Book Title: Tattvarthadhigam Sutra Shabdasha Vivechan Part 02
Author(s): Pravin K Mota
Publisher: Gitarth Ganga
View full book text
________________
૧૪૧
तत्वार्थाधिगमसू लाग-२ | अध्याय-3 | सूत्र-११ તેની લંબાઈ ચૌદ હજાર પાંચસો અઢાવીસ યોજના અને અગિયાર કળા છે=એક યોજનના ઓગણીસ ભાગ કરવાથી જે પ્રાપ્ત થાય તેવા અગિયાર ભાગ વધારે છે.
माध्य:
भरतक्षेत्रमध्ये पूर्वापरायत उभयतः समुद्रमवगाढो वैताढ्यपर्वतः षड् योजनानि सक्रोशानि धरणिमवगाढः पञ्चाशद् विस्तरतः पञ्चविंशत्युच्छ्रितः । विदेहेषु निषधस्योत्तरतो मन्दरस्य दक्षिणतः काञ्चनपर्वतशतेन चित्रकूटेन विचित्रकूटेन चोपशोभिता देवकुरवः, विष्कम्भेणैकादश योजनसहस्राण्यष्टौ च शतानि द्विचत्वारिंशानि द्वौ च भागौ, एवमेवोत्तरेणोत्तराः कुरवः चित्रकूटविचित्रकूटहीना द्वाभ्यां च काञ्चनाभ्यामेव यमकपर्वताभ्यां विराजिताः । विदेहा मन्दरदेवकुरूत्तरकुरुभिर्विभक्ताः क्षेत्रान्तरवद् भवन्ति पूर्वे चापरे च, पूर्वेषु षोडश चक्रवर्तिविजया नदीपर्वतविभक्ताः परस्परस्यागमाः, अपरेऽप्येवंलक्षणाः षोडशैव, तुल्यायामविष्कम्भावगाहोच्छ्रायौ दक्षिणोत्तरौ वैताढ्यौ, तथा हिमवच्छिखरिणौ महाहिमवद्रुक्मिणौ निषधनीलौ चेति ।।
क्षुद्रमन्दरास्तु चत्वारोऽपि धातकीखण्डपुष्करार्धकाः महामन्दरात् पञ्चदशभिर्योजनसहीनोच्छ्रायाः, षड्भिोजनशतैर्धरणितले हीनविष्कम्भाः । तेषां प्रथमं काण्डं महामन्दरतुल्यम्, द्वितीयं सप्तभि नम्, तृतीयमष्टाभिः, भद्रशालनन्दनवने महामन्दरवत्, अर्धषट्पञ्चाशद् योजनसहस्राणि सौमनसं पञ्चशतविस्तृतमेव ततोऽष्टाविंशतिसहस्राणि, चतुर्नवतिचतुःशतविस्तृतमेव पाण्डुकं भवति, उपरि चाधश्च विष्कम्भोऽवगाहश्च तुल्यो महामन्दरेण चूलिका चेति ।
विष्कम्भकृतेर्दशगुणाया मूलं वृत्तपरिक्षेपः, स विष्कम्भपादाभ्यस्तो गणितम् । इच्छावगाहोनावगाहाभ्यस्तस्य विष्कम्भस्य चतुर्गुणस्य मूलं ज्या । ज्याविष्कम्भयोर्वर्गविशेषमूलं विष्कम्भाच्छोध्यं शेषामिषुः । इषुवर्गस्य षड्गुणस्य ज्यावर्गयुतस्य मूलं धनुःकाष्ठम् । ज्यावर्गचतुर्भागयुक्तमिषुवर्गमिषुविभक्तं तत्प्रतिकृतिवृत्तविष्कम्भः । उदग्धनुःकाष्ठाद् दक्षिणं शोध्यं शेषाधु बाहुरिति । अनेन करणाभ्युपायेन क्षेत्राणां वैताठ्यादिपर्वतानामायामविष्कम्भज्येषुधनुःकाष्ठपरिमाणानि ज्ञातव्यानि ॥३/११॥ भाष्यार्थ :
भरतक्षेत्रमध्ये ..... ज्ञातव्यानि ।। भरतक्षेत्रमा मध्यमा पूर्व अ५२ वो airl, Goमय पाथी સમુદ્રમાં અવગાઢ, વૈતાઢ્ય પર્વત ધરણીમાં ક્રોશ સહિત છ યોજન અવગાઢ છે, વિસ્તારથી પચાસ થોજન છે અને પચ્ચીસ યોજન ઊંચો છે. વિદેહમાં નિષધપર્વતથી ઉત્તરમાં અને અંદરથી દક્ષિણમાં

Page Navigation
1 ... 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258