Book Title: Tattva Chintamani Author(s): M M Mathuranatha, Badrinath Shukla Publisher: Sampurnanand Sanskrit Vishva Vidyalaya View full book textPage 8
________________ उपोद्घातः अपरिशीलितपूर्वया शैल्या सुसम्पाद्य सम्मुद्रय च प्रकाशयितुमभिमतोऽयं तत्त्वचिन्तामणिग्रन्थो नव्यन्यायशास्त्रस्य समग्रविस्ताराणामुपजीव्यभूतो नव्यन्यायस्य परमोत्कृष्टः प्रथमो ग्रन्थः। अस्य प्रणयनं न्यायविद्यानामाविर्भावभूमौ मिथिलायां प्रादुभू तेन न्यायाम्भोजपतङ्गेन मीमांसापारहश्वना विद्वज्जनजेगीयमानसर्वशास्त्रवैदुष्ययशोराशिना श्रीमता गङ्गशोपाध्यावेन द्वादशशततमे खिष्टाब्देऽकारि, महिमा चेदमीयस्तेनैवयतो मणेः पण्डितमण्डन क्रिया प्रचण्डपाखण्डतमस्तिर स्क्रिया। विपक्षपक्षे ना विचारमतुरी .... न च स्वसिद्धान्तक्चोदरिद्रता // इत्येवं ब्रुवता विदुषां समक्षं निस्सङ्कोचमुदघोषि, प्राकाशि चास्य विशिष्टा विस्तृताश्च प्रत्यक्षव्याख्या विरचय्य श्रीपक्षधरमिश्र-श्रीवासुदेवसार्वभौम-श्रीरघुनाथ-श्रीमथुरानाथसहशैर्महानैयायिकैः, उपाबृहि च श्रीरघुनाथनिर्मितदीधित्याश्रयेणैतदीयार्थगभीरा व्याख्या विधाय जगदीश-गदाधरप्रभृतिभिधुरन्धरैनवायिकः, अस्यानेकभागेषु क्रोडपत्राणि प्रणीय गोलोकनाथ-काली कर-धर्मदत्त (बच्चा ) झाप्रमुखैः परिष्कारपद्धतर्महापण्डितैश्च / ... तदेवं सकलदर्शनशास्त्रसरोजसहस्रांशप्रायस्य महतो ग्रन्थस्य वक्ष्यमाणन्या रीत्या पुनः प्रकाशनं वाराणसीस्थेन संस्कृतविश्वविद्यालयेन समकल्पि समुपन्यासि च तत्सम्पादनमारो मम कशस्कन्धयोरिति तदादेशमनुवर्तमानेन मया तत्सम्पादनयोजना या सुचिरमनुचिन्त्य पूर्व प्रास्तावि सा यथापूर्वमत्रोपन्यस्यते। ...तत्त्वचिन्तामणिग्रन्थविषये सर्वसम्मतं तथ्यमिदमस्ति यदस्य शैल्या, भाषया, विचारप्रणाल्या च संस्कृतवाङ्मयस्य प्रायः सम्पूर्णशाखानां परवर्तिनो ग्रन्था भृशं प्रभाविताः, अत एतस्यैतदुपजीविनामन्यग्रन्थानां चाभ्ययने शैथिल्यमुपंगते एतत्परवर्तिनां संस्कृतग्रन्थानां दुर्बोधताऽपरिहार्या, तत्फलतया व्याकरणस्य, साहित्यस्य, वेदान्तप्रभृतिदर्शनानां चैको महनीयो महान् शानराशिः शिक्षाजगतो नूनमेव विच्छिन्नसम्बन्धो भविता, किन्तु निरतिशयक्लेशस्थानमेतद् यदीदशस्यानेकशास्त्राणां मर्मग्रन्थिमेदनदक्षस्यानितरसाधारणीमुपयोगितां दधतोऽपि अन्मसवारणार्म दौर्लभ्यमापतितम् / अतोऽस्य ग्रन्धरत्नस्याभिनवं प्रकाशनं परमावश्यकम् / बचानका रीत्या काम्यं यत् 1. मूलबन्धस्व तत्त्वचिस्वामणेः मथुरानाथनिर्मितरहस्यटीकया सह मुद्रणं भवेत् / येषु भागेषु सा टीका नोपलभ्येत, तेषु भागेषु पक्षधरमिश्रप्रणीतालोकसदृशप्रभृतिटीका.Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 88