Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 03
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 14
________________ चतुर्थं पर्व - प्रथमः सर्गः १५ अत्रान्तरे च नभसि देवैरूचे "भो भो नृपतयः ! मानं हयग्रीवपक्षपातं च विहाय भक्तितस्त्रिपृष्ठं शरणं यात, अयं त्रिखण्डभरतक्षेत्रावर्भर्ता प्रथमो वासुदेव इह समुदपद्यत" । तद्दिव्यां गिरं श्रुत्वा च सर्वे महीभुज उपेत्य शिरसा त्रिपृष्ठं नेमुः | अतः परं वयं त्वदीयाः किङ्करास्त्वदाज्ञानुरुपं करिष्याम इत्यूचुश्च । त्रपृष्ठोऽपि तानाश्वास्याऽनुशिष्य च सपरिच्छदः पोतनपुरं जगाम । पुनश्च पोतनपुरात् साग्रजस्त्रिपृष्ठः सप्तभिश्चक्राद्यै रत्नैर्वृतो निर्गतो मागधेशं वरदामेशं प्रभासेशं वैताढ्य श्रेणिद्वयगतान् विद्याधरांश्च वशगान् चकार । तथा ज्वलनजटिनः श्रेणिद्वयाधिपत्यं प्रदाय दक्षिणभरतार्धं साधयित्वा स्वपुरोन्मुखो दिग्यात्राया निवृत्तश्चक्रधरार्धसमृद्धया बाहुबलेन च शोभितः कतिभिः प्रयाणैर्मगधान् प्राप । तत्र च कोटिपुरुषोत्पाट्यां महाशिलां दृष्ट्वा वामेन भुजदण्डेन तामुत्पाट्यो - मूर्ध्वं नभस्तले छत्रायमाणामुद्धृत्य स्थितो जनैर्विस्मितैः सुष्ठु तुष्टुवे । ततस्तां यथास्थानं विमुच्य प्रस्थितः कतिभिर्दिनैः पोतनपुरं जगाम । तोरण-मञ्चाद्यलङ्कृतं च तत्पुरं गजारूढः प्रविवेश । ततः प्राजापत्यादिभिर्नृपैरन्यैश्च तस्याऽर्धचक्रित्वाभिषेको विदधे । **** इतश्च छद्मस्थतया द्वौ मासौ विहृत्य सहस्राम्रवणं प्राप्तस्य श्रेयांसस्य भगवतोऽशोकतरोर्मूले प्रतिमास्थितस्य द्वितीयशुक्लध्यानान्ते विनष्टेषु घातिकर्मसु माघकृष्णामावास्यायां श्रवणस्थे चन्द्रे कृतषष्ठस्यामलं केवलमुत्पन्नम् । तदा च देवैः कृते समवसरणे भगवतो देशनया प्रबुद्धा बहवो जना देशतः केचित् सर्वतश्च विरतिं जगृहुः । गोशुभाद्याः षट्सप्ततिर्गणधराश्च प्रभोस्त्रिपदीं प्राप्य द्वादशाङ्गीमसूत्रयन् । तत्तीर्थे च समुत्पन्ने त्रिनेत्र: श्वेतवर्णो वृषवाहनो दक्षिणाभ्यां बाहुभ्यां मातुलिङ्ग-गदाधरो वामाभ्यां च नकुला - ऽक्षसूत्रधर ईश्वराख्यो यक्षः, सिंहवाहना गौराङ्गी दक्षिणाभ्यां भुजाभ्यां वरद मुद्गरधरा १६ त्रिषष्टिशलाकापुरुषचरितम् - गद्यात्मकसारोद्धारः वामाभ्यां च कुलिशा - ऽङ्कुशधरा मानवी देवी च शासनदेवते प्रभोः सन्निहिते अभूताम् । ताभ्यां सहितश्च प्रभुविहरन् क्रमात् पोतनपुरं प्राप्तवान् । तत्र च देवैर्विहिते समवसरणे षष्ठ्युत्तरनवधनुः शतोत्तुङ्गं चैत्यवृक्षं प्रदक्षिणीकृत्य यथाविधि प्रभू रत्नसिंहासनमध्यतिष्ठत् । सुरासुरादयश्चाऽपि यथास्थानमुपविष्टवन्तः । तदा च राजपुरुषैः स्वामिनं समवसृतं ज्ञात्वा तेभ्योऽर्धत्रयोदशरूप्यकोटीर्दत्त्वा बलभद्रेण समं समवसरणं प्राप्य भगवन्तं नत्वा त्रिपृष्ठो यथास्थानं निषसाद । ततः शक्रेण भक्त्या स्तुतः श्रेयांसः प्रभुर्धर्मदेशनामारेभे"अस्मिन्नसारे संसारे जन्तवः कर्मभिः सर्वत्र भ्रम्यन्ते । तानि चाऽष्टावपि कर्माणि भेषजेन रसा इव निर्जरयैव जीर्यन्ति । संसारबीजभूतानां कर्मणां जरणलक्षणा सा निर्जरा च सकामा निष्कामा चेति द्विधा । तत्र यमिनां सकामाऽन्येषां चाऽकामा । कर्मणां हि स्वत उपायतश्च फलवत् पाकः । जीवो ह्यग्निना सुवर्णमिव तपसा शुद्धयति । तत्राऽनशनोनोदरता-वृत्तिसङ्क्षेप - रसत्याग-तनुक्लेश- लीनता बहिस्तपः । प्रायश्चित्त-वैयावृत्त्य-स्वाध्याय-विनय व्युत्सर्ग- शुभध्यानान्याभ्यन्तरं तपः । यमी च दुर्जराण्यपि कर्माणि बाह्ये चाऽभ्यन्तरे च तपोवह्नौ दीप्यमाने क्षणाज्जरयति । संवरेण समावृतश्च जीव आश्रवरोधेन नवैः कर्मद्रव्यैर्न बध्यते । तपसा ताप्यमानं च शरीरिणां पूर्वसञ्चितं सर्वं कर्म तत्क्षणात् क्षयमायाति । निर्जराकरणे च बाह्यादाभ्यन्तरं तपः श्रेष्ठम् । तत्राऽपि ध्यानं सर्वश्रेष्ठम् । ध्यानेन हि भूयांसि प्रबलान्यपि पूर्वकर्माणि निर्जरन्त्येव । प्रतिक्षणं प्रभवन्त्यावपि संवर- निर्जरे यदा प्रकृष्येते, तदा ध्रुवं मोक्षं प्रसुवाते" । भर्त्तुश्चैवं देशनया बहवो जना: प्राव्रजन् । बलभद्र - वासुदेवौ च सम्यक्त्वं प्रतिपेदाते ।

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75