Book Title: Tattvarthadhigam Sutra Shabdasha Vivechan Part 02
Author(s): Pravin K Mota
Publisher: Gitarth Ganga

View full book text
Previous | Next

Page 210
________________ १३ તત્ત્વાર્થાધિગમસૂત્ર ભાગ-૨ | અધ્યાય-૪, મૂત્ર-૧૫ विभागः, पुनरन्यो विकल्प:-प्रत्युत्पन्नोऽतीतोऽनागत इति त्रिविधः, पुनस्त्रिविधः परिभाष्यतेसङ्ख्येयोऽसङ्ख्येयोऽनन्त इति । तत्र-परमसूक्ष्मक्रियस्य सर्वजघन्यगतिपरिणतस्य परमाणोः स्वावगाहनक्षेत्रव्यतिक्रमकालः समय इत्युच्यते परमदुरधिगमोऽनिर्देश्यः, तं हि भगवन्तः परमर्षयः केवलिनो विदन्ति, न तु निर्दिशन्ति, परमनिरुद्धत्वात्, परमनिरुद्ध हि तस्मिन् भाषाद्रव्याणां ग्रहणनिसर्गयोः करणप्रयोगासम्भव इति । ते त्वसङ्ख्येया आवलिका, ताः सङ्ख्येया उच्छ्वासः, तथा निःश्वासः, तौ बलवतः पट्विन्द्रियस्य कल्पस्य मध्यमवयसः स्वस्थमनसः पुंसः प्राणः । ते सप्त स्तोकः, ते सप्त लवः, तेऽष्टात्रिंशदर्धं च नालिका, ते द्वे मुहूर्तः, ते त्रिंशदहोरात्रम्, तानि पञ्चदश पक्षः, तौ द्वौ शुक्लकृष्णौ मासः, तौ द्वौ मासावृतः, ते त्रयोऽयनम्, ते द्वे संवत्सरः, ते पञ्च चन्द्रचन्द्राभिवर्धितचन्द्राभिवर्धिताख्या युगम्, तन्मध्येऽन्ते चाधिकमासको । सूर्यसावनचन्द्रनक्षत्राभिवर्धितानि युगनामानि, वर्षशतसहस्त्रं चतुरशीतिगुणितं पूर्वाङ्गम्, पूर्वाङ्गशतसहस्रं चतुरशीतिगुणितं पूर्वम् एवं तान्ययुतकमलनलिनकुमुदतुट्यडडाववाहाहाहूहूचतुरशीतिशतसहस्रगुणाः सङ्ख्येयः कालः, अत ऊर्ध्वमुपमानियतं वक्ष्यामः । तद्यथा हि नाम योजनविस्तीर्णं योजनोच्छ्रायं वृत्तं पल्यमेकरात्राद्युत्कृष्टसप्तरात्रजातानामङ्गलोम्नां गाढं पूर्ण स्याद्, वर्षशताद् वर्षशतादेकैकस्मिन्नुध्रियमाणे शुद्धिनियमतो यावता कालेन तद् रिक्तं स्यादेतत् पल्योपमम्, तद् दशभिः कोटाकोटिभिगुणितं सागरोपमम्, तेषां कोटाकोट्यश्चतस्त्रः सुषमसुषमा, तिस्रः सुषमा, द्वे सुषमदुष्षमा, द्विचत्वारिंशद् वर्षसहस्राणि हित्वा एका दुष्षमसुषमा, वर्षसहस्राणि एकविंशतिर्दुष्षमा, तावत्येव दुष्षमदुष्षमा, एताः अनुलोमप्रतिलोमा अवसर्पिण्युत्सर्पिण्योर्भरतैरावतेष्वनाद्यनन्तं परिवर्तन्ते अहोरात्रवत्, तयोः शरीरायुःशुभपरिणामानामनन्तगुणे हानिवृद्धी, अशुभपरिणामानां वृद्धि-हानी । अवस्थिताऽवस्थितगुणाश्चैकैकाऽन्यत्र । तद्यथा-कुरुषु सुषमसुषमा, हरिरम्यकवासेषु सुषमा, हैमवतहैरण्यवतेषु सुषमदुष्षमानुभावः, विदेहेषु सान्तरद्वीपेषु दुष्षमसुषमा इति, एवमादिमनुष्यक्षेत्रे पर्यायापन्नः कालविभागो ज्ञेय इति ।।४/१५॥ भाष्यार्थ : कालोऽनन्तसमयः ..... इति ।। M id समयवाणो dault (1० ५, सू० 3८, २२) છે એ પ્રમાણે પાંચમા અધ્યાયમાં કહેવાયું છે. તેનો વિભાગ કાળનો વિભાગ, જ્યોતિષ્ક દેવોના ગતિવિશેષ કૃત છે. ચાર વિશેષરૂપ હેતુથી=જ્યોતિષ દેવોના ગમતવિશેષ હેતુથી, તેઓ વડે કરાયેલો=જ્યોતિષ દેવો વડે કરાયેલો, તત્કૃત છે. तमा प्रमाण छ – समो , या, शो, sel, यो, allest, मुता, tuel, ,

Loading...

Page Navigation
1 ... 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258