Book Title: Tattva Chintamani
Author(s): M M Mathuranatha, Badrinath Shukla
Publisher: Sampurnanand Sanskrit Vishva Vidyalaya

View full book text
Previous | Next

Page 66
________________ प्रत्यक्षखण्डे मङ्गलवादः तदर्थमदृष्टद्वारता / मङ्गलस्य विकल्पेनान्वये शिष्टैनियमतो मङ्गलानुष्ठानं न स्यादित्युक्तम् / किञ्च, प्रधानत्वे साङ्गमङ्गलमात्रं न समाप्तिहेतुः, तस्मिन् सत्यपि तदभावात् / स्थायित्वविशिष्टयोः, विशिष्टस्यानतिरिक्तत्वादिति भावः। 'तदर्थ' तावत्समयवृत्तित्वविशिष्टविघ्नप्रागभावार्थम् / न च मङ्गलस्याशुविनाशितया तावतां समयानां तेन जननासम्भवादपूर्वस्वीकार इति वाच्यं, समयानां मङ्गलजन्यत्वे मानाभावादिति भावः। ननु मङ्गलानन्तरं समाप्तिपूर्व मध्ये विघ्नजनककर्मानुष्ठाने विघ्नोत्पत्ति प्रतिबन्धार्थमदृष्टाभ्युपगमः, मङ्गलस्याशुविनाशितया तेन तावत्कालं साक्षाद्विघ्नोत्पत्तिप्रतिबन्धासम्भवादित्यरुचेराह 'मङ्गलस्पे'ति मङ्गलजन्यापूर्वस्येत्यर्थः / 'अन्वये' कारणत्वे, 'न स्यादिति गणेशस्तवपाठादिजन्यादृष्टसत्त्वसम्भावनया न स्यादित्यर्थः / एकाभावविशिष्टापरस्यैव जनकत्वादिति भावः / इदमुपलक्षणं, गणेशस्तवपाठमङ्गलयोरुभयोरनुष्ठानेऽपि समाप्तिदृश्यते, तदपि न स्यादित्यपि बोध्यम् / ननु गणेशस्तवपाठजन्यापूर्वमङ्गलजन्यापूर्वयोन विकल्पेन कारणत्वं, किन्तु तृणारणिमणिन्यायेन यत्र गणेशस्तवपाठमङ्गलयोरनुष्ठानं, तत्र मङ्गलनाश्यविघ्नस्थलीयास्थलीय समाप्तिद्वयानुत्पादश्च भूयोजातीयविघ्नसत्त्वात् / यद्वा मङ्गलजन्यापूर्वस्य तन्नाश्यजातीयविघ्नस्थलीयसमाप्तित्वं कार्यतावच्छेदकं, गणेशस्तवपाठादिजन्यापूर्वस्य तत्तत्पाठादिनाश्यजातीयविघ्नस्थलीयसमाप्तित्वं, न तु मङ्गलजन्यापूर्वनाश्यजातीयविघ्नस्थलीयेतरसमाप्तित्वम् / अत एवोभयोरनुष्ठानेऽपि कचित् फलदर्शनं नानुपपन्नमित्यरुचेराह 'फिञ्चेति / 'प्रधानत्वे' अपूर्वद्वारा समाप्तिरूपप्रधानफलजनकत्वे, 'तस्मिन् सत्य गीति सर्वजातीयेषु एकैकमङ्गलेषु कृतेष्वपीत्यर्थः / 'तदभावात्' समाप्तेरभावात् / तथा च तत्र समाप्त्यापत्तिरिति भावः। न च तत्र मङ्गलानन्तरोत्पन्नविघ्नेन प्रतिबन्धान समाप्त्युदय इति वाच्यम् , मङ्गलजन्यादृष्टस्य विघ्नप्रतिबन्धकतया मङ्गलानन्तरं समाप्तिपर्यन्तं विघ्नान्तरोत्पत्तेरसम्भवादिति हृदयम् / 1. मङ्गलमात्रमिति ख० / 2. तत्र तयोः कतरेणाप्यदृष्टजननासम्भवात्, एकस्माददृष्टोत्पत्तयेऽपराभावस्यापेक्षितत्वा दिति भावः। 3. तादृशविघ्नस्थलीयान्येत्यर्थः /

Loading...

Page Navigation
1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88