Book Title: Tattvarthadhigam Sutra Shabdasha Vivechan Part 02
Author(s): Pravin K Mota
Publisher: Gitarth Ganga

View full book text
Previous | Next

Page 223
________________ ૨૦૬ तत्वार्थाधिगमसूत्र भाग-२ | अध्याय-४ | सूत्रा-२०, २१ તેઓને પરિસમાપ્તિ થયેલી હોવાથી સર્વ પુરુષાર્થો સુખપૂર્વક તેઓ સાધી શકે છે અને મોક્ષપુરુષાર્થ પણ સિદ્ધ થવાની તૈયારી છે, માટે તે સર્વાર્થોમાં સિદ્ધ છે. વળી વિજયાદિ પાંચેય દેવલોકના દેવો સિદ્ધપ્રાયઃ ઉત્તમાર્થવાળા છે. જીવનો ઉત્તમ અર્થ મોક્ષ છે અને તે ઉત્તમ અર્થ તેઓને સિદ્ધ થવાની તૈયારી છે, તેથી तमो सिद्धप्राय: उत्तभार्थवा . ४/२०|| अवतरशि: સૂત્ર-૨૦માં વૈમાનિક દેવો કયાં કયાં છે ? તે બતાવ્યા. હવે તેઓમાં પૂર્વ પૂર્વના દેવો કરતાં ઉત્તરઉત્તરના દેવોમાં શું શું વિશેષતાઓ છે? તે સ્પષ્ટ કરવા કહે છે – सूत्र: स्थितिप्रभावसुखद्युतिलेश्याविशुद्धीन्द्रियावधिविषयतोऽधिकाः ।।४/२१।। सूत्रार्थ : સ્થિતિ, પ્રભાવ, સુખ, ધૃતિ, વેશ્યાની વિશુદ્ધિ, ઈજિયના વિષયથી અને અવધિના વિષયથી मधि छ. ||8|२१|| माध्य: यथाक्रमं चैतेषु सौधर्मादिषु उपर्युपरि देवाः पूर्वतः पूर्वत एभिः स्थित्यादिभिरर्थरधिका भवन्ति । . तत्र स्थितिः-उत्कृष्टा जघन्या च परस्ताद् (सू०२९-४२) वक्ष्यते इह तु वचने प्रयोजनं, येषामपि समा भवति तेषामप्युपर्युपरि गुणतोऽधिका भवतीति यथा प्रतीयेत । प्रभावतोऽधिकाः, यः प्रभावो निग्रहानुग्रहविक्रियापराभियोगादिषु सौधर्मकाणां सोऽनन्तगुणाधिक उपर्युपरि, मन्दाभिमानतया तु अल्पतरसङ्क्लिष्टत्वादेते न प्रवर्तन्त इति । क्षेत्रस्वभावजनिताच्च शुभपुद्गलपरिणामात् सुखतो द्युतितश्चानन्तगुणप्रकर्षणाधिकाः, लेश्याविशुद्ध्याऽधिकाः, लेश्यानियमः परस्तादेषां वक्ष्यते (सू० २३) इह तु वचने प्रयोजनं, यथा गम्येत यत्रापि विधानतस्तुल्यास्तत्रापि विशुद्धितोऽधिका भवन्तीति कर्मविशुद्धित एव वा अधिका भवन्तीति । इन्द्रियविषयतोऽधिकाः, यदिन्द्रियपाटवं दूरादिष्टविषयोपलब्धौ सौधर्मदेवानां तत्प्रकृष्टतरगुणत्वादल्पतरसङ्क्लेशत्वाच्चाधिकमुपर्युपरीति । अवधिविषयतोऽधिकाः, सौधर्मशानयोर्देवाः अवधिविषयेणाधो रत्नप्रभां पश्यन्ति तिर्यगसङ्ख्येयानि योजनशतसहस्राणि ऊर्ध्वमास्वभवनात् । सनत्कुमारमाहेन्द्रयोः शर्कराप्रभां पश्यन्ति तिर्यगसङ्ख्येयानि योजनशतसहस्राणि ऊर्ध्वमास्वभवनात् इति, एवं शेषाः क्रमशः । अनुत्तरविमानवासिनस्तु कृत्स्ना लोकनाडी पश्यन्ति । येषामपि क्षेत्रतस्तुल्योऽवधिविषयस्तेषामप्युपर्युपरि विशुद्धितोऽधिको भवतीति ॥४/२१॥

Loading...

Page Navigation
1 ... 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258