Book Title: Tattva Chintamani Author(s): M M Mathuranatha, Badrinath Shukla Publisher: Sampurnanand Sanskrit Vishva Vidyalaya View full book textPage 9
________________ ( ख ) सूपयुक्ततमायाष्टीकायाः सन्निवेशः क्रियेत, येषु च भागेषु कापि टीका न प्राप्येत तेषु भागेषु नवीना टीका लिख्येत / 2. मूलग्रन्थस्य माथुर्याश्च विषमलान पानियः स्पष्टाष्टिप्पण्यः प्रणीयेरन् / 3. तत्त्वचिन्तामणिग्रन्थस्य यावत्यः प्राचीनाः प्रामाणिक्यष्टीकाः प्राप्यन्ते, ग्रन्थान्ते तासां सर्वासां कालक्रमेण सन्निवेशः क्रियेत / / 4. तत्त्वचिन्तामणेर्याष्टीका नोपलभ्यन्ते, किन्तु यत्र तत्रांशत उद्धताश्चर्चिताश्च सन्ति तासां यथोपलभ्यपरिचयेन साधं ग्रन्थान्ते समुल्लेखो विधीयत / 5. तत्त्वचिन्तामणेः प्रत्यक्षटीकाग्रन्थेषु याः प्रामाणिक्यः, प्रतिष्ठिताश्च जागदीशीगादाधरीसदृश्यष्टीकाः सन्ति, तासां तद्गतनवीनविचारोपन्यासपूर्वक ग्रन्थान्ते समुल्लेखो विधीयेत / 6. तत्त्वचिन्तामणिग्रन्थे विभिन्नदर्शनानां ये सिद्धान्ताश्चर्चिता आलोचिताश्च तेषां प्रामाणिकः परिचयो ग्रन्थान्ते सङ्कलितः क्रियेत / 7. तत्त्वचिन्तामणौ प्राप्यमाणानामामाणकानां सूक्तीनां नीतिवाक्यानां च ग्रन्थान्ते पृथक् सङ्ग्रहः क्रियेत / 8. तत्त्वचिन्तामणेविषयाणामेकस्या विवरणात्मकसूच्याः प्रणयमं क्रियेत, यत्रैसत्सम्बद्धानां विषयाणां ग्रन्थानां प्रन्थकाराणां चैतिहासिकः परिचयों मवेत् / ___एतद्योजनानुसारेण तत्त्वचिन्तामणेर्मुद्रणस्य सम्पन्नतायां सन्निदधत्यामेका विस्तृता भूमिका प्रस्तूयेत, यत्र न्यायशास्त्रस्य तदीययोः प्राचीननवीनन्यायधारयोश्चाविकलं वर्णनं भवेत् / ___ कार्यस्यास्योपक्रमः कतिपयवर्षपूर्वमेवाजायत, परमनेकविधप्रत्यूहपारवश्येन कार्यमिद. मुपेक्षितमभूत् / साम्प्रतं तत्कार्यपूर्तये सोत्साहं बद्धादरस्य विश्वविद्यालयस्य वर्तमानकुलपतेः पण्डितश्रीकरुणापतित्रिपाठिमहोदयस्थादेर्शन कार्यमिदं पुनरारब्धम् / कार्यस्यास्य सम्पत्स्यमानतायां विश्वासाधानभावनयाऽधुना केवलं मङ्गलवादान्तो भागोऽनेकत्र मत्प्रणीतटिप्पणीसहितो विदुषां प्रीतये सबहुमान सविनयं च समुपहियमाणो विद्यते / अशास्यते, विद्वज्जनानां शुभकामनया कुलपतेरुत्साहन शासकस्य सहयोगेन च ग्रन्थोऽयं यथासङ्कल्पं विद्वज्जगति यथासमयमवश्य पदमादध्यादिति / ........... ............: . , काश्याम् . .. बदरीनाथशुक्ला .....: अक्षयतृतीया - वायवैशेषिकविभागाध्यक्षः सं० 2033 सम्पूर्णानन्दसंस्कृतविश्वविद्यालये दि० 25-76Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88