Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 03
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
१२
चतुर्थं पर्व-प्रथमः सर्गः
हयग्रीवश्च तवृत्तान्तं श्रुत्वा-'मयि सत्यप्यन्यस्मै कन्या दत्ते'ति क्रुद्धः कन्यां याचितुं रह: स्वयमनुशिष्य पोतनपुरे दूतं प्रेषितवान् । स च त्वरितं ज्वलनजटिगृहं गत्वोवाच-"अश्वग्रीवो युष्माकं सकुटुम्बानां स्वामी, अतस्तस्मै कन्या दीयताम् । अन्यथा पुराऽऽराद्धः स प्रकुप्येत्" । तच्छ्रुत्वा ज्वलनजट्युवाच-"त्रिपुष्ठाय सा कन्या दत्ता । अधुना हि सा कथमन्यस्मै देया ? अन्यस्याऽपि दत्तस्य वस्तुनः स्वामिताऽपगच्छति, कुलकन्यायास्तु किं पुनः ? एतत् स स्वयं विचारयतु" । तच्छ्रुत्वा चाऽन्तःकुपितः स दूतस्त्रिपृष्ठं गत्वोवाचजगज्जयी हयग्रीवस्त्वामादिशति-"अस्मदर्हा स्वयम्प्रभा, अज्ञानात् त्वया गृहीता सा मह्यं दातव्या, भृत्यानां स्वामिशासनं प्रमाणम्" । तच्छ्रुत्वा प्रकुपितस्त्रिपृष्ठः प्रत्युवाच-"स ह्यकुलीनो न मम स्वामित्वमर्हति, अन्यत्रापि तस्य स्वामिता गत्वर्येव । तां स्वयम्प्रभामुपादातुमत्र स्वयमागच्छतु । दूतस्त्वमतोऽवध्यः । तमेव हयग्रीवमिहाऽऽगतं हनिष्यामि" |
ततो वासुदेवेनेत्थमुक्तो दूतो द्रुतं गत्वा हयग्रीवाय सर्वमाख्यत् । स च तेनाऽत्यन्तं कुपितो निजभटान् विद्याधरान् ज्वलनजटिप्रभृतीन् विद्रावयतेत्यादिशत् । ततस्ते विद्याधराः सन्नद्धा: पोतनपुरं प्राप्ताः । तेषां कलकलं श्रुत्वा च ज्वलनजटी किमेतदिति सम्भ्रान्ते प्राजापत्यादौ प्रोवाच-"अमी हयग्रीवेणाऽऽदिष्टाः सुभटाः काममायान्तु । यूयं मम कौतुकं प्रेक्षध्वम् । मयि सति कोऽप्यन्यो न प्राहार्षीत्" । ततो बद्धपरिकरो रणायोत्थितः स तेषां शस्त्राणि स्वशस्त्रैनिरास्थत् । तीक्ष्णबाणवृष्टिभिश्च तान् सर्वानुपद्रुत्य विद्याबलाच्च तेषां दर्प हृत्वा "हयग्रीवं मध्ये कृत्वा रथावर्ते पर्वते समायात । वयमपि तत्र शीघ्र समेष्यामः । निर्माथान् वो वराकान् को हनिष्यति?" इत्यभाषत । ततश्च ते काकनाशं प्रणष्टा म्लानमुखा गत्वा हयग्रीवाय सर्वमाचख्युः ।
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः तच्छ्रुत्वा च कोपारुणलोचनो हयग्रीवः सामन्तादीनादिशत्"भोः सर्वे सर्वाभिसारेण द्रुतं समागच्छत । सैन्यं नः साम्प्रतं चलतु । धूमो मशकानिव समरे प्राजापत्यादीन् द्राक् संहरामि" । इत्युक्तवन्तं सामर्षं सचिवो जगाद-"स्वामी त्रिखण्डभरतं लीलयैव पुराऽजयत् । किन्त्वयं त्रिपृष्ठो नैमित्तिकगिरा महच्छङ्कास्पदम् । अतोऽत्राऽऽसनगुणेनैव वर्तितव्यम् । अन्यथा सैन्यमेवाऽऽदिश्यताम् । त्वत्सैन्यं हि कः सहेत?" किन्तु हयग्रीवस्तथ्यां पथ्यां च तद्वाचमवमन्य, कातरोऽसीति तं निर्भय॑ सरोषः प्रस्थानदुन्दुभिं वादयामास । तेन च दुन्दुभिशब्देन सर्वे सैनिकाः सर्वाभिसारेण सद्य एव समीयुः । हयग्रीवोऽपि च स्नानादिकं विधाय गजमारुह्य रथादिभिः परिवारितोऽचलानपि चालयन् प्रचचाल । गच्छतश्च तस्य छत्रभङ्गादिकान्यशकुनानि बभूवुः । कतिभिश्च प्रयाणै रथावर्त्तपर्वतमासाद्योपत्यकायां तदाज्ञया सैन्यान्यूषुः ।
__इतश्च पोतनपुरे ज्वलनजटी बलभद्र-वासुदेवानुवाच"विद्यादुर्मदो हयग्रीवः कस्य न शङ्कनीय:? अतो युवाभ्यां विद्यासिद्ध्यै मनाक् श्रमो विधेयः । यथा तस्य विद्याकृतं मायायुद्धं वृथा भवेत्"। ततस्तथेति प्रतिपेदानौ शुचिवस्त्रौ समाहितौ तौ स विद्या अन्वशिषत् । तावपि च मन्त्रबीजाक्षराणि स्मरन्तौ सप्तरात्रमेकाग्रमानसावत्यवाहयताम् । सप्तमे दिवसे च तौ गारुड्याद्या विद्या: समुपस्थाय "युवयोर्वशे स्म" इत्यूचुः । ततस्तौ सिद्धविद्यावचल-त्रिपृष्ठौ ध्यानं पारयामासतुः । सपरीवारपरिच्छदौ च तौ प्रस्थाय रथावर्ताद्रिमासदताम् ।
अथोभयोरपि सैन्ययो रणतूर्याण्यवाद्यन्त । ततश्चोभयोः सैन्ययोः शस्त्राशस्त्रि युद्धे प्रवृत्ते हयग्रीवस्याऽग्रसैन्यं त्रिपृष्ठस्याऽग्रसैन्येन पराङ्मुखं चक्रे। अग्रसैन्यस्य भङ्गेन सक्रुद्धा हयग्रीवभटा वेताल-पिशाचादिरूपिणो भूत्वा भीषणान् नादान् कुर्वन्तो वेगात् त्रिपृष्ठस्य सैन्यमुपदुद्रुवुः । तत: क्षणादपि भग्नोत्साहास्त्रिपृष्ठस्य सैनिका विचिन्तयामासुः-"मन्ये,

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75