Book Title: Tattva Chintamani
Author(s): M M Mathuranatha, Badrinath Shukla
Publisher: Sampurnanand Sanskrit Vishva Vidyalaya
View full book text
________________ ___ तत्त्वचिन्तामणौ सरहस्ये ___ यत्तु बुद्धिविशेषपूर्वकत्वज्ञानं विना कायिकादौ न तद्व्यवहार इति स एव वाच्यः, अन्यत्र लक्षणेति, तन्नः कायिकादिव्यापारविशेषमनवगम्य बुद्धिविशेषपूर्वकत्वाज्ञानात् / स्वीकृतवेदप्रमाणभावः शिष्टः / आचारे च वेदानिषिद्धत्वमविगीतत्वं विशेषणं' देयम् / __मानसिकत्वं त मानसत्वव्याप्यो जातिविशेष एव / न च स्वप्नत्वमादाय साङ्कयमिति वाच्यं, तस्य स्वप्नत्वविरुद्धत्वादिति ध्येयम् / प्राभाकरमतमाह 'यत्त्वि'ति / 'बुद्धिविशेषेति ज्ञानविशेषजन्यत्वस्यैव कायिकादिनिष्ठजातिविशेषव्यञ्जकत्वादित्यभिमानः / 'स एवेति मानसज्ञानविशेष एवेत्यर्थः / 'अन्यत्र' कायिकादौ / 'कायिकादी'ति, तं प्रति तस्य लिङ्गत्वात् / तथा च ज्ञानविशेषजन्यत्वग्रहो न तादृशजातिविशेषव्यञ्जक इति भावः / न च तथापि चेष्टात्वमानसत्वव्याप्यजातिविशेष एव शक्यतावच्छेदकः, न तु वाचनिकत्वं, तस्य नत्वादिव्याप्यनानात्वाभ्युपगमादिति वाच्यं, तस्याप्युक्तक्रमेणैकत्वात् , नानात्वेऽपि प्रत्येकमादाय विनिगमनाविरहेण शक्यतावच्छेदकत्वस्य दुर्वारत्वाच्चेति हृदयम् / ननु मङ्गलं वेदबोधितसमाप्तिसाधनताकं समाप्त्युद्देश्यकाविगीतशिष्टाचारविषयत्वादिति साम्प्रदायिकानां प्रागुक्तवेदानुमाने किन्तावच्छिष्टत्वमित्यत आह 'स्वीकृतेति वेदविशेष्यकप्रामाण्याभ्युपगमवानित्यर्थः / अभ्युपगमो निश्चयः, तावतैव यत्तद्भयां सामान्यतो व्याप्तौ पशुपक्ष्यादिकृतवृथाचेष्टायां व्यभिचारवारणादिति भावः / बालकपतितान्त्यजाद्यतिरिक्तत्वे सतीत्यनेनापि विशेषणीयम् , तेन तदीयवृथा. चेष्टायां पश्वादिवृथाचेष्टावद्वेदानिषिद्धायां न व्यभिचारः।। नन्वेवं वेदप्रामाण्याभ्युपगन्त्रा भ्रान्त्या क्रियमाणे चैत्यवन्दनादौ व्यभिचार इत्यत आह, 'आचारे चेति, आचारे अविगीवत्वं यद्विशेषणं दत्तं तद्वेदानिषिद्धत्वरूपमित्यर्थः / प्रामाणिककृतचैत्यवन्दनादिकञ्च न तथा, तस्य पूर्वलिखितवेदनिषिद्धत्वादिति भावः। अलौकिकत्वे सतीत्यनेनापि विशेषणीयम् , तेन शिष्टकृतभोजनादौ न व्यभिचारः / अलौकिकत्वश्च प्रानिरुक्तमेव / न च तथापि भ्रान्त्या स्वःफलान्यफलमुद्दिश्य कृते यागादौ व्यभिचारः, तत्साधनत्वेन तस्य वेदबोधितत्वाभावादिति वाच्यं, चैत्यवन्दनादिवत् तस्यापि वृथाचेष्टात्वेन वेदनिषिद्धत्वात् / 1. आचारे च वेदानिषिद्धत्वमलौकिकत्वञ्च विशेषणमिति क० पुस्तकपाठो न समीचीन:, अलौकिकत्वे सतीत्यनेनापि विशेषणीयमिति Trrम. / वापरयसभत्थापत.।

Page Navigation
1 ... 79 80 81 82 83 84 85 86 87 88