Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 03
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
५१
चतुर्थं पर्व-पञ्चमः सर्गः मगधेषु प्राप्त: कोटिनरोत्पाट्यां शिलामुत्तोल्य यथास्थिति मुक्त्वा चाऽश्वपुरं समाययौ । तत्र च बलभद्रेणाऽन्यैर्नृपैश्च तस्य पुरुषसिंहस्याऽर्धचक्रित्वाभिषेकश्चक्रे ।
इतश्च भगवान् धर्मनाथश्छद्मस्थो वत्सरद्वयं विहृत्य दीक्षोपवनं वप्रकाञ्चनं प्राप्तवान् । दधिपर्णतले च ध्यानस्थस्य तस्य कृतषष्ठस्य पौषपूर्णिमायां रेवतीस्थे चन्द्रे केवलमत्पन्नम् । ततो दिव्ये समवसरणे देशनामरिष्टादीस्त्रिचत्वारिंशतं गणधरांश्च विदधे ।
तत्तीर्थे च समुत्पन्ने रक्तवर्णः कूर्मरथो दक्षिणैर्बाहुभिर्मातुलिङ्गगदा-ऽभयधरो वामैश्च नकुल-पद्मा-ऽक्षमालाधरः किन्नराख्यो यक्षः, गौराङ्गी मत्स्यवाहना दक्षिणाभ्यां बाहुभ्यामुत्पला-ऽङ्कुशधरा वामाभ्यां च पद्मा-ऽभयधरा कन्दर्पा नाम्नी देवी च शासनदेवते प्रभोः सन्निहिते अभूताम् । ताभ्यां सेव्यमानश्च प्रभुमहीं विजहार ।
अथ विहारक्रमतो धर्मजिनोऽश्वपुरं प्राप्तो देवैः सद्यो विहिते समवसरणे चत्वारिंशत्पञ्चधन्वशतोच्च चैत्यपादपोपशोभिते प्रविश्य यथाविधि रत्नसिंहासनमध्यतिष्ठत् । सुरादयोऽपि च यथास्थानमुपविविशुः । आयुक्तपुरुषैविज्ञप्त: पुरुषसिंहोऽपि निवेदकाय सार्धद्वादशरूप्यकोटीदत्त्वा ससुदर्शनः समागत्य प्रभुं नत्वाऽनुशक्रमुपविवेश । ततः शक्रादयो भूयोऽपि स्वामिनं नत्वा भक्त्या स्तुत्वा च तूष्णीं विविशुः ।
ततो भगवान् धर्मस्वामी देशनां दातुं प्रारेभे-"चतुर्वर्गे मोक्षः प्रधानम् । तस्य च कारणं योगो ज्ञान-दर्शन-चारित्ररूपम् । तदेव रत्नत्रयं कथ्यते । तत्र तत्त्वानुगा मतिर्ज्ञानम् । सम्यक श्रद्धा दर्शनम् । सर्वसावधयोगानां त्यागश्चारित्रम् । अथवा यतेरात्मैव ज्ञान-दर्शनचारित्राणि । यत आत्मा ज्ञानाद्यात्मक एव शरीरमधितिष्ठति । यो मोहत्यागादात्मानमात्मना वेत्ति, तस्य तदेव चारित्रं ज्ञानं दर्शनं च । आत्मनोऽज्ञानेन जातं दुःखमात्मज्ञानेनैव नश्यति । अनात्मजैस्तपसाऽपि
५२
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः तच्छेत्तुं न शक्यते । चिद्रूपोऽयमात्मैव कर्मयोगतः शरीरी सन् ध्यानाग्निदग्धकर्मा निरञ्जनः सिद्धात्मा स्यात् । कषायेन्द्रियवश आत्मैव संसारः, तद्विजेता च स एव मोक्षः ।
कषायाः शरीरिणां क्रोध-मान-माया-लोभरूपाः । ते च प्रत्येक संज्वलनादिभेदैश्चतुर्विधाः । तत्र पक्षपर्यन्तं संज्वलनो वीतरागत्वघातको देवत्वप्रदः । मासचतुष्टयं यावत् प्रत्याख्यानो यतित्वघातको मनुष्यत्वप्रदः। वर्षं यावदप्रत्याख्यानक: श्राद्धत्वघातकस्तिर्यक्त्वप्रदः । जन्मपर्यन्तं च कषायोऽनन्तानुबन्धकः सम्यग्दृष्टित्वघातको नरकप्रदः ।
तत्र क्रोध उपतापको वैरस्य कारणं दुर्गतेार्ग: शमसुखनिरोधकश्च । स उत्पद्यमानः प्रथममग्निवत् स्वाश्रयमेव दहति, पश्चादन्यं दहति न वा । क्रोधाग्निीष्टवर्षानपूर्वकोटिवर्षाजितमपि तपस्तत्क्षणाद दहति । क्रोधविषसंसर्गाच्च प्राज्यपुण्यसञ्चितं शमरूपं दुग्धं तत्क्षणादेवाऽसेव्यं जायते । तथा क्रोधश्चारित्रमपि नाशयति । स किमकार्यं न करोति, क्रोधादेव द्वारकाविनाशोऽपि द्वैपायनसकाशाद् भावी । क्रुध्यतः कार्यसिद्धिर्हि न क्रोधादपि तु पूर्जितस्वकर्मणः खलु तत्फलम् । तदेवं शरीरिणः स्वलोकद्वयोच्छेदाय स्व-परार्थनाशायैव च शरीरेष क्रोधं दधति । क्रोधान्धा हि निर्दयाः सन्तः पित्रादीनपि घ्नन्ति । तस्मात् क्रोधवः शमनाय भव्यैः शीघ्रमेव क्षमाऽऽश्रयणीया । अपकारिजने च क्रोधः सत्त्वमाहात्म्याद् निरोढुं शक्यते ।
अथवा -"य: स्वपापमङ्गीकृत्य मां बाधितुमिच्छति, स स्वकर्मणैव निहतः, तस्मिन् कोपेनाऽलम् । दुःखहेतुः स्वकर्मैव कोपपात्रम् । यतः कर्मभिः प्रेरित एव कोऽपि मह्यं क्रुध्यति । भावी जिनो महावीरो हि क्षमार्थं म्लेच्छेषु यास्यति । तस्मादयत्नेनाऽऽगता क्षमैवाऽऽश्रयणीया । तथापुण्यं नाऽकृथाः, अतः कोऽपीदानी बाधते । तस्मात् स्वप्रमादं शोचन् क्षमामङ्गीकुरु । क्रुद्धस्य मुनेश्चाण्डालस्य च न किमप्यन्तरम् । क्रुद्धं मुनि त्यक्त्वा कूरगड्डुकमेव देवताः स्तुवन्ति । तस्मात्

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75