Book Title: Tattva Chintamani
Author(s): M M Mathuranatha, Badrinath Shukla
Publisher: Sampurnanand Sanskrit Vishva Vidyalaya
View full book text
________________ प्रत्यक्षखण्डे मङ्गलवादः 71 यद्वा अलौकिकविषय शिष्टाचारत्वमेव हेतुः, शिष्टाचारत्वश्च भ्रमाजन्याचारत्वम्। आस्तिक-नास्तिकयोरगम्यागमनचैत्यवन्दनादावाचारजनकज्ञानस्य भ्रमत्वात् , बलवदनिष्टानुबन्धित्वादिष्टासाधनत्वाच्च / लोके च पाषण्डव्यावृत्तशिष्टव्यवहारो वेदप्रामाण्याभ्युपगमनिबन्धनः। ___ लाघवादाह 'यद्वे'ति / 'अलौकिकविषये'ति, अलौकिकविषयकेत्यर्थः / 'हेतुः' पूर्वोक्तहेत्वर्थः / तथा चाविगीतपदस्यैव लौकिकाविषयकत्वमर्थः, तच्च भोजनादौ लौकिककर्मणि व्यभिचारवारणायेति भावः / लौकिकाविषयकत्वन्तु प्राङ्निरुक्तमेव / नन्वेवं शिष्टकृतचैत्यवन्दनादौ व्यभिचार इत्यत आह 'शिष्टाचारत्वञ्चेति / 'अगम्यागमने'ति, अगम्या-गमनायोग्या या भूमिः, तत्र तीर्थत्वभ्रान्त्या कृतं यद्गमनमित्यर्थः / यथाश्रुतं तु न सङ्गच्छते, अलौकिकविषयकत्वविशेषणेनैव तद्वारणात् / / केचित्त अगम्यागमनस्योभयविशेषणेनैव कारणं सम्भवतीति सूचनाय तदभिधानमित्याहुः। _ 'बलवदनिष्टे'ति, निष्फलत्वादिति भावः / तदुद्देश्यकत्वेनाप्याचारो विशेषणीयः, प्रयोजनञ्चोक्तमेव / नन्वेवं भ्रमाजन्यःशिष्ट इति फलितम् / तथा च घटपटादौ गगनादौ पाषण्डे च शिष्टव्यवहारापत्तिरित्यत आह 'लोके चेति / 'वेदप्रामाण्याभ्युपगमे'ति, तथा च सर्वे वेदाः स्वस्वतात्पर्यविषयार्थे प्रमाणमित्याकारकयावद्वेदविशेष्यकानाहार्यनिश्चयवत्त्वं शिष्टपदशक्यतावच्छेदकम् , प्रकृते च शिष्टपदं भाक्तम् / एवं वेदो न प्रमाणमिति यत्किञ्चिवेदविशेष्यकानाहार्यनिश्चयवत्त्वमेव बौद्धत्वमिति भावः / बौद्धस्यापि "मा हिंस्यात् सर्वा भूतानि” इत्यादि यत्किञ्चिद्वेदप्रामाण्याभ्युपगन्तृत्वाद् वेदत्वावच्छदेनैवाहार्यप्रामाण्याभ्युपगमवत्त्वाच्च 'यावत्त्वानाहार्यत्वयोरुपादानम् / नन्वत्र तादृशनिश्चयो विशेषणमुपलक्षणं वा ? नाद्यः, सुषुप्त्यादिदशायामशिष्टः, त्वापत्तेः; न चेष्टापत्तिः, तदानीमपि शिष्टव्यवहारात् / नान्त्यः, बौद्धातिव्याप्ते: अनादौ संसारे कदाचित् तेनापि तदभ्युपगमात् / न च तच्छरीरावच्छेदेन तदभ्युपगमो विवक्षितः, एकस्मिन्नेव शरीरे कालभेदेन शिष्टताबौद्धतोभयदर्शनाद् बौद्धतादशायामतिव्याप्तेः, तदानीं शिष्टव्यवहाराभावात् ; अन्यथा अनादौ संसारे सर्वस्यैवात्मनो यदा कदाचिच्छिष्टत्वेनात्मत्वस्यैव तथात्वस्य सुवचत्वात् / अथ तत्पुरुषीयतादृशनिश्चयसमानकालीना यावन्तस्तत्पुरुषीयास्तादृशविरोधिनिश्चयाभावास्तद्वत्त्वं तत्पुरुषीयशिष्टत्त्वं, शिष्टतोत्तरबौद्धतादशायां तादृशनिश्चयसमानकालीनस्य बौद्धताकालीनविरोधिनिश्चयव्यक्तः प्रागभावस्य यावदन्तर्गतस्यास१. शिष्टपदशक्यतावच्छेदकगर्भ निश्चयविशेषणतयेत्यादिः / 2 बौद्धेऽतिव्याप्तेरित्यर्थः। .

Page Navigation
1 ... 80 81 82 83 84 85 86 87 88