Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 03
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 23
________________ ३३ चतुर्थ पर्व-तृतीयः सर्गः बोधिरत् सुदुर्लभम् । राज्यादिकं वा तथा न दुर्लभं, यथा बोधिः । सर्वजीवैः सर्वे भावा अनन्तश: प्राप्तपूर्वाः । बोधिस्तु न कदाऽपि प्राप्ता । कथमन्यथा तेषां भवभ्रमणम् । ___ इहाऽनन्तेषु पुद्गलपरावर्तेषु गतेषूपार्धे पुद्गलावर्ते शेषे सर्वेषां प्राणिनां सर्वेषां कर्मणां शेषेऽन्तःकोटीकोट्यवस्थितौ ग्रन्थिभेदात् कश्चिदेवोत्तमां बोधि लभते । केचिच्च यथाप्रवृत्तिकरणाद् ग्रन्थिसीमनि प्राप्ता अपि ततश्च्यवन्ति, भवं च पुनर्भमन्ति । कुशास्त्रश्रवणं, मिथ्यादृग्भिः सङ्गः, कुवासना, प्रमादशीलता च बोधिपरिपन्थिनः स्युः । यद्यपि चारित्रप्राप्तिरपि दुर्लभा कथिता । तथाऽपि सा बोधिप्राप्तौ सत्यां सफला, अन्यथा तु निष्फलैव । अभव्या अपि चारित्रं प्राप्य ग्रैवेयकावध्युत्पद्यन्ते, न तु विना बोधि निर्वृति प्राप्नुवन्ति । बोधिरत्ने ह्यप्राप्ते चक्रवर्त्यपि रङ्कतुल्यः । सम्प्राप्तबोधिरत्नस्तु रङ्कोऽपि ततोऽधिक: स्यात् । बोधि सम्प्राप्ता जीवा निर्ममत्वा भवे न रज्यन्ति । किन्त्वेकं मुक्तिमार्गमेव व्रजन्ति" । ईदृशीं च बोधिदां प्रभोधर्मदेशनां श्रुत्वा प्रबुद्धा बहवो जनाः प्राव्रजन् । स्वयम्भूः सम्यक्त्वं भद्रश्च श्रावकत्वं भेजे । ततः प्रथमपौरुष्यां पूर्णायां प्रभौ देशनाविरते द्वितीयस्यां च पौरुष्यां पूर्णायां मन्दरे गणधरे देशनाविरते शक्रादयः प्रभुं नत्वा स्वं स्वं स्थानं ययुः । विमलस्वामी च लोकानुग्रहकाम्यया तत: स्थानात् सपरिवारः पुर-ग्रामादिषु विजहार । तदानीं च प्रभोः परीवारे श्रमणानामष्टषष्टिः सहस्राणि. आर्यिकाणामष्टभिः शतैरन्वितं लक्षमेकं, पूर्विणामेकादश शतानि, अवधिभृतामष्टचत्वारिंशच्छतानि, मनःपर्ययिणां पञ्चपञ्चाशच्छतानि, केवलिनामपि तावन्त्येव, जातवैक्रियलब्धीनां नवतिः शतानि, वादलब्धिमतां त्रिसहस्त्री द्विशती च, श्रावकाणां सहस्राष्टकसंयुते द्वे लक्षे, श्राविकाणां चतुस्त्रिशत्सहस्रयुक् चतुर्लक्षी चाऽभवन् । तथा प्रभुः सपरिवारो द्विवर्षोनां पञ्चदशाब्दलक्षी यावत् केवलात् परं विजहार । त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः ततो निर्वाणमासन्नं ज्ञात्वा सम्मेताद्रिं प्राप्य प्रभुः षड्भिः साधुसहस्त्रैः सहाऽनशनं प्रपद्य मासान्ते आषाढकृष्णसप्तम्यां पौष्णगे चन्द्रे तैर्मुनिभिः समं परमं पदं जगाम । शक्रादिभिश्च तत्रोपेत्य विमलस्वामिनो मुनीनां च निर्वाणमहिमा विदधे । तदेवं प्रभोः कौमारे पञ्चदशाब्दलक्षाः, राज्ये त्रिंशदब्दलक्षाः, व्रते पञ्चदशाब्दलक्षा इति मिलित्वा षष्ट्यब्दलक्षमायुरभूत् । श्रीवासुपूज्यनिर्वाणाच्च सागराणां त्रिंशति व्यतीतायां विमलस्वामिनिर्वृतिरभूत् । स्वयम्भूरपि चैश्वर्यमदेन परिलुप्तविवेकः क्रूरकर्मा षष्टि वत्सरलक्षाणि निजमायुः पूरयित्वा षष्ठी नरकावनि जगाम । तस्य च कौमारे द्वादशाब्दसहस्री, मण्डलिकत्वेऽपि तावदेव, दिग्जये नवत्यब्दी, राज्ये त्वेकोनषष्ट्यब्दलक्षाणि पञ्चसप्ततिसहस्राणि दशाधिकनवशतानि चाऽभूवन् । भद्रोऽपि च सोदरमरणेन विरक्तो मुनिचन्द्रमुनेः समीपे गृहीतव्रतो निजायूंषि षष्टिं पञ्च च वर्षलक्षाणि व्यतीत्य विपद्य परमं पदं प्रपेदे इति चतुर्थे पर्वणि श्रीविमलनाथ-स्वयम्भू-भद्रमेरकचरितवर्णनात्मकः तृतीयः सर्गः ॥३॥

Loading...

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75