त्र्यशीतिवर्षलक्षीति मिलित्वा चतुरशीतिवर्षलक्षाण्यायुः । अथ त्रिपृष्ठोऽपि द्वात्रिंशतान्तःपुरस्त्रीसहस्रैः सुखं विलसन् कियदपि स्वायुरत्यवाहयत् । तत्र च तस्य स्वयम्प्रभायां ज्येष्ठः श्रीविजयः कनिष्ठो विजयश्च द्वौ सुतौ जज्ञाते । एकदा च

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75