Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 03
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 10
________________ चतुर्थ पर्व - प्रथमः सर्गः ७ यो धर्षयिष्यति यश्च पश्चिमान्तस्थसिंहस्य हन्ता, स तवाऽपि " । तच्छ्रुत्वा म्लानो नृपः कृत्रिमपूजां कृत्वा तं व्यसृजत् । अथ तेन सिंहेन निर्जनीकृते देशेऽश्वग्रीवो नृपः शालीनारोपयामास । तद्रक्षार्थं च षोडशसहस्रसङ्ख्यान् नृपान् निदिदेश । ते च गत्वा क्रमात् तस्मात् सिंहात् तान् शालिक्षेत्रिणोऽरक्षन् । तथा स सभामास्थायाऽमात्यादीनूचे - " अधुना नृपादिषु कोऽपि कुमारोऽ सामान्यविक्रमोऽस्ति किम् ?" तत एकः सचिवो जगाद"प्रजापतिनृपस्य कुमारौ सकलानपि वीरान् तृणाय मन्यमानौ तथा स्तः” । ततो नृपः सभां विसृज्य प्रजापतेरन्तिके चण्डवेगं तं दूतं प्रेषयामास । स च कतिभिर्दिनैः पोतनपुरं प्राप्य द्वारपालेनाऽ निषिद्धगतिः प्रजापतेः सभां प्रविवेश । अचल- त्रिपृष्ठाभ्यां सचिवादिभिश्च वृत्तः स प्रजापतिरकस्मात् तं दूतमागतं दृष्ट्वा ससामन्तोऽभ्युदस्थात् । महत्या प्रतिपत्त्या च तमासने समुपवेश्य स्वामिनः सर्वं सन्देशमपृच्छत् । तदागमेन सङ्गीतभङ्गे च सर्वे सङ्गीतकारिणः स्वं स्वं गृहं जग्मुः । त्रिपृष्ठश्च तं दृष्ट्वा भृशममर्षणः पार्श्वस्थं कमपि पुरुषं तद्विषयेऽपृच्छत् । स पुरुषश्च त्रिपृष्ठाय स्वामिनो हयग्रीवस्याऽयं दूत इत्येवं सर्वं कथयामास । ततस्त्रिपृष्ठोऽभाषिष्ठ - " न जन्मना कोऽपि कस्याऽपि स्वामी वा सेवको वा, शक्त्यधीनमिदम् । समयेऽहं हयग्रीवं छिन्नग्रीवं करिष्ये । यदाऽयं तातेन विसृज्यते, तदा मे निवेदनीयम् । यथाऽस्योचितं करिष्यामि । ततो राज्ञा विसृष्टं पोतनपुराद् बहिस्तं चण्डवेगं स्वपुरीं प्रति गच्छन्तं ज्ञात्वा त्रिपृष्ठोऽचलेन सह पुरोभूय रुरुधे । तथा विनाऽऽज्ञां सभाप्रवेशाद्यविनयस्य फलं ते दर्शयामीत्युक्त्वा च त्रिपृष्ठो मुष्टिमुद्यम्य यावत् प्रपिनष्टि तावद् बलभद्रेण पुरोभूया ऽलमत्र प्रहारेण-दूतो ह्यवध्य इत्युक्तो मुष्टिमुद्यतां संहृत्य भटानादिशत् २ त्रिप. भा-३ त्रिषष्टिशलाकापुरुषचरितम् - गद्यात्मकसारोद्धारः "जीवनं मुक्त्वाऽस्य सर्वमपहरत" । ततस्तैर्भटैर्यष्टिभिर्यष्टिभिश्च ताडयित्वा तस्य सर्वस्वमपहृतम् । तत्परीवारश्च सर्वं मुक्त्वा जीवग्राहं पलायिष्ट । एवं तं पराभूय कुमारौ गृहमीयतुः । ८ नृपश्च ज्ञात्वैतत् तेन कुमाराचरितेन चिन्तितो दूतापमानं नृपापमानं विदन् प्रधानैस्तं दूतमानाय्य प्रेमपेशलैर्वचोभिरनुनीय तत्प्रकोपशान्तये चतुर्गुणं महामूल्यं प्राभृतं प्रदाय कुमारयोरिदं दुश्चेष्टितं नाऽश्वग्रीवाय वाच्यमिति प्रार्थितवांश्च । चण्डवेगोऽपि च तया वाचा शान्तकोपो राज्ञे न किमपि कथयिष्यामीत्यवोचत् । ततो राज्ञा विसृष्टः स दूतः कतिभिर्दिनैरश्वग्रीवान्तिकं ययौ । तदा च त्रस्तश्चण्डवेगस्य परिच्छदश्च सर्वं त्रिपृष्ठवृत्तान्तं भूपतेः शशंस । स दूतश्च हयग्रीवं कुपितं दृष्ट्वा 'केनाऽपि सर्वो वृत्तान्तो राज्ञे कथित' इत्यनुमाय राज्ञा पृष्टो व्यजिज्ञपत्-“देव ! अहमिव प्रजापतिरपि ते भक्तः, कुमाराभ्यां च यच्चक्रे, सा तयोर्बालसुलभाऽज्ञता । स प्रजापतिः कुमारदोषेणाssत्मानं चिरं गर्हयति, स त्वच्छासनमुपादत्त, इदमुपायनं चाऽदत्त" । ततो हयग्रीवोऽचिन्तयत्- "नैमित्तिकस्यैकं वाक्यं प्रतीतम् । द्वितीयोऽपि सिंहवधलक्षणः प्रतीतश्चेद् भविष्यति तदा मन्ये शङ्कास्थानमुपस्थितम्" । ततः स दूतान्तरेण प्रजापतिं शालिक्षेत्राणि सिंहात् त्रायस्वेत्यादिशत् । प्रजापतिना चाऽनिच्छ्याऽप्यादिष्टौ वीरौ तौ कुमारौ स्वल्पपरीवारौ सिंहाध्युषितां भुवं प्रापतुः । तथा सैन्यं निधाय सिंहगुहामभि समायाताम्। तयोश्च रथनिर्घोषात् प्रबुद्धः कुपितो बूत्कारदारुणो व्यात्ताननः सिंहो गुहागृहाद् निर्जगाम । ततः फालां दत्त्वाऽऽपततः सिंहस्यौष्ठौ पाणिभ्यां पृथक् पृथक् त्रिपृष्ठो गृहीत्वाऽपाटयत् । तं च निरस्त्रेण बालेन पराभूतोऽस्मीति खिद्यमानं सिंहं दृष्ट्वा वासुदेवसारथिर्जगाद - " किमेवमभिमानेन ताम्यसि ? अयं त्रिपृष्ठो भारते वासुदेवानां प्रथम:, तेन हतस्य तव का लज्जा ?" तस्यैवं वचसा शान्त: केसरी मृत्वा नरकावनावुपेदे ।

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75