Book Title: Tattva Chintamani
Author(s): M M Mathuranatha, Badrinath Shukla
Publisher: Sampurnanand Sanskrit Vishva Vidyalaya
View full book text
________________ प्रत्यक्षखण्डे मङ्गलवादः 73 तैर्थिकत्वेऽपि शिष्टाशिष्टव्यवहारो वेदनिषिद्धाकर्तृत्व-तत्कर्तृत्वनिबन्धनः / यद् वा वेदप्रामाण्याभ्युपगन्तृत्वे सति यो यदा वेदनिषिद्धाकर्ता स तदा शिष्टः, तत्कर्ता त्वशिष्टः। अत एव वेदानिषिद्धकतत्वेऽपि बौद्धो न शिष्टः। पापजनकत्वज्ञानं विना वेदनिषिद्धकर्तृत्वं यस्य नास्ति स शिष्ट इति तु न, तैर्थिकस्यापि कस्यचित् पापजनकत्वज्ञानं विना वेदनिषिद्धकर्तृत्वात् / - नातिव्याप्तिः। 'संस्कारश्वाविनश्यदवस्थत्वेन विशेषणीयः, तेन तदप्रामांण्याभ्युपगमोत्पत्तिक्षणे नातिप्रसङ्गः / न च घटविषयकतादृशसमूहालम्बनसंस्कारस्य विरोध्यभ्युपगमेन नाशे घटस्मृतिरपि न स्यादिति वाच्यम् , तादृशसमूहालम्बनसंस्कारस्य विरोध्यभ्युपगमोत्तरं घटस्मृतिजनकत्वे मानाभावात् स्मृतिनाश्यतावच्छेदकवैजात्यस्य तव्यावृत्ततया घटस्मृतिघटसंस्कारयो श्यनाशकभावे न व्यभिचार इत्याहुः। नन्वेवं निरुक्ताभ्युपगमाभाववत्यपि कदाचित् शिष्टव्यवहारः, तद्वत्यपि "कदाचिदशिष्टव्यवहारो दृश्यते, स कथं स्यादित्यत आह-तैर्थिकत्वेऽपीति / निरुक्ताभ्युपगमाभावनिरुक्ताभ्युपगमयोः सत्त्वेऽपीत्यर्थः। तथा च तादृशि शिष्टाशिष्टव्यवहारो भाक्त इति भावः। तत्रापि शिष्टाशिष्टव्यवहारयोमुख्यत्वमेवेत्यभिप्रायेणाह-यद् वेति / सत्यन्तं निरुक्तार्थकम् / सत्यन्तविशेषणस्य प्रयोजनं दर्शयति१. अविनश्यदवस्थत्वं नाशविशिष्टत्वाभावः, वै० स्वप्रतियोगित्वस्वाव्यवहितपूर्वक्षणवृत्ति त्वाभ्याम् / वेदप्रामाण्याभ्युपगमजन्यसंस्कारस्य वेदाप्रामाण्याभ्युपगमक्षणव्यवहितोत्तरक्षणे नाश्यतया तादशाभ्युपगमक्षणे उक्तसम्बन्धाभ्यां नाशविशिष्टतया तदानीं नाश विशिष्टत्वाभाववतो वेदनामाण्याभ्युपगमजन्यसंस्कारस्यासत्त्वान्न तदानीं शिष्टत्वम् / 2. तव्यावृत्ततया-घटविषयकतादृशसमूहालम्बनसंस्कारावृत्तितया / 3. न यभिचार:-घटविषयकताशसमूहालम्बनसंस्कारस्य घटस्मृति विनाऽपि नाशे न व्यभिचार इत्यर्थः। वेदनिषिद्धाकरणकाले / वेदनिषिद्धकरणकाले / 6. वेदप्रामाण्याभ्युपगमाभाववति कादाचित्कः शिष्टव्यवहारः, वेदप्रामाण्याभ्युपगमवति च कादाचित्कोऽशिष्टव्यवहार इत्यर्थः / तत्परुषीयसर्ववेदमिकस्वस्वतात्पर्यविषयार्थे प्रामाण्यनिश्चयसमानकालीनवेदमिकाप्रामाण्य निश्चयीययावदभाववत्त्वार्थकम् / 10

Page Navigation
1 ... 82 83 84 85 86 87 88