Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 03 Author(s): Shubhankarsuri, Dharmkirtivijay Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad View full book textPage 7
________________ ॥ अहम् ॥ ॥ श्रीनेमि-विज्ञान-कस्तूर-यशोभद्र-सूरिसद्गुरुवरेभ्यो नमः ॥ त्रिषष्टिशलाकापुरुषचरितम् गद्यात्मकसारोद्धारः श्रीश्रेयांसजिनादिद्वाविंशतिशलाकापुरुषचरितप्रतिबद्धं चतुर्थं पर्व प्रथमः सर्गः श्रेयांसः श्रेयसो मूलं भविनां भावनाभृताम् । ददातु वैष्णुराजिो विष्णुकुक्षिभवो जिनः ॥१॥ अथ पुष्करवरद्वीपार्धे प्राग्विदेहेषु कच्छाख्ये विजये क्षेमाख्यायां पुर्यां नृपशिरोमणिः कोशदण्डबलसमग्रो नलिनगुल्मो नाम महीपतिर्बभूव । स संसारासारतां मन्यमानो राज्यं रुजमिवोत्सृज्य वज्रदत्तमुनेर्दीक्षामुपाददे । यम-नियमादिनिरतश्च कर्म क्रशयित्वा कतिपयैः स्थानकैस्तीर्थकृन्नामकर्मोपाय॑ भुवं विहाय महाशुक्रदिवं ययौ । इतश्च जम्बूद्वीपेऽस्मिन् भरतक्षेत्रे सर्वश्रीमनोहरे सिंहपुरे पुरे भुजबलविक्रमो गुणग्रामसमग्रो वदान्यो विष्णुराजनामा नृप आसीत्। तस्य च शीलादिगुणसम्पन्ना रूपवती विष्णुनाम्नी पत्नी बभूव । तस्याः कुक्षौ स्वं प्रकृष्टमायुः पूरयित्वा महाशुक्राद् नलिनगुल्मजीवश्च्युत्वा ज्येष्ठकृष्णषष्ठ्यां श्रवणस्थे चन्द्रेऽवातरत् । तदा च त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः विष्णुदेवी मुखे प्रविशतश्चतुर्दश महास्वप्नान् दृष्टवती । फाल्गुनकृष्णद्वादश्यां श्रवणस्थे चन्द्रे च सा विष्णुदेवी सुखेन स्वर्णवर्ण खड्गिलाञ्छनं सुतं सुषुवे । तदानीं च षट्पञ्चाशद् दिक्कुमार्यः समेत्य यथाविधि सूतिकर्म चक्रुः । शक्रश्चैत्य यथाविधि प्रभुं मेरौ नीत्वा तत्र सर्वैरिन्द्रादिभिः सह यथोपचारं स्नात्रादि विधाय स्तुत्वाऽर्हन्तं पुनर्विष्णुदेवीपार्श्वे यथापूर्वममुञ्चत् । विष्णुराजश्च प्रात: समहोत्सवं श्रेयसि दिने तस्य श्रेयांस इति नाम चकार । प्रभुश्च धात्रीभिः पाल्यमानः सुरादिकमारैः सह क्रीडन् बाल्यमतीत्य यौवनं प्रपन्नोऽशीतिधनुरुत्तुङ्गः पित्रोरुपरोधाद् नृपकन्या: पर्यणैषीद् । ताभी सह रममाणो जन्मतो वर्षलक्षाणामेकविंशतौ गतायां पितुः प्रार्थनया पृथ्वीभारमुपादाय द्विचत्वारिंशतं वर्षलक्षाणि प्रजाः पालयामास । अथ भवविरक्तः प्रभुलॊकान्तिकामरैस्तीर्थप्रवर्तनाय प्रार्थितो वार्षिकदानं प्रदाय शक्रविहितदीक्षाभिषेको विमलप्रभा शिबिकामारुह्य सहस्राम्रवणं प्राप्य नृपसहस्रेण समं कृतषष्ठो व्रतमाददे । सुरादयश्च दीक्षाकल्याणकं कुर्वन्तः स्वं स्वं स्थानं ययुः । प्रभुश्च द्वितीयदिने सिद्धार्थपुरे नन्दनृपगृहे परमान्नेन पारणं विधाय ग्राम-पुरादिषु विहर्तुं प्रावर्त्तत । इतश्च प्राग्विदेहस्थायां पुण्डरीकिण्यां पुरि सुबलो नाम नृपो बभूव । स च वृषभषेः पार्श्वे प्रव्रज्य तपस्तप्त्वा मृत्वा चाऽनुत्तरविमानं ययौ । तथा राजगृहे विश्वनन्दिमहीपतेः प्रियङ्गनाम्न्यां पल्यां विशाखनन्दी नाम सुतोऽभवत् । तन्नृपानुजस्य विशाखभूतेर्धारिण्यां भार्यायां भरतपुत्रमरीचिजीवो विश्वभूति म तनयो बभूव । स च धात्रीभिः पाल्यमानः क्रमाद् वर्धमान: कलाकलापमधीत्य यौवनं प्रपन्न: सान्तःपुरः पुष्पकरण्डके उद्याने चिक्रीड । तत्र च राजपुत्रो विशाखनन्द्यपि क्रीडेच्छुरभूत् । किन्तु तदुद्यानं विशाखभूतिना कदाऽपि रहितं नाऽसीत् ।Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 75