Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 03
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
चतुर्थ पर्व-प्रथमः सर्गः
हयग्रीवाज्ञया तवृत्तं च ज्ञातमागतानां विद्याधराणां सिंहचर्माऽर्पयन त्रिपृष्ठ उवाच-"हयग्रीवस्य सिंहवधसूचकमिदं चर्माऽर्ण्यता, तथा निश्चिन्तो भव, विश्रब्धं शालिभोजनं भुञ्जीथा इति च वाचिकं वाच्यः सः" । ते च तथेति प्रत्यपद्यन्त । बलभद्र-त्रिपृष्ठौ च स्वं नगरं जग्मतुः । पितुः पादौ प्रणेमतुश्च । बलभद्रश्चाऽशेषं तमुदन्तं कथयामास । ते च विद्याधरा हयग्रीवस्याऽशेषतस्त्रिपृष्ठस्य तदुदन्तं वज्रपातसहोदरमूचुः ।
इतश्च वैताढ्यगिरौ रथनूपुर-चक्रवालाख्ये नगरे ज्वलनजटी नाम विद्याधरेन्द्रो बभूव । तस्य च महिष्यां वायुवेगाख्यायां स्वप्नेऽर्कदर्शनादर्ककीर्तिः पुत्रः, तथा स्वप्ने स्वयम्प्रभाधौतदिश इन्दुलेखाया दर्शनात् स्वयम्प्रभाख्या तनया चाऽभूताम् । नृपश्च सम्प्राप्तयौवनं महाभुजमर्ककीर्ति यौवराज्ये निवेशयामास । स्वयम्प्रभाऽपि क्रमशो यौवनं प्राप्य सर्वाङ्गसौभाग्यसम्पन्ना स्त्रीष्वनुपमाऽऽसीत् ।
अथैकदा चारणमुनी अभिनन्दन-जगन्नन्दनौ विहायसा विहरन्तौ तत्र पुरे समेयतुः । स्वयम्प्रभाऽपि गत्वा तौ वन्दित्वा तद्देशनां समाकर्ण्य सम्यक्त्वं प्रतिपेदे । ततो मुनी अन्यत्र विहाँ जग्मतुः । साऽप्यन्यदा पर्वदिने पौषधं प्रपद्य द्वितीयेऽह्नि पारणेच्छुजिने शितुरर्चादि विधाय तच्छेषां समानीय पितुरर्पयामास । स च प्रसन्नो विद्याधरेन्द्रस्तच्छेषां शीर्षे स्वयम्प्रभां चोत्सङ्गेऽध्यारोपयत् । तां च प्राप्तयौवनां दृष्ट्वा वरार्थं चिन्तितस्तां विसृज्य सुश्रुतादीन् मन्त्रिण: समाहूय तदुचितं वरं पप्रच्छ ।
___ ततः सुश्रुतोऽवोचत्-"रत्नपुरे नीलाञ्जना-मयूरग्रीवयोः सुतो हयग्रीवो नाम प्रवरो वरोऽस्ति" । तच्छ्रुत्वा बहुश्रुताख्यः सचिवो जगाद-"न स योग्यो वरः, उत्तरश्रेण्यां बहवो विद्याधरोत्तमाः सन्ति । तेषां मध्यात् कस्मा अप्येषा दातव्या" । ततः सुमतिनामा
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः सचिव उवाच-"अनेन युक्तमुक्तम् । उत्तरश्रेण्यां प्रभङ्करायां नगाँ मेघमालिनी-मेघवनयोः सुतो विद्युत्प्रभो नाम, कन्या च ज्योतिर्माला नाम्नी स्तः। तत्र विद्युत्प्रभकुमारयोग्येयं स्वयम्प्रभा । तथाऽर्ककीर्तिकुमारस्योचिता सा ज्योतिर्माला । एवं कन्याविनिमयेनोभयोर्महोत्सवोऽस्तु" । तच्छ्रुत्वा च श्रुतसागरनामा मन्त्र्युवाच"रत्नभूतेयं कन्या सर्वैरेव प्रार्थनीयाऽस्ति । अतो विद्याधरकुमाराणां कस्मैचिदेकस्मै ददतस्तव विरोधो भावी तैः सह, तच्च नोचितम् । अत: स्वयंवर एवाऽस्या युज्यते" ।
एवं सर्वमन्त्रिमन्त्रं श्रुत्वा तान् विसृज्य च नृपः सम्भिन्नश्रोतसं नाम नैमित्तिकं पप्रच्छ । स प्रोवाच-“भरतपृष्टेन भगवता वृषभध्वजेनोक्तं साधुभ्योऽहमश्रौषं, यत्-"अवसर्पिण्यां मत्समास्त्रयोविंशतिरहन्तस्त्वत्समाश्चैकादश राजानो, बलदेवा नव, वासुदेवा नव, नव प्रतिवासुदेवाश्च भविष्यन्ति । तत्र हयग्रीवं हत्वा त्रिपृष्ठो वासुदेवो भरतावनि त्रिखण्डां भोक्ष्यते" । अतस्तस्मै कन्या देया । स तुभ्यं सर्वविद्याधरैश्वर्यं प्रदास्यति" ।
ततश्च हृष्टो राजा नैमित्तिकं सत्कृत्य विसृज्य च तदर्थे मारीचिं दूतं प्रजापतिपावें प्रेषितवान् । स च गत्वा प्रजापति नत्वैवं ज्ञापयित्वाऽभाषत-"विद्याधरेन्द्रो ज्वलनजटी स्वयम्प्रभायाः कन्याया वरार्थे चिन्तित: सम्भिन्नश्रोतसो नैमित्तिकस्याऽनुमत्या त्रिपृष्ठाय तां दातुमिच्छति, तदनुमन्यताम्" । प्रजापतिश्च प्रसन्नस्तथेति प्रतिपद्य सत्कृत्य च दूतं विससर्ज ।
ततो हयग्रीवाशङ्कया ज्वलनजटी कन्यामुद्वाहयितुं प्रजापतिनृपपुरं ययौ । तन्नगरोपान्तस्थश्च स्वयमभ्यागत्य प्रजापतिना सत्कृतस्तद्दत्तावासे सपरिवारपरिच्छदो निवासमकरोत् । तथा शुभे मुहूर्ते समहोत्सवं यथाविधि त्रिपृष्ठो वासुदेवः स्वयम्प्रभां परिणीय तया सह हस्तिनीमारुह्य स्वगृहं जगाम ।

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75