Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 03
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 13
________________ चतुर्थं पर्व-प्रथमः सर्गः कन्यानिमित्तो नः प्रलयोऽयमुपस्थितः । न: पौरुषेणाऽद्य कृतम्" । एवं चिन्ताप्रपन्नेषु पराङ्मुखीभवत्सु तेषु ज्वलनजटी त्रिपृष्ठमुवाच"इयं विद्याधराणां माया, न किञ्चित् पारमार्थिकम् । तदुत्तिष्ठ, महारथं समारोह" । इत्थं तेनोक्तस्त्रिपृष्ठो निजं सैन्यमाश्वासयन् महारथमध्यारुरोह । बलभद्रादयश्चाऽपि रथान् समारुरुहुः । तदानीं पुण्याकृष्टा देवास्त्रिपृष्ठाय शाङ्ग धनुः, कौमोदकी गदां, पाञ्चजन्यं शङ्ख, कौस्तुभं मणि, नन्दकं खड्ग, वनमालाख्यं दाम च समर्पयामासुः । बलभद्राय च संवर्तकं हलं, सौनन्दं मुसलं, चन्द्रिकाख्यां गदां च ददुः । ततश्च त्रिपृष्ठवादितशङ्खध्वनिना हयग्रीवसैनिकाः पतितास्त्रादयः क्षुभ्यन्ति स्म । हयग्रीवश्च स्वसैन्यभङ्गं समाकर्ण्य निजान् भटानब्रवीत्-"रे ! विद्याधराः ! शङ्खध्वनेरपि त्रस्ताः क्व याथः ? युष्माभिर्नानारणजयसमुद्भूतं यशो हारितम्, अतो व्यावर्त्तध्वं, युद्ध्यध्वम् । अथवा केवलं सभ्यीभवत । अहं हयग्रीवो रणे न साहाय्यार्थी" । इत्युक्तास्ते विद्याधरास्त्रपावशाद् ववलिरे । हयग्रीवोऽपि रथस्थो व्योमयानेन चलितस्त्रिपृष्ठसैन्येषु बाणादीन् ववर्ष । तया चाऽस्त्रवृष्ट्याऽखिलं त्रिपृष्ठस्य बलमक्लाम्यत् । ततो बलभद्रादयो रथस्था निजैर्भटैः समं नभसोत्पेतुः । नभसि चोभयतो विद्याधरा विद्याशक्ति दर्शयन्तोऽधिकाधिकं युयुधिरे । तदेवं परस्परं दारुणे युद्धे प्रवृत्ते हयग्रीवरथं प्रति त्रिपृष्ठो निजं रथं प्रेरयत् । बलभद्रोऽपि च त्रिपृष्ठरथसन्निधि ययौ । हयग्रीवोऽपि तौ पश्यन् क्रुधा रक्तनेत्रास्योऽब्रवीत्-"रे ! युवयो: कतरेण चण्डसिंहः प्रधर्षितः? कतरश्च पश्चिमान्तस्थसिंहहन्ता ? कतरो वा स्ववधायैव स्वयम्प्रभा पर्यणैषीत् । क्रमेण युगपद् वाऽपि मया सह युध्येथाम् । अविनयफलं च भुङ्क्ताम्" । ततस्त्रिपृष्ठ उवाच-"अहमेष त्रिपृष्ठस्त्वदूतधर्षणादिकर्ता । अयं च ममाऽग्रजो बलभद्रो जगत्यप्रतिमल्लः । अलं सैन्यक्षयेण, १४ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः गृहाणाऽस्त्रम् । त्वं ममैव रणातिथिरसि, तावदावयोर्द्वन्द्वयुद्धमेवाऽस्तु । उभयोरपि सैनिकाः सभ्यीभूयाऽवतिष्ठन्तु" । ततस्तथेति प्रतिपेदानौ तौ हयग्रीव-त्रिपृष्ठौ सैन्यानि वेत्रिणा युद्धाद् वारयामासतुः । ___द्वावपि च तौ स्वं स्वं धनुरादाय घोरं ज्याघोषं चक्रतुः । तत्र हयग्रीवेण मुक्तं भाभिर्व्वलन्तं बाणं वासुदेव: स्वबाणेन छित्वा लाघवादपरेण बाणेन तस्य धनुरपि चिच्छेद । तथा हयग्रीवस्य ध्वजमेकेन छित्त्वाऽन्येन बाणेन तद्रथं दूरं क्षिप्तवान् । तत: कुपितो हयग्रीवोऽपरं रथमारुह्य तथा शरवृष्टिं चकार, यथा रथः सारथिस्त्रिपृष्ठो वा कोऽपि नाऽदृश्यत । त्रिपृष्ठचाऽपि सूर्योऽन्धकारमिव स्वशरवृष्टिभिस्तां शरवृष्टि निरस्तवान् । ततोऽतिक्रुद्धेन हयग्रीवेण मूनि भ्रमयित्वा क्षिप्तां विद्युत्सोदरां शक्ति परिघं गदां च त्रिपृष्ठः कौमोदक्या गदया कणशश्चकार । तदेवं भग्नेषु शस्त्रेषु विलक्षो हयग्रीवः पन्नगास्त्र स्मृत्वा चापे सन्धाय च मुमोच । ततस्त्रिपृष्ठो गरुडास्त्रेण तद् निवारयामास । ततो विस्मितेन हयग्रीवेण मुक्तमाग्नेयास्त्रं त्रिपृष्ठो वरुणास्त्रेण शमयामास । ___एवं त्रिपृष्ठेन तृणवदस्त्राणि भग्नानि प्रेक्ष्याऽमोघं स्वं चक्रं स्मृत्वा शिरसि भ्रमयित्वा सर्वबलेन चिक्षेप । तच्चक्रेण च तुम्बाग्रघातेन कुलिशेनेव वक्षसि ताडितस्त्रिपृष्ठो मूच्छितो भूमौ पपात । तेन चाऽतिक्रुद्धो बलभद्रोऽचलो यावत् स्वां गदामुत्पाट्य दधाव, तावल्लब्धसंज्ञस्त्रिपृष्ठो हयग्रीवप्रहितचक्रमेव समीपस्थमादाय तं प्रति मुमोच । तच्चक्रं च कदलीकाण्डवद् हयग्रीवस्य कण्ठं चकर्त्त । प्रतिचक्रिणो हि स्वेनैव चक्रेण हन्यन्ते । तदानीं च मुदितैः खेचरैः पुष्पवृष्टिर्जयजयारावश्च चक्रे । हयग्रीवस्य सैन्ये च सदैन्ये रुदितध्वनिः समुत्तस्थौ । स्वजनाश्चाऽग्निना हयग्रीवाङ्गसंस्कारं व्यधुः । हयग्रीवश्च विपद्य सप्तम्यां नरकावनौ त्रयस्त्रिंशत्सागरोपमायुर्नारकोऽभवत् ।

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75