Book Title: Tattva Chintamani
Author(s): M M Mathuranatha, Badrinath Shukla
Publisher: Sampurnanand Sanskrit Vishva Vidyalaya

View full book text
Previous | Next

Page 24
________________ प्रत्यक्षखण्डे मङ्गलवादः 13 न च व्यभिचारः / निष्परिपन्थिश्रुत्या मङ्गलं समाप्तिसाधनमिति प्रमापिते तत्रापि तयैव लिङ्गेन जन्मान्तरीयतदनुमानात् / न तु अभ्रान्तत्वमात्रम् , अविगीतपदवैयापत्तेः; श्येनादेरपि बलवदनिष्टाननुबन्धित्वभ्रमेणाचरणात् / तथा चेष्टसाधनत्वांशे भ्रमाजन्येति फलितार्थः। बलवदनिष्टाननुबन्धित्वज्ञानस्य हेतुत्वे च भ्रमाजन्यत्वमात्रं वक्तव्यम् / लौकिकभोजनादौ व्यभिचारवारणायालौकिकत्वे सतीत्यनेनापि विशेषणीयम् / 'तत्त्वश्चेष्टसाधनत्वेन लोकावगतान्यत्वं, लोकश्च वेदतदुपजीविप्रमाणातिरिक्तप्रमाणमेव / यदि च श्राद्धत्वेनामावास्याश्राद्धत्वेन वा रात्रिश्राद्धमपि पितृप्तिस्वरूपयोग्यतया वेदबोधितमिति साध्यसत्त्वाद् , अन्यथा तु चैत्यवन्दनादिवनिष्फलत्वेन पापजनकतया हेत्वसत्त्वादेव न तत्र व्यभिचार इति विभाव्यते, तदा तु लोकावगतेष्टसाधनताश्रयान्यत्व'मलौकिकत्वम् / तथा च पश्वादिकृतवृथाचेष्टायां व्यभिचारवारणायैव 'शिष्टे'ति / तञ्च निरुक्तमेवेत्याहुः। तदुभयमपि 'स्वीकृतवेदप्रमाणभावः शिष्टः' इत्यग्रिममूलविरुद्धत्वादश्रद्धेयम् / 'न च व्यभिचारः' इति प्रमत्तानुष्ठितसमाप्तौ व्यभिचार इत्यर्थः / तथा च विषयबाधेन वेदजस्य ज्ञानस्य भ्रमतया कुतो वेदस्य तत्र प्रमाणत्वमिति भावः / 'निष्परिपन्थीति' शाब्दबोधविघटकासमवहितेत्यर्थः। बाधसंशयतन्निश्चययोः शाब्दबोधाप्रतिबन्धकत्वादन्वयप्रयोजकरूपवत्त्वस्यैव योग्यतात्वेन बाधनिश्चयसत्त्वेऽपि योग्यताज्ञानसम्भवाच्चेति भावः। 'प्रमापिते' ज्ञापिते, 'तत्रापि' नास्तिकसमाप्तावपि, 'तयैव' समाप्त्यैव, 'प्रमत्तानुष्ठितसमाप्तिमङ्गलजन्या, समाप्तित्वात् , शिष्टानुष्ठितसमाप्तिवद्' इत्यनुमानाकारः / तथा च तत्रापि मङ्गलस्य प्रमाणसिद्धत्वाद् न व्यभिचारः। . यद्यपि स्वजन्यविनध्वंसोत्पत्त्यवच्छेदकत्वसम्बन्धेन फलीभूतसमाप्तिकर्तृशरीरनिष्ठतया मङ्गलस्य, स्वोत्पत्त्यवच्छेदकत्वसम्बन्धेन तादृशशरीरनिष्ठतया मङ्गलजन्यविन्नध्वंसस्य वा समाप्तिहेतुत्वं वक्ष्यमाणयुक्त; तथा च जन्मान्तरीयमङ्गलसत्त्वेऽपि व्यभिचारो दुर्वारः, नास्तिकशरीरे जन्मान्तरीयमङ्गलजन्यविघ्नध्वंसोत्पत्त्यभावात् / तथापि स्वजन्यविघ्नध्वंसवत्त्वसम्बन्धेन मङ्गलस्य, विशेषणताविशेषसम्बन्धेन तज्जन्यविघ्नध्वंसस्य चात्मनिष्ठतयैव समाप्तिहेतुत्वमित्येकदेशिमतमाश्रित्यैतत् समाधानम् / यथोक्तहेतुत्वपक्षे च व्यभिचारोऽग्रे निरसनीयः। 1. अलौकिकत्वं चेत्यर्थः / 2. अपरसमाप्तिवदित्यनुमानप्रकार इति ग० / 3. मङ्गले समाप्तिसाधनत्वस्य प्रमाणसिद्धत्वादिति ग० /

Loading...

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88